SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ १६० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु पादाद्योः । आदिश्च आदिश्व आदी पादस्य आदी पादादी तयोः पादादि ७-२ "इवर्णादे" "लोकात्" । एकपदमिदं सूत्रम् । पादस्य लक्षणमाह-नियतमात्राक्षरपिण्डः पाद इति । तत्र नियता यथाशास्त्र निर्णीता या मात्रास्तासां पिण्डः पादः स तु आर्यादिसम्बन्धी, नियतानामक्षराणां पिण्डः पादः स तु श्लोकादीनामिति द्वैधयोरपि पादयोरादौ युष्मदस्मदोर्वस्त्रसादयो न स्युः । ५ श्लोकेनोदाहरति-वीरो विश्वेश्वरो इत्यादि व्यक्तम् ॥ २१ ॥ सूत्रम् चाहहवैवयोगे ॥ २२ ॥ [ सि० २।१।२९ ] एभिः पञ्चभिर्योगे वस्त्रसादिर्न स्यात् । ज्ञानं युष्मांश्च रक्षतु ॥ २२ ॥ इति श्रीमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां हैमलंघुप्रक्रियायां - युष्मदस्मदोः प्रक्रिया समाप्ता । १० चाह० । चश्च अहश्च हश्च वा च एवश्व चाहहवैवाः चाहहवैवैर्योगः चाहहवैवयोगः तस्मिन् चाहवैवयोग ७-१ "अवर्णस्ये.” । एकपदमिदं सूत्रं स्पष्टार्थं च ॥ २२ ॥ किश्च यथा युग्विभक्तिषु वलसादय उक्तास्तथाऽयुगविभक्तिष्वपि कचिदिष्यन्ते "एकं दृष्ट्वा धनुःपाणि मानुषं समुपस्थितम् । राक्षसं बलमुत्सृज्य किं वो भीता इव स्थिताः" ॥ १॥ १५अत्र वो यूयमित्यादि प्रथमाबहुत्वे । "श्रुतं वश्चित्रगुप्तस्य भाषितं मनसः प्रियम्" । इह वो युष्मा भिरित्यर्थः । प्रथमायां "गेये केन विनीतौ वां कस्य चेयं कृतिः कवेः । इति राज्ञा स्वयं पृष्ठौ वाल्मीकिनमशंसताम्" ॥१॥ इत्यत्र वां युवामित्यर्थः । "देहे विचरतस्तस्य लक्षणानि निबोध मे" मत्सकादादित्यर्थः । अत्र पञ्चम्या मे आदेशः। यद्वा स्याद्यन्तप्रतिरूपकाण्येतान्यव्ययानि । तथोक्तं मनोरमायाम्-एतेन गेयकेन विनीतौ वामिति २० व्याख्यानं युवामित्यर्थे हि वामित्यव्यमिति ॥ २२ ॥ यां शिष्योद्भुतकीर्तिकीर्तिविजयश्रीवाचकाहर्मणे राजश्रीतनयो व्यधत्त विनयः श्रीतेजपालात्मजः । तस्यां शासितसाधुशब्दसरणौ स्वोपज्ञसत्प्रक्रिया२४ वृत्तौ सिद्धिसदः शिखामगमतां तौ युष्मदस्मद्धनी ॥ १ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004040
Book TitleHaim Prakash Maha Vyakaranam Purvarddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1937
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy