________________
१६६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुएकतः इतः । प्रमाणेन प्रमाणाद्वा प्रमाणतः । पृष्ठेन पृष्ठतोऽर्क सेवेत । एवं पार्श्वतः इतः । दुष्टः शब्दः स्वरतो वर्णतो वा । शब्दतः अर्थतः अभिधानतः । येन यस्मिन्वा यतः, ततः, पृषोदरादित्वादलोपः । आद्यादयः प्रयोगगम्याः ॥ ५ ॥
अहीयरुहोऽपादाने ॥६॥ [सि० ७।२।८८] ५ अपादानपञ्चम्यास्तसुर्वा स्यात् । ग्रामतो ग्रामात् । हीयरुहोस्तु न-सार्थाद्धीनः, गिरेरवरोहति ॥६॥
अहीय० । हीयश्च रुह् च हीयरुह् , न हीयरुह् तस्य अहीयरुह् ६-१ । अपादान ७-१ । अपादानपश्वम्या इत्यादि-अपादाने या पश्चमी विहिता तदन्तात्तसुः प्रत्ययो वा भवतीत्यर्थः । हीयरहोस्तु नेति
सच्चेदपादानं हीयरुहोः सम्बन्धि भवति तर्हि तसुर्न स्यादित्यर्थः । सार्थाद्धीन इत्यत्र सार्थादिति कर्तुरपा१. येऽवधिविवक्षा सार्थेन हीयते देवदत्त इत्यर्थः । हीयते इति कर्मकर्त्तरीत्यन्ये सार्थात् स्वयं हीयते, स्वयं
देवदत्त इत्यर्थः । हीयेति क्यान्तस्य जहातेर्निर्देशो जिहीते इत्यस्य व्युदासार्थः । तेन तत्र प्रतिषेधो न भवति-भूमित उज्जिहीते । हागिति निर्देशेनैव हाङो निवृत्तिसिद्धौ हीयेति निर्देशो यत्रैव भावे कर्मणि कर्मकर्त्तरि च जहातेः प्रयोगस्तत्रैवापायविवक्षा नान्यत्रेत्येवमयं तेन सार्थाजहातीति न भवति ( सार्थो
जहातीति वाक्ये ) । अपादान इति किम् ? ऋते धर्मात्कुतः सुखम् , आ स्तुन्नादृष्टो देव इति ॥ ६ ॥ १५ किमयादिसर्वायवैपुल्यबहोः पित्तस् ॥ ७॥ [ सि० २२२६८९ ]
किमो ब्यादिवर्जसर्वादिभ्योऽवैपुल्यार्थबहोश्च पञ्चम्यन्तात्पित्तस् स्यात् । कुतः। सर्वतः । बहुतः
किम । द्विरादिः येषां ते ब्यादयः, न ढ्यादयः अध्यादयः, सर्व आदिर्येषां ते सर्वादयः, अध्यादयश्च ते सर्वादयश्च अब्यादिसर्वादयः, विपुलस्य भावो वैपुल्यम् , न वैपुल्यमवैपुल्यम् , अवैपुल्ये बहुः अवैपुल्यबहुः, २० किम् च अध्यादिसर्वादयश्च अवैपुल्यबहुश्च किमब्यादिसर्वाद्यवैपुल्यबहुः, तस्मात् किमद्व्यादिसर्वाद्यवैपुल्यबहु ५-१ । पित् १-१ तस् १-१ । कुत इत्यादि-कस्मात् कुतः सर्वेभ्यः सर्वतः बहुभ्यो बहुतः । किमः सर्वादित्वेऽपि ब्यादिवर्जनात् न प्राप्नोतीति पृथगुपादानम् । ब्यादिवर्जनं किम् ? द्वाभ्याम् । त्वत् । कथं द्वितः त्वत्त इत्यादि ? "अहीयरुहोपादाने" (७।२।८८) इति भविष्यति । अनेन हि तस्विधाने
"आढेरः" इत्यत्वं स्यात् । बहोर्वैपुल्यप्रतिषेधः किम् ? बहोः सूपात् । किमब्यादिसर्वाद्यवैपुल्यबहोः २५ इति किम् ? वृक्षाद्विना । किंसर्वादिबहोश्च तसुविषयेऽपि परत्वात् अयमेव तस् । यत आगच्छति तत
आगच्छति । निरनुबन्धप्रत्ययान्तरकरणं "आढेरः” इत्यत्वार्थम् । पित्करणं पुंवद्भावार्थम्-बह्वीभ्यो बहुतः । पञ्चम्यन्तमात्रादयं विधिः-सर्वतो हीयते सर्वतो रोहति सर्वतो हेतोः सर्वतः पूर्वः ॥ ७ ॥
इतोऽतः कुतः॥८॥[सि०७।२।९.1 एते तसन्ता साधवः ॥ ८॥ ३० इतो० । इतश्च अतश्च कुतश्च इतोऽतः कुतः १-१ "अव्ययस्य" । साधवः इति-एते शब्दा निपात्यन्ते
इत्यर्थः । इदंशब्दस्य इत इति, एतच्छब्दस्य अत इति, किम्शब्दस्य कुत इति । साकोऽप्येवम्-अस्मात् इमकस्मात् इतः, एतस्मात् एतकस्मात् अतः, कस्मात् कुत इति । इह पञ्चम्या इति नानुवर्त्तते, लक्षणान्तरेण
तसि तसौ वा सिद्धे आदेशमात्रं विधीयते, तेनोत्तरसूत्रेण तसि इतो भवान् । आद्यादितसौ इतः आस्यता३४ मिति भवति । अत्रादिशब्दसंसर्गात् "भवत्वायुष्मदीर्घायुर्देवानांप्रियैकार्थात्" [७।२।९१ ]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org