________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे अव्ययानि । चादयः । अधण्तखाद्याशसः १६५ केचिदान्तमपरे दीर्घादि च मन्यन्ते । खोस् कुत्सायाम् । स्वराश्चतुर्दशापि पूरणभर्त्सनामश्रणनिषेधेषु । अ इति सम्बोधनेऽधिक्षेपे निषेधे च । आ इति वाक्यस्मरणयोः । इ सम्बोधनजुगुप्साविस्मयेषु । इ ई उ ऊ ए ऐ ओ औ सम्बोधने इति मनोरमायाम् । चादय इत्यत्र बहुवचनमाकृतिगणार्थं तेन आत इतोऽपीत्यर्थे । यत्सत् यतस्तत एतौ हेतौ । अनुकं वितर्के । शंवट अन्तःकरणे आभिमुख्य च । व पादपूरणे इवार्थे च । चाटु चटु प्रियवाक्ये । हुं भर्त्सने । तुमिति तुकारे गुरुं५ तुंकृत्य । इव सादृश्ये । अद्यत्वे इदानीमित्यर्थे, इत्यादयो झेयाः॥२॥ अव्ययसंज्ञायामेव सूत्रमाह
अधण्तखाद्याशसः ॥३॥ [सि० १।१३२] धण्वर्जास्तस्वादयः शसपर्यन्ता ये प्रत्ययास्तदन्तं नामाव्ययं स्यात् ।
अध० । तसुरादिर्यस्य तत्तस्वादि । न धण अधण् अधण् च तस्वादि च अधण्तस्वादि १-१ "अनतो लुप्" । आ १-१ "अव्ययस्य" । शस् ५-१ *"आङावधौ” अवधिर्मर्यादा अभिविधिश्च तद्वृत्तै-१० राङा युक्तात्पञ्चमी स्यादिति पञ्चमी । शस्पर्यन्ता इति अत्राङोऽभिविध्यर्थत्वात् शस्प्रत्ययान्तानामप्यव्ययसंज्ञा सिद्ध्यति । अथ तखादीनां प्रत्ययान्तानां कतिचित्सूत्राणि निर्दिशति सूत्रम्---
व्याश्रये तसुः॥ ४॥ [सि० ७।२।८१] षष्ठयन्तात् नानापक्षाश्रये गम्ये तसुः स्यात् । देवा अर्जुनतोऽभवन् रविः कर्णतोऽभवत् ॥४॥
व्याश्रये इति । नानापक्षाश्रयो व्याश्रयः तसुरित्यत्र उकारोऽधण्तस्वाद्याशस इत्यत्र विशेषणार्थः ।१५ देवा अर्जुनतोऽभवन् रविः कर्णतोऽभवदिति। अर्जुनकर्णयोर्विवदमानयोरर्जुनस्य पक्षे देवाः कर्णस्य पक्षे आदित्योऽभवदित्यर्थः । अत्रादिशब्दात् “रोगात्प्रतीकारे” (७।२।८२) तसुः । मूर्छातः कुरुअस्य रोगस्य चिकित्सां कुर्वित्यर्थः । क्षेपातिग्रहाव्यथेष्वकर्तृस्तृतीयाया:" (७।२।८५) तृतीयान्तादकर्तृवाचिनः क्षेपादिविषये तसुः स्यात् । वृत्तेन वृत्ततः क्षिप्तः, निन्दित इत्यर्थः । अतिक्रम्य ग्रहणमतिशयेन वा ग्रहणमतिग्रहः । वृत्तेन वृत्ततोऽतिगृह्यते । साधुवृत्तोऽन्यानतिक्रम्यातिशयेन वा गृह्यते २० साधुवृत्त इति सम्भाव्यते इत्यर्थः । अचलमव्यथा अभीतिर्वा वृत्तेन वृत्ततो न व्यथते न चलति न बिभेति वेत्यर्थः । क्षेपादिष्विति किम् ? वृत्तेन भिन्नः । अकर्तुरिति किम् ? चैत्रेण क्षिप्तः । तृतीयायाः इति किम् ? चैत्रं क्षिपति । पापहीयमानेन [सि०७२।८६] अकर्तृवाचिनः तृतीयान्तादाभ्यां योगे तसुः स्यात् । वृत्तेन वृत्ततः पापः, वृत्तेन वृत्ततो हीयते । शब्दतो हीनः स्वरतो वर्णतो वा । अकर्तुरित्येवचैत्रेण हीयते । आभ्यामिति किम् ? चारित्रेण शुद्धः । तृतीयाया इत्येव-ग्रामे हीयते । क्षेपाविवक्षायां २५ तत्त्वाख्याने यथा स्यादिति वचनम् । “प्रतिना पञ्चम्याः ” (७।२।८७) प्रतिना योगे या पञ्चमी विहिता तदन्तात्तसुः स्यात् , वा । प्रद्युम्नो वासुदेवात् प्रति, वासुदेवतः । प्रति माषानस्मै तिलेभ्यः, तिलतः प्रतियच्छति ॥ ४ ॥ सूत्रम्---
पर्यभेः ( सर्वोभये ) ॥ ५॥ [ सि० ७।२।८३ ] तसुः। परितः । अभितः॥५॥ पर्य० । परिश्च अभिश्च पर्यभि तस्मात् पर्यभि ५-१ । तसुः इत्यस्य वृत्तिलेशस्यायमर्थः । परि अभि इत्येताभ्यां यथाक्रम सर्वोभयार्थे वर्तमानाभ्यां तसुः स्यात् । परितः सर्वतः, अभित उभयत इत्यर्थः । एवम् "आद्यादिभ्यः” (७।२।८४) एभ्यः संभवद्विभक्त्यन्तेभ्यस्तसुः प्रत्ययो भवति। आदौ आदेर्वा आदितः एवं मध्यतः अन्ततः अग्रतः वक्षस्तः पार्श्वतः पृष्ठतः मुखतः सर्वतः विश्वतः उभयतः अन्यतः पूर्वतः ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org