________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे अव्ययानि । अधण्तखाद्याशसः
१६७ एभिश्चतुर्भिः समानाधिकरणात् किमब्यादिसर्वाद्यवैपुल्यबहोः सर्वविभक्त्यन्तात् पित्तस् स्यात् । स भवान् ततो भवान् , तौ भवन्तौ ततो भवन्तौ, ते भवन्तः ततो भवन्तः, तं भवन्तं ततो भवन्तं, तेन भवता ततो भवता, तस्मै भवते ततो भवते, तस्मात् भवतः २, तस्य भवतः २ । एवमयं भवान् इतो भवान् । को भवान् कुतो भवान् इत्यायुदाहार्यम् । तथा स आयुष्मान तत आयुष्मान् । स दीर्घायुः ततो दीर्घायुः । स देवानांप्रियः ततो देवानांप्रियः । अयमायुष्मान् इत आयुष्मान क आयु० कुत आयु० । एवं दीर्घायु-५ र्देवानांप्रियाभ्यामपि । भवत्वित्युकारः सर्वादिपरिग्रहार्थः । तेन मतुशत्रंतव्युदासः । त्रप् च [ ७।२। ९२ ] भवत्वादिभिः समानाधिकरणात् किमब्यादिसर्वाद्यवैपुल्यबहोः सर्वविभक्त्यन्तात् त्रप् स्यात् । स भवान् तत्र भवान् , तौ भवन्तौ तत्र भवन्तौ, ते भवन्तः तत्र०, तं भवन्तं तत्र०, तेन भवता तत्र०, तस्मै भवते तत्र भ०, तस्माद्भवतः २, तत्रभवतः २, तस्मिन् भवति तत्र०, । एवमायुष्मदादिभिरप्युदाहार्यम्। योगविभागश्चकारेण पुनस्तविधानार्थस्तेन सप्तम्यन्तात् अपि तस् भवति । ततो भवति १० तत्र भवति, अन्यथा हि ततः "सप्तम्याः" परत्वात् त्रबेव स्यात् । रूढिशब्दाश्चैते ततोभवदादयः समुदायाः पूजावचना यथाकथंचिड्युत्पाद्यन्ते अत एव पुनस्तदादिरनुप्रयुज्यते । स तत्रभवान् , तं तत्रभवन्तम् । केचित्तु भवच्छब्दस्यामश्रणे सौ भो इत्यादेशं कुर्वन्ति तन्मते ततो भोः तत्रभोरित्यपि भवति केचित्तु भवदाद्ययोगेऽपि त्रप्तसाविच्छन्ति क गमिष्यसि कं देशं गमिष्यसीत्यादि ॥ ८ ॥ सूत्रम्
सप्तम्याः ॥९॥ [सि० ७।२।९४ ] सप्तम्यन्तात्किमादेस्सए । सर्वत्र । बहुत्र ॥९॥
सप्त० । सप्तमी ५-१ । किमादेरिति किमोऽब्यादिसर्वादिभ्यो अवैपुल्यबहोश्चेति ज्ञेयम् । पकारस्य पुंवद्भावार्थत्वाद् बढीषु बहुत्र ॥ ९ ॥
ककुत्रानेह ॥ १०॥ [ सि० ७।२।९३ ] क्क, कुत्र, अत्र, इह, एते त्रबन्ताः साधवः ॥१०॥
कश्च कुत्रश्च अत्रश्च इहश्च ककुत्रात्रेह १-१ "अव्ययस्य" । केति किमः कादेशः त्रपश्चाकारः । कुत्रेति किमः कु इत्यादेशः । अत्रेति एतदो अकारादेशः एतस्मिन् अत्र, साकोऽपि एतकस्मिन् अत्र । इहेति इदम इकारादेशः त्रपश्च हादेशः, अस्मिन् इमकस्मिन् इह । एषु "सप्तम्याः" इति अप् । त्रपमात्रे चैते आदेशा विधीयन्ते तेन भवदादियोगेऽपि भवन्ति । क भवान् कुत्र भवान् , अत्र भवान् इह भवान् , क आयुष्मान् कुत्रायुष्मान् इत्यादि ॥ १० ॥ सूत्रम्
अनद्यतने हिः ॥ ११ ॥ [सि० ७।२।१०१ ] ङयन्तादनद्यतनकाले यथासंभवं किमादेः र्हिः स्यात् । कर्हि । यहि । बहुर्हि ॥ ११ ॥
अनद्य० । कस्मिन्ननद्यतने काले कर्हि । यहि तर्हि अन्यर्हि । एतस्मिन्ननद्यतने काले एतर्हि । एतदः साको नेष्यते । अमुष्मिन् काले अमुर्हि । इदमस्तु अनेन नेष्यते । बहुषु कालेषु बहुर्हि । काल इत्येव-यस्मिननद्यतने भोजने यत्र । अनद्यतन इति किम् ? यस्मिन् काले यदा । अनद्यतनेऽपि काले कालमात्रविव-३० क्षायां दादिः प्रत्ययो भवति-कदा । सप्तम्यर्थमात्रविवक्षायां त्रबपि भवति अमुत्र काले ॥११॥ सूत्रम
प्रकारे था ॥ १२ ॥ [ सि०७२।१०२ ] यथासंभवं स्याद्यन्तात्किमादेशः प्रकारे था स्यात् । सर्वथा ॥ १२ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org