________________
१७१
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे अव्ययानि । अधण्तखाथाशसः । पूर्वा० । सूत्रं कण्ठ्यम् , प्रथमेत्यादि वृत्तिलेशः । सूत्रवृत्तिलेशसस्टने चायमर्थः । दिग्देशकालार्थेभ्यः प्रथमापश्चमीसप्तम्यन्तेभ्यः पूर्वादिभ्यस्त्रिभ्योऽस्-अस्तात् इत्येतो प्रत्ययौ स्याताम् , एषां त्रयाणां यथासङ्ख्यं पुर् अव अध् इत्येते आदेशा भवन्ति । पुरः पुरस्तादित्यादि । रम्यमित्यत्र त्रिकेनाङ्केन आगतो वासो वेति पदवयसूचनम्, एवमन्यत्रापि ज्ञेयम् । भावना प्राग्वत् ॥ ३० ॥
परावरात्स्तात् ॥ ३१॥ [सि० ७।२।११६] परस्तात् अवरस्तात् रम्यम् ३ ॥३१॥ परा० । पर अवर इत्येताभ्यां दिग्देशकवलार्थाभ्यां प्रथमापञ्चमीसप्तम्यन्ताभ्यां स्वार्थिकः स्तात्प्रत्ययो भवति । परा दिग् देशः कालो वा रम्यः । परस्ताद्रम्यं परस्तादागतः परस्तावसति । एवमवरस्ताद्रम्यम् ३ ॥३१॥
दक्षिणोत्तरपरावरेभ्योऽतस् ॥ ३२ ॥ दक्षिणतो रम्यम् ३ ॥ ३२ ॥
दक्षिणोत्तराचातस् [ सि० ७।२।११७ ] दक्षिण उत्तर इत्येताभ्यां चकारात् परावराभ्यां च दिग्देशकालेषु वर्तमानाभ्यां प्रथमापञ्चमीसप्तम्यन्ताभ्यां स्वार्थेऽतस् प्रत्ययो भवति । दक्षिणशब्दः काले न सम्भवतीति दिग्देशवृत्तिर्गृह्यते । एतत्सर्व सङ्केपत आह-दक्षिणोत्तरेत्यादि-दक्षिणतो रम्यमिति दक्षिणा दिग् देशो वा रम्य इत्यर्थः ॥ ३२ ॥
अधरापरदक्षिणोत्तरेभ्य आत् ॥ ३३ ॥ अधरात् रम्यम् ३ इत्यादि ॥ ३३ ॥
अधरापराचात् [सि० ७।२।११८] अधर अपर इत्येताभ्यां दिग्देशकालवृत्तिभ्यां प्रथमापञ्चमीसप्तम्यन्ताभ्यामात्प्रत्ययो भवति । चकारात् दक्षिणोत्तराभ्याम् । एतदपि सङ्केपेणाह-अधरापरेत्यादि ॥३३॥
__ वा दक्षिणात्प्रथमासप्तम्या आ॥ ३४ ॥ [ सि० ७।२।११९] २० दक्षिणा रम्यम् २ ॥ ३४ ॥
वा दक्षि० । दक्षिणशब्दाहिग्देशवृत्तेः प्रथमान्तात्सप्तम्यन्ताच आः प्रत्ययो वा भवति । दक्षिणा रम्यं दक्षिणा वसति । पक्षे अतसातौ-दक्षिणतो रम्यं दक्षिणतो वसति, दक्षिणाद्रम्यं दक्षिणाद्वसति । पञ्चम्यां सावकाशौ अतसातौ आत्प्रत्ययो बाधेतेति वाग्रहणम् । प्रथमासप्तम्या इति किम् ? दक्षिणत आगतः, दक्षिणादागतः ॥ ३४ ॥
आही दूरे ॥ ३५॥[सि० ७।२।१२०] दूरदिग्देशात्प्रथमासप्तम्यन्ताइक्षिणादा आहिश्च। गिरेर्दक्षिणा दक्षिणाहि रम्यं वासोवा॥३५॥
आही० । दूरदिग्देशार्थादिति-दिग्शब्दा अवध्यपेक्षाः । तत्रावघेर्दूरे दिशि वा वर्तमानादित्यर्थः । गिरेरित्यावि-गिरेर्दूरा दक्षिणा विग् देशो या रम्यः दक्षिणा दक्षिणाहि रम्यमिति । दूर इति किम् ? दक्षिणतः दक्षिणाद्रम्यम्-आहिर्न भवति आकारस्तु पूर्वेण सामान्येन विधानाद्भवत्येव । इह तु आग्रहणं विशेषविहितेन आहिना बाधो मा भूदिति । प्रथमासप्तम्या इत्येव-दक्षिणत आगतः ॥ ३५ ॥ ३१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org