________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे अव्ययानि । खरादयः
१६१
अथा व्य या नि
अलिङ्गे युष्मदस्मदी अभिधाय अलिङ्गान्यसङ्ख्यानि चाव्ययान्यभिधातुकाम आह अव्ययानि त्वलिङ्गान्यसङ्ख्यानि च । तथाहुः -
नन्ता सङ्ख्या उतिर्युष्मदस्मच्च स्युरलिङ्गकाः । पदं वाक्यमव्ययं चेत्यसङ्ख्यं च तद्बहुलम् ॥ १ ॥ सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ २ ॥
अव्ययानीत्यादि । तुशब्दोऽव्ययानामसङ्ख्यत्वेन युष्मदस्मद्भ्यां विशेषं द्योतयति । अत्र सम्प्रदायमाह - तथाहुरिति
नन्तेति-नकारान्ता सङ्ख्या, डतिप्रत्ययान्ता, युष्मदस्मदी च एतेऽलिङ्गाः ततश्च पञ्चकुमार्यः इत्यत्र ङीर्न १० भवति । नन्तेति किम् ? एकद्वित्रिचत्वारो विशेष्यलिङ्गाः । यथा एकः पटः, एका शाटी, एकं वस्त्रम् । षष लिङ्गोपादानानुपादनयोरविशेष इत्यनुपादानम् । तथा कति तति यति स्त्रिय इत्यत्रापि ङीर्न भवति । युष्मभ्यम् अस्मभ्यमित्यत्राप्याप् न भवति । तथा “विभक्त्यन्तं पदम् ” “सविशेषणमाख्यातं वाक्यम्” "स्वरादयोऽव्ययम्” एते अलिङ्गा असत्याश्च । अथाव्ययानां साम्प्रदायिकं लक्षणमाह
५
सदृशमिति यन्न व्येतीति । लिङ्गविभक्तिवचनभेदेऽपि यद्विकारं न प्राप्नोति तदव्ययम् । अत एव १५ त्रिषु लिङ्गेषु सर्वासु विभक्तिषु सर्वेषु वचनेषु सदृशमिति । अयं भावः - अन्वर्थसंज्ञा वेयमव्ययमिति लिङ्गकारकविभक्तिनानात्वेऽपि नानारूपतां न प्रतिपद्यन्त इति एषामलिङ्गासङ्ख्यत्वात् । तथा चोक्तं सिद्धान्तकौमुद्याम् — सदृशमित्यादिश्रुतिर्लिङ्गसङ्ख्याभावपरा । अव्ययसंज्ञायां सूत्रमाहस्वरादयोऽव्ययम् ॥ १ ॥ [ सि० १|१|३० ]
For Personal & Private Use Only
स्वर् अन्तर् प्रातर् पुनर् इत्यादि ॥ १ ॥
स्वरा० । स्वर् आदिर्येषां ते स्वरादयः । स्वरादि १-३ “जस्येदोत्" "एदैतो ० " । अव्यय १-१ “अतः स्यमोऽम्” । मध्ये “समानानां ०” “अतोऽति ०” “अवर्णस्ये ०” “एदोत : ० ” । द्विपद्भिदं सूत्रम् । अन्वर्थाश्रयणे च स्वराद्यव्ययमव्ययं भवतीति स्वरादेर्विशेषणत्वेन तदन्तविज्ञानात्परमोच्चैः परमनीचेरित्यादावप्यव्ययसंज्ञा भवति । नामग्राहमव्ययानि निर्दिशति - स्वर् अन्तर् इत्यादि - अत्रादिशब्दसङ्गृहीतानामव्ययानां केषाञ्चित् परिगणनं त्वेवम्-स्वरिति स्वर्गे च परलोके च । अन्तरिति मध्ये । प्रातर् २५ प्रत्यूषे । पुनर् अप्रथमे विशेषे च । सुनुतर् अन्तर्धाने ( मनोरमाया मतेनेदम्, हैमबृहन्यासे तु सनुतर कालवाचीति निर्दिष्टम् ) । स्वराद्याः पञ्च रेफान्ताः ॥ सायं निशामुखे । नक्तं रात्रौ । अस्तम् विनाशे । अस्तमदर्शने इत्यभिधानचिन्तामणौ - यथास्तंगतः सविता । दिवा दिवसे । दोषा रात्रौ पर्युषिते च। ह्यस् अतीतेऽह्नि । श्वस् अनागतेऽह्नि । कमिति वारिमूर्द्धनिन्दासुखेषु ( अयमपि मनोरमाभिप्रायः है० वृ० न्या० उदकमाकाशं चेति कथितम् ) । शं सुखे । योस् विषयसुखे । मयस् सुखे । विहायसा अन्तरिक्षे । रोदसी द्यावापृथिव्योः । ओम् अङ्गीकारे ब्रह्मणि च, अभ्यादानाभिमुखीकरणयोरपि । भूर्भु - ३१ है० प्रका० पूर्वा० २१
Jain Education International
२०
www.jainelibrary.org