________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे अव्ययानि । खरादयः । चादयः १६३ "स्वरादय” इति सूत्रे बहुवचनमाकृतिगणार्थं तेनान्येषामपि यथालक्षमव्ययसंज्ञा भवति । उपधा भेदे । तोषं सुखे मौने च । अम् शैघ्ये अल्पे च । आम् अङ्गीकारे । प्रताम् ग्लानौ । साम्प्रतं न्याये । नित्यं नित्यदा सदा अजस्रं सततं सातत्ये। झगिति तरसा। आशु शैध्ये । अअसा तत्त्वशीघ्रार्थयोः। आनुषक आनुपूर्थे । अन्नस् शीघ्रसाम्प्रतिकयोः । स्थाने इति युक्ते । शुदि शुक्लपक्षे । वदि कृष्णपक्षे । संवत् वर्षे । सत्यमित्यर्द्धाङ्गीकारे। एवमेते द्वाविंशतिः। केचिदेवम् “अथाव्ययानि वक्ष्यन्ते” इत्यादिभ्योऽभिधान-५ चिन्तामणिपर्यन्तश्लोकेभ्यो ज्ञेयाः 'अर्थकथनं चैषामुपलक्षणमात्रम् । तथाचोक्तम्-"निपाताश्चोपसर्गाश्च धातवश्चेति ते त्रयः। अनेकार्थाः स्मृता लोके पाठस्तेषां निदर्शनम्”॥ १॥अव्ययसंज्ञायामेव सूत्रान्तरमाह
चादयोऽसत्त्वेः ॥२॥ [सि० १११॥३१ ] अद्रव्यार्थाश्चादयोऽव्ययानि स्युः । च अह ह एव वा एवम् नूनं ननु खलु विना नाना ईषत् किल वै नो न मा मास यत् तत् स्वराश्च ॥२॥
चादयोः । च आदिर्येषां ते चादयः। चादि १-३ । सीदतोऽस्मिन् लिङ्गसंख्ये इति सत्त्वम् । लिङ्गसंख्यावद्रव्यं इदंतदित्यादि सर्वनामव्यपदेश्यं विशेष्यमिति यावत्, न सत्त्वमसत्त्वं तस्मिन् असत्त्व ७.१ । द्विपदमिदं सूत्रम् । वृत्तिः कण्ठ्या । अद्रव्यार्था इत्यादि । ततश्च चादयः पदान्तरोपहिता एव प्रयुज्यन्ते अन्यपदोपात्तार्थद्योतकत्वात्-यथा वृक्षश्च पक्षश्चेति । स्वरादयश्च स्वतः स्वार्थवाचकत्वात्केवला अपि प्रयुज्यन्ते स्वः सुखयतीत्यादि । अत एव चादयो द्योतकाः, स्वरादयो वाचका इति । असत्त्व इति १५ किम् ? यत्र चादीनां सत्त्वरूपेऽनुकार्यादावर्थे वृत्तिस्तत्राव्ययसंज्ञा माभूत्-चः समुच्चये, एवोऽवधारणे इत्यादि । नामग्राहं चादीनि कानिचिनिर्दिशति । च अह इत्यादि । आदिशब्दस्यानुक्तसमुचयार्थकत्वादेषां विस्तरतः परिगणनमर्थकथनं चैवम्-च अन्वाचयसमाहारेतरेतरयोगसमुच्चयेषु । अह निर्देशविनियोगकिलार्थेषु, पूजायामपि । ह अवधारणे पादपूरणे प्रसिद्धावपि । वा स्याद्विकल्पोपमयोरेवार्थे समुच्चये । एव अवधारणपृथक्त्वपरिमाणेषु, अनवकृतावपि । एवमुपमानोपदेशप्रश्नावधारण-२० प्रतिज्ञानेषु, उक्तपरामर्शेऽपि । नूनं वितर्के अर्थनिश्चये च । शश्वत् स्वरादावपि पठितः । सूपत् कूपत् द्वावपि प्रश्नवितर्कप्रशंसासु, कचित् खरादावपि पठितः। नेत् चेत् द्वावपि प्रतिषेधावधारणसमुच्चयेषु । नेदिति शंकायां विचारेऽपि । चेदिति यद्यर्थे इति मनोर० । नचेत् निषेधे । चण् अयं चेदर्थे णित्, समुच्चयादौ त्वननुबन्धः। कचिदिष्टप्रश्ने । यत्र कालेऽधिकरणे, मनोरमायां तु यत्रेत्यनवक्लप्त्यमर्षगर्दाश्चर्येषु । नावकल्पयामि न मर्षये । गहें आश्चर्य वा । यत्र भवान् वृषलं याजयेत् ।२५ नह प्रत्यारम्भविषादप्रतिविधिषु । नहि अभावे । हन्त प्रीतिविषादसम्प्रदानेषु, मनोरमायां हन्तेति हर्षे विषादे अनुकम्पायां वाक्यारम्भे च । माकिस् नकिस् द्वावपि निषेधे वर्जने च । मा माङ्न नञ् एते सर्वेऽपि निषेधार्थाः । माकिः माकिं नकिरिति त्रयोऽपि वर्जने इति मनोरमायाम् । वाव सम्बोधने । त्वाव न्वाव वावत् त्वावत् न्वावत् एते अनुमानप्रतिज्ञाप्रैषसमाप्तिषु । त्वै तुवै न्वै नुवै चत्वारोऽप्येते वितर्के पादपूरणे च । रैदाने अनादरे च (दाने दीप्तौ च इति है० वृ० न्या०)।रै करोति ददा-३० तीत्यर्थः त्वं रै किं करिष्यसि इति मनोरमायाम् । वै निश्चये (स्फुटार्थे इति है० वृ० न्या०)। औषट वौषट् वषट्र देवहविर्दानादौ । वट वाट वेट् एते त्रयोऽपि वियोग-पादपूरणयोः । पाट् प्याटू द्वावपि सम्बोधने । अत्र डकार केचित् पठन्ति । फट् हुंफट् छंचट् एते त्रयोऽपि निर्भर्त्सनसम्बोधनयोः। अध अधोऽर्थे । आत् कोपपीडयोः । स्वधा पितृभ्यो हविर्दाने, स्वाहा देवताभ्यः । अलमिति खरादौ निरूपितम् । चन अप्यर्थे पादपूरणे च । हि हेताववधारणे च । अथ मंगलानन्तरारम्भ-३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org