________________
महामहोपाध्यायश्रीविनय विजयगणिविरचिते खोपज्ञहै मलघु
प्रश्नकार्याधिकारप्रतिज्ञासमुच्चयेषु । अयं स्वरादिरपि । तेन मंगलवाचकस्य द्रव्यार्थत्वेऽपि अव्ययत्वं सिद्ध्यति । तथा च श्रीहर्षः "उदस्य कुंभीरथ शातकुंभजाश्चतुष्कचारुत्विषि वेदिकोदरे । यथाकुलाचारमथावनीन्द्रजां पुरन्ध्रिवर्गः स्त्रपयाम्बभूव" इति, अत्र हि अथ रूपयाम्बभूवेत्यस्य मङ्गलं स्नपनं चकारेत्यर्थः । निपातस्तु स्वरूपेणैव मङ्गलं मृदङ्गध्वनिवत् इति मनोरमायाम् । ओमिति स्वरादौ ५ पठितम् । अथो अन्वादेशादौ । नो नोहि एतौ निषेधे । भोस् भगोस् अघोस अघो
हो हो अहो आहो उताहो नवाप्येते सम्बोधने । हा ही एतौ विषादविस्मये ( हा विषादशू( शो ) कार्त्तिषु, ही विस्मये इति है ० वृ० न्या० | है है हये अये अयि अररे अन रे अरे अवे हेप्रमुखा दशाप्यनुशयसम्बोधनयो: ( [ हाप्रभृति ] द्वादशैतेऽनुशय सम्बोधनयोरिति है ० वृ० न्या० ) । ननु विरोधोक्तौ अनन्वयादौ च । शुकम् सुकम् नुकम् हिकम् नहिकम् पञ्चाप्येते प्रत्याख्याने । १० शुकम् शैये शुकमतिशये इति मनोर० । ऊम् प्रश्ने । हुम् भर्त्सने । कुम् प्रश्ने । उञ् रोषोक्तौ (अस्ति सत्त्वे रोषोक्तौ च सुञ् उच्वत् इति है ० वृ० न्या० ) कम् पादपूरणे (स्वरादौ ज्ञातव्यमिति है० वृ० न्या० ) । हम् रोषानुपमादौ ( रोषानुकम्पादौ इति है ० वृ० न्या० ) । किम् प्रश्ने वितर्के च । हिम् संभ्रमभर्त्सनयोः । अद् विस्मये । कद् कुत्सायाम् । यद् तद् हेत्वर्थवाक्योपन्यासयोः । इद् अपूर्वेऽर्थे ईषदर्थे च । चिद् प्रश्नावधारणयोः । विदू भर्त्सनपादपूरणयोः । स्विद् विमर्शप्रश्नयोः । उत्त १५ वितर्के (विकल्पे इति है ० वृ० न्या० ) । बत खेदानुकम्पासंतोषविस्मयामन्त्रणेषु । इव उपमावधारणयोः । तु विशेषणपादपूरणयोः । नु वितर्कपादपूरणयोः । यच्च वाक्यान्तरोपक्रमे । कच्चन कश्चिदर्थे । किमुत विकल्पे । किल संप्रश्नवार्तयोः अलीकेऽपि । किंकिल किलार्थे । किंखिद् उदखिद् आहोस्विद् एते त्रयोsपि प्रश्नवितर्कविकल्पेषु । अहह अद्भुतखेदयोः । नहवै नवै द्वावपि प्रत्याख्याने । नवा विभाषायाम् । अन्यत् अन्यार्थे । अन्यत्र अन्याधिकरणे काले । शबू शप् द्वावपि प्रतिग्रहे । २० अथकिम् अङ्गीकारे । विषु नानार्थे । पट् पाटवे । पशु दृश्यर्थे । पशु सम्यगर्थे 'पशु मन्यमानाः ' इति मनोर० । खलु निषेधवाक्यालङ्कारजिज्ञासानुनयेषु । यदिनाम पक्षान्तरे । यदुत पराशयप्रकाशनादौ । प्रत्युत उक्तवैपरीत्ये । यदा देशाद्यधिकरणे । जातु कदाचिदित्यर्थे, अवधारणपादपूरणयोरपि । यदि पक्षान्तरे । यथाकथाच अनादरे । यथा योग्यतावीप्सार्थानतिवृत्तिसादृश्येषु । तथा साम्ये । यथायथमिति मकारान्तमव्ययं यथास्वमित्यर्थे इति "सामीप्येऽधोध्युपरि ( ७।४।७९ ) २५ इति द्विर्वचनसूत्रवृत्तौ । पुद् कुत्सायाम् पुरा स्वरादौ पठितः सत्त्वभूते काले, अत्र त्वसत्त्वभूते । द्य हिंसाप्रातिलोम्ययोः । यावत् तावद् एतौ साकल्यावधिमानावधारणेषु । साकल्ये - यावत्कार्यं तावत्कृतम् । अवधौ - यावद्गंतव्यं तावत्तिष्ठ । माने - यावद्दत्तं तावद्भुक्तम् । अवधारणे - यावदमत्रं ब्राह्मणानामत्रयस्व (मर्यादावधिपरिमाणेषु इति है ० वृ० न्या० ) दिष्ट्या सम्मदे, पूर्वप्रीतिसेवनयोः सभाजनप्रातिलोम्ययोर्वा । मर्या सीमाबन्धे । आम पीडायाम् । नाम प्राकाश्यसंभाव्य क्रोधोपगम कुत्सनेषु । ३० स्म अतीते पादपूरणे च । इतिह पुराश्रुतौ । सह तुल्ययोगविद्यमानयोः । अमा सहार्थे समीपे च । समम् सन्त्रा साकम् सार्द्धम् एते सहार्थे ( समम् समन्ततोऽर्थे इति है ० वृ० न्या० ) । ईम् कीम् सीम् निर्देशनिवेदनवाक्यपादपूरणेषु । ( ईम् अव्यक्ते कीम् संशयप्रश्नानुमानेषु । सीम् अभिनवव्याहरणामर्षपादपूरणेषु इत्येके इति है ० वृ० न्या० ) । आम् प्रतिवचनावधारणयोः । आस् स्मृतिखेदयोः, कोपे च । इति एवमर्थे प्रकारार्थे ग्रन्थसमाप्तौ शब्दप्रादुर्भावे अर्थसमाप्तौ पदार्थविपर्यासाद ( एवम आर्थे हेत्वर्थे प्रकारार्थे शब्दप्रादुर्भावे ग्रन्थसमाप्तौ पदार्थविपर्यासादौ च इति है ० ३६वृ० न्या० ) । अव अड अट एते त्रयोऽपि भर्त्सने । बाह्य निष्पत्तौ । अनुषक् अनुमाने केचित्तान्तं
१६४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org