________________
१७२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधु
वोत्तरात् ॥ ३६ ॥ [सि०७।२।१२१ ] उत्तरा उत्तराहि उत्तरता उत्तरात् रम्यम् २ ॥ ३६॥
वोत्त० । उत्तरशब्दात्प्रथमासप्तम्यन्तात् आ आहि प्रत्ययौ वा भवतः । योगविभागाहूर इति नानुवर्त्तते । उत्तरा उत्तराहि रम्यम् । पक्षे अतसातौ द्वौ-उत्तरतः उत्तराद्रम्यम् । द्विकेनाङ्केन वासो वेति ५सप्तम्यन्तमुदाहरणं सूचितम् ॥ ३६ ॥
अदूरे एनः॥ ३७॥ [सि०७।२।१२२] दिक्शब्दात्प्रथमासप्तम्यन्ताददूरे एनः स्यात् । पूर्वेणास्य रम्यं वासो वा ॥ ३७॥ ___ अदूरे० । वोत्तरादिति नानुवर्त्तते । दिक्शब्दादिति-दिग्वाचिनः शब्दादिग्देशकालवृत्तेः प्रथमासप्तम्य
न्तादवधेरदूरे वर्तमानादेनः प्रत्ययो भवति । अस्मात्पूर्वा अदूरा दिग् देशः कालो वा रम्यः-पूर्वेणास्य १० रम्यम् । एवं वासो वेति सप्तम्यन्तता भावनीया । एवं अपरेण दक्षिणेन उत्तरेण अधरेण । अदूर इति किम् ? पुरो रम्यमित्यादि । प्रथमासप्तम्या इत्येव-पुर आगतः । दिग्देशकालमात्रे द्योत्ये ये सामान्यप्रत्यया उक्ता, अदूरेऽपि सामान्यविवक्षायां ते भवन्येव, प्रकरणादेश्चादूरता गम्यते इति नार्थो वाग्रहणेन । अन्ये तु दक्षिणोत्तराधरशब्देभ्य एव एनप्रत्ययमिच्छन्ति ॥ ३७॥
दिक्शब्दादिग्देशकालार्थात्प्रथमापञ्चमीसप्तम्यन्तात्स्वार्थे धा स्यात् । १५ (दिक्शब्दादिग्देशकालेषु प्रथमापश्चमीसप्तम्याः [७।२।११३] इत्यनेन)
लुबच्चेः ॥ ३८॥ [सि० ७१२।१२३] __ अश्चत्यन्तादिकशब्दाद्विहितयोर्धेनयोर्खप् स्यात् । तल्लुपि च स्त्रीप्रत्ययस्यापि लुब् भवति । प्राची दिक् प्राङ् देशः कालो वा रम्यः प्रागम्यम् । एवमागतो वासो वा ॥ ३८॥ __दिक० लुब० । सूत्रद्वयं स्पष्टम् । लुपि चेत्यादि *"डयादेर्गौणस्याकिपस्तद्धितलुक्यगौणीसूच्योः” २० ख्यादेः प्रत्ययस्य गौणस्याकिबन्तस्य तद्धितलुकि लुक् स्यात् , न तु गौणीसूच्योरिति प्रारम्यमिति प्राची
दिग् अदूरा वा । एवं देशः कालो वा रम्यः प्राग् रम्यम् । एवं प्रत्यक्-अवाक्-उदक्-ऊर्द्धपूर्वापरादीनां दिक्शब्दानां विशेषसूत्रविहितै रिरिष्ठात्प्रभृतिभिः प्रत्ययैर्वाधितो धाप्रत्ययो न भवतीति । अश्वत्यन्ता एव विकशब्दा उदाहृताः ॥ ३८ ॥ अपरशब्दस्य प्रत्ययपरे विशेषमाह
पश्चोऽपरस्य दिक्पूर्वस्य चाति ॥ ३९॥ [सि० ७२।१२४ ] २५ अपरा दिक् पश्चात् । दक्षिणपश्चात् ।। ३९॥ ।
पश्चो० । अपरशब्दस्य केवलस्य दिक्पूर्वस्य च आति प्रत्यये परे पश्चादेशो भवति । अपरा दिग् देशः कालो वा रम्यः पश्चाद्रम्यम् । पश्चादागतः, पश्चाद्वसति । दिक्पूर्वात्-दक्षिणा चासौ अपरा च दक्षिणापरा दिग् देशः कालो वा रम्यः, दक्षिणपश्चात् रम्यम् , आगतो वासो वेति भावना प्राग्वत् ॥३९॥
वोत्तरपदेऽर्धे ॥४०॥ [सि० ७॥२१२५] ३० पश्चार्धम् । अपरार्धम् ॥ ४०॥
वोत्तर० । अपरशब्दस्य केवलस्य दिग्पूर्वपदस्य अर्द्धशब्दे उत्तरपदे परे पश्चादेशो वा भवति । अपरमर्द्ध पश्चार्द्धम् । दक्षिणापरस्या अर्द्ध दक्षिणापश्चार्द्धम् । पक्षे अपरार्द्धम् दक्षिणापरार्द्धम् । उत्तरपद ३३इति किम् ? अपरा अर्द्ध शोभते । असमासोऽयम् । पूर्वपदमुत्तरपदमिति हि समासे भवति ॥४०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org