________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे अव्ययानि । अधण्तखाबाशसः १६९ ऐष० । एते त्रयो वर्षकाले निपात्यन्ते । इदम्शब्दात् सप्तम्यन्तात् वर्षे वर्तमानात् समसिणप्रत्ययः इदमश्कारादेशः अस्मिन् संवत्सरे ऐषमः । इमकस्मिन् ऐषमः । पूर्वशब्दात्परशब्दाद्वा उत्प्रत्ययस्तस्य च पर इत्यादेशः पूर्वस्मिन् परस्मिन् वा संवत्सरे परुत् । पूर्वतरशब्दात्परतरशब्दाद्वा आरिप्रत्ययस्तस्य परादेशः पूर्वतरे परतरे वा संवत्सरे परारि ॥ १९ ॥ सङ्ख्याया धा ॥ २०॥ [सि० ७।२।१०४]
५ प्रकारे । एकधा ॥२०॥
सया० । सङ्ख्या ६-१ । धा १-१ । एकति-एकेन प्रकारेण एकधा । एवं द्विधा त्रिधा चतुर्धा पञ्चधा शतधा बहुधा गणधा कतिधा तावद्धा ॥ २०॥ एकव्यादीनां सङ्ख्यात्वं प्रसिद्ध कत्यादीनां तु न तथेति सङ्खधाया अतिदेशमाह
डत्यतु सङ्ख्यावत् ॥ २१ ॥ [सि० ११॥३९] डत्यन्तमत्वन्तं च सङ्ख्यावत् स्यात् । कतिधा । यावद्धा ॥ २१ ॥ डत्य० । डतिश्च अतुश्च डत्यतु १-१ । सङ्ख्येव सङ्ख्यावत् १-१ ॥ २१ ॥
बहुगणं भेदे ॥ २२ ॥ [सि० ११११४०] तथा । बहुधा गणधा ॥ २२॥
बहु० । बहुश्च गणश्च बहुगण १-१ । भेद ७-१ । तथेति बहुगणशब्दौ सङ्ख्यावदित्यर्थः । भेदे इति १५ किम् ? वैपुल्ये सङ्घ च सङ्ख्यावद्भावो मा भूत् ॥ २२ ॥ एवम्
विचाले च ॥ २३॥ [सि०७।२।१०५] द्विधा । एकधा ॥ २३ ॥ विचलनं विचालः द्रव्यस्य पूर्वसङ्ख्यायाः प्रच्युतिः सयान्तरापत्तिरेकस्यानेकीभावः (अनेकस्य चैकीभावः) तस्मिन् गम्यमाने सङ्ख्यावाचिनो नानो धाप्रत्ययो भवति । एको राशिौं क्रियते-द्विधा २० क्रियते, एको राशिौं भवति-द्विधा भवति । अनेक एकः क्रियते-एकधा क्रियते, अनेक एको भवतिएकधा भवति । चकार उत्तरत्र प्रकारे विचाले चेत्युभयोः समुच्चयार्थः । प्रकारोऽवस्थितस्य धर्मिणो भवति । विचाले तु अवस्थित एव धर्मी (धर्मः) पृथक् क्रियते ॥ २३ ॥
वैकाद् ध्यमञ् ॥ २४ ॥ [सि० ७।२।१०६ ] ऐकध्यम् । एकथा ॥ २४ ॥
वैका० । वा १-१ । एक ५-१ । ध्यमञ् १-१ । एकशब्दात्प्रकारे वर्तमानाद्विचाले च गम्यमाने ध्यमञ् प्रत्ययो भवति वा । एकेन प्रकारेण ऐकध्यम् एकधा भुङ्के । अनेकमेकं करोति ऐकध्यं करोति । एकधा करोति । वाग्रहणं धार्थम् ॥ २४ ॥
द्विर्धमधौ वा ॥ २५॥ [सि० ७।२।१०७ ] द्वित्रिभ्यां प्रकारादिष्वेतौ वा स्याताम् । द्वैधम् । त्रैधम् । द्वेधा त्रेधा । द्विधा त्रिधा। इति ॥२५॥ ३० द्वित्रि० । द्विश्व त्रिश्च द्वित्रि, तस्मात् द्वित्रि ५-१ । धमन् च एधा च धमधा १-२ । वा १-१ । प्रकारादिष्विति आदिशब्दात् विचाले गम्यमाने इति । प्रकृतिप्रत्यययोर्वचनभेदायथासंख्यं नास्ति । ३२
है• प्रका० पूर्वा० २२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org