________________
१७०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुद्वाभ्यां प्रकाराभ्यां त्रिभिः प्रकारैः द्वैधम् , त्रैधम् , द्वेधा, त्रेधा मुते । वावचनाहिधा त्रिधा । एक राशि द्वौ त्रीन् वा करोति, द्वैधम् , त्रैधम्, द्वेधा, त्रेधा, द्विधा, त्रिधा करोति ॥ २५ ॥
वारे कृत्वस् ॥ २६ ॥ [ सि०७२।१०९ ] सङ्ख्यायाः। पश्चकृत्वः ॥ २६ ॥ . ५ वारे । वारो धात्वर्थस्यायोगपद्येन वृत्तिस्तत्कालो वा । तस्मिन्वर्तमानात्सयाया इति सङ्ख्याशब्दात्तद्वति वारवति धात्वर्थे क्रियायामर्थे कृत्वस् प्रत्ययो भवति । पञ्च वारा अस्य पञ्चकृत्वो मुझे। भुज्यर्थो वारवानिति भुज्यर्थस्येदं विशेषणम् । तद्वतीत्येव-भोजनस्य पश्च वाराः । सङ्ख्याया इत्येव-भूरयो वारा अस्य भोजनस्य ।। २६ ॥
द्वित्रिचतुरः सुच् ॥ २७ ॥ [सि० ७२२११०] १० वारे । द्विस्त्रिश्चतुर्धा भुते ॥ २७॥
द्वित्रि० । द्विश्च त्रिश्च चतुर् च द्वित्रिचतुर् तस्मात् । सुच् १-१ । वारे इति-एभ्यः सङ्ख्याशब्देभ्यस्तद्वति सुच् प्रत्ययो भवति । कृत्वसोऽपवादः । द्वौ वारावस्य द्विः, एवं त्रिश्चतुर्भुते ॥ २७ ॥
एकात्सकृञ्चास्य ॥ २८॥ [सि० ७।२।१११] एकवारं भुते । सकद्भुते ॥ २८॥ १५ एका० । एकादिति एकशब्दाद्वारे वर्तमानात्तद्वत्यभिधेये सुच्प्रत्ययः सवदिति चास्यादेशो भवति ।
कृत्वसोऽपवादः । एकवारं भुते सकृद्भुते । अत्रायं विशेषः “यहोर्द्धासन्ने” (७२।११२) बहुशब्दात्सङ्ख्यावाचिनः आसन्ने अविदूरेऽविप्रकृष्टकाले वारे क्रियाप्रवृत्तौ तत्काले वाऽविप्रकृष्टे वर्तमानात्तद्वति धाप्रत्ययो भवति । बहव आसन्ना वारा अस्य बहुधा भुते । आसन्न इति किम् ? बहुकृत्वो मासस्य भुङ्क्ते । आसन्नवारेऽपि वारमात्रे द्योत्ये कृत्वस् भवत्येव-बहुकृत्वोऽहो भुङ्क्ते । आसन्नता तु प्रकरणा२० दिना गम्यते । एके तु गणधा भुते, तावद्धा भुले इत्यत्रापीच्छन्ति ॥ २८ ॥
ऊर्ध्वादिरिष्टातावुपश्चास्य ॥ २९ ॥ [ सि० ७।२।११४ ] ऊर्ध्वादिग्देशकालार्थात्प्रथमापञ्चमीसप्तम्यन्तादेतौ (धापवादौ) स्याताम् , उपश्चास्यादेश: स्यात् । उपरि उपरिष्टात् रम्यं आगतो वासो वा ॥२९॥
ऊर्ध्वा० । एताविति रिरिष्ठात् इत्येतौ प्रत्ययौ भवतः उपश्चास्येति अस्य ऊर्ध्वशब्दस्य उप इत्यादेशो २५ भवति । उपरि उपरिष्टाद्रम्यमित्यत्र ऊो दिग् ऊों देशः ऊर्ध्वः कालो वा रम्य इत्यर्थः । क्रियाव्ययविशेषणे' इति वचनात् रम्यमित्यत्र नपुंसकत्वम् इति प्रथमान्तस्योर्ध्वशब्दस्योदाहरणम् । आगत इति-उपरि उपरिष्टात् आगतः ऊर्ध्वदिशः ऊर्ध्वदेशात् ऊर्ध्वकालाद्वा आगतः इति पञ्चम्यन्तस्योदाहरणम् । वासो वेति-उपरि उपरिष्टाद्वास इति ऊर्ध्वदिशि ऊर्ध्वदेशे ऊर्ध्वकाले वासश्चैत्रस्येति सप्तम्यन्तस्योवंशब्दस्योदाहरणम् । वाशब्द आगतो वास इत्यत्र प्रत्येकं उपरि उपरिष्टादित्यस्य समुच्चयार्थः । एवमन्य३० त्रापि रम्यमित्यादिभिः पदैः प्रथमा-पञ्चमी-सप्तमीभावना कार्या ॥ २९ ॥
पूर्वावराधरेभ्योऽसऽस्तातौ पुरवधश्चैषाम् ॥ ३०॥ [ सि० ७।२।११५] ३२ प्रथमापञ्चमीसप्तम्यन्तानाम् । पुरः पुरस्तात् । अवः अवस्तात् । अधः अधस्तात् रम्यम् ३॥३०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org