________________
१६८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुप्रका० । “सप्तम्याः" इति निवृत्तमत आह-संभवत्स्याद्यन्तादिति । प्रकारे इति सामान्यस्य भिद्यमानस्य भेदान्तरानुप्रवृत्तो भेदः प्रकारः। सर्वेण प्रकारेण सर्वथा । बहोस्तु परत्वाद्धा भवति, संख्यावाचित्वादिति ॥ १२ ॥ सूत्रम्
कथमित्थम् ॥ १३॥ [सि०७।२।१०३ ] ५ एतौ प्रकारे साधू ॥ १३ ॥
कथमिति किमस्थापवादः थम् निपात्यते, केन प्रकारेण कथम् । इत्थमिति इदम एतदो वा थम्प्रत्यय इदादेशश्च । अनेन एतेन वा प्रकारेण इत्थम् ॥ १३ ॥
किंयत्तत्सर्वैकान्त्यात्काले दा ॥ १४ ॥ [सि० ७२९५] कदा । यदा । तदा । सर्वदा । एकदा । अन्यदा ॥ १४ ॥ १० किंयत् । एभ्यः षड्भ्यः सप्तम्यन्तेभ्यः काले दा स्यात् । कस्मिन्काले कदा । एवं यदा तदा सर्वदा एकदा अन्यदा । काल इति किम् ? क देशे ॥ १४ ॥
सदाधुनेदानींतदानीमेतर्हि ॥ १५॥ [ सि० ७।२।९६ ] एते काले साधवः ॥१६॥
एते पञ्चशब्दाः काले वाच्ये निपात्यन्ते । सदेति सर्वशब्दादाप्रत्ययः सभावश्चास्य, सर्वस्मिन् १५ काले सदा । सर्वदेत्यपि पूर्वेण । इदमो धुनाप्रत्ययः अकारादेशश्च, अस्मिन्काले अधुना । इदमो दानी
प्रत्ययः इकारादेशश्च, अस्मिन् काले इदानीम् । तच्छब्दादानींप्रत्ययः तकारादेशश्च, तस्मिन्काले तदानीम् । इदमो हिप्रत्ययः, एतादेशश्च अस्मिन्काले एतर्हि ॥ १५ ॥
सद्योऽद्यपरेद्यव्यति ॥ १६ ॥ [ सि० ७।२।९७ ] एतेहि काले साधवः ॥१६॥
सद्यो० । एते त्रयोऽह्नि काले निपात्यन्ते । समानशब्दात् सप्तम्यन्तादहि काले वर्तमानात् द्यस्प्रत्ययः समानस्य च सभावो निपात्यते, समानेऽहि सद्यः । इदम्शब्दात् द्यप्रत्ययः अकारादेशश्चास्य, अस्मिन्न. हनि अद्य । परशब्दात् एद्यविप्रत्ययः, परस्मिन्नहनि परेद्यवि । सद्य इति केचित् कालमात्रे निपातयन्ति ॥ १६ ॥
पूर्वापराधरोत्तरान्यान्यतरेतरादेयुस् ॥ १७॥ [सि० ७२।९८] २५ ड्यन्तेभ्यः सप्तभ्य एभ्योऽह्नि काले एद्युस् । पूर्वेयुः ॥१७॥ पूर्वा० । पूर्वस्मिन्नहनि पूर्वेयुः । एवं अपरेटु अधरेद्युः उत्तरेयुः अन्येाः अन्यतरेयुः इतरेयुः ॥१७॥
उभयाद् द्युश्च ॥१८॥ [सि०७।२।९९] उभयद्युः । चादेयुस्-उभयेयुः॥१८॥ उभ० । उभयस्मिन्नहनि उभययुः उभयेयुः १८ ॥
ऐषमापरुत्परारि वर्षे ॥ १९ ॥ [ सि० ७।२।१०० ] ३१ पूर्वसिन्वर्षे परुत् । पूर्वतरे वर्षे परारि ॥१९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org