________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे युष्मदस्मदोरादेशविशेषाः
१५९ डे च ङस् च डेङस् तेन डेङस् ३-१ "लोकात्” । ते च मे च तेमे १-२ सूत्रत्वात् लोपः। द्विपदमिदं सूत्रं स्पष्टं च ॥ १८ ॥ अत्र विशेषसूत्रमाह
नित्यमन्वादेशे ॥ १९॥ [सि० २॥१॥३१] वस्नसादिः। यूयं विनीतास्तद्वो गुरवो मानयन्ति ॥ १९॥ नित्यम० । नित्य २-१ "समानादमोऽतः" । अन्वादेश ७-१ "अवर्णस्ये” । द्विपदमिदं सूत्रम्५ यूयं विनीता इत्यादि पूर्वं विनीतत्वेन उक्तानां ततो गुरुमाननाविषयत्वेन वचनमित्यमन्वादेश इति ॥ १९ ॥ सूत्रम्
असदिवामध्यं पूर्वम् ॥ २०॥ [सि० २।१।२५] युष्मदस्सयां पूर्व सम्बोधनमसदिव स्यात् ततो वस्नसादयो न स्युः। जना युष्मान्पातु धर्मः। कचिद्वा-जिनाः शरण्या वो युष्मान् वा सेवे । कचिन्न-साधो सुविहित त्वा सेवे ॥ २०॥ १०
असदिवा० । न सत् असत् १-१ "अनतो लुप्" । इव १-१ "अव्ययस्य" आमव्यते इति आमन्त्र्य १-१ "अतःस्यमोऽम्" "समानाद०"। पूर्व १-१ "अतःस्यमोऽम्" "समानानां"। मध्ये "धुटस्तृतीयः'' “समानानां०" "तौ मुमो०" । चतुष्पदमिदं सूत्रं व्यक्तं च । इवकरणं किम् ? श्रवणं यथा स्यादन्यथाऽसदित्युक्ते प्रयोग एव न स्यात् ।
कचिद्वेति-युष्मदस्मद्भ्यां पूर्वमामव्यं पदं कचिदसदिव वा स्यादिति-तथाहि "जविशेष्यं १५ वाऽऽमन्ये” (२।१।२६) युष्मदस्मद्भ्यां पूर्व जसन्तमामन्त्रयं पदं कचिदसदिव वा स्यादिति विशेष्यवाच्यामध्ये अर्थात्तद्विशेषणे परेऽसदिव वा स्यात् । जिनाः शरण्याः युष्मान् शरणं प्रपद्ये-पक्षे जिनाः शरण्या वः शरणं प्रपद्ये । जसिति किम् ? साधो सुविहित वोऽथो शरणं प्रपद्ये । अत्र "नान्यत्” (२।१।२७) इति सूत्रेण असद्वद्भवनस्य निषेधाद्वसादेशोऽभूत् । विशेषणमिति किम् ? शरण्याः साधवो युष्मान् शरणं प्रपद्ये । आमत्र्यविशेष्यविशेषण इति किम् ? आचार्याः युष्मान् २० शरण्याः शरणं प्रपद्ये । अर्थात्तद्विशेषणभूत इति किम् ? आचार्या उपाध्याया युष्मान् शरणं प्रपद्ये । "सपूर्वात्प्रथमान्ताद्वा” (२।१।३२) विद्यमानपूर्वपदात्प्रथमान्तात् परयोर्युष्मदस्मदोरन्वादेशे वनसादिर्वा स्यात् । यूयं विनीतास्तद्गुरवो वो मानयन्ति तद्गुरवो युष्मान्मानयन्ति ।
कचिन्नेति-युष्मदस्मद्भ्यां पूर्वमामवयं पदं क्वचिदसदिव न स्यात् तथाहि “नान्यत्" (२।१।२७) युष्मदस्मद्भ्यां पूर्व जसन्तादन्यदामन्यं विशेष्यमामध्ये तद्विशेषणे परेऽसदिव न स्यात् ततः पूर्वपदस्य २५ सत्त्वाद्वसनसादयो भवन्ति । साधो सुविहित त्वा शरणं प्रपद्ये साधो सुविहित मा रक्ष ॥ तथा "दृश्यथैश्चिन्तायाम्” (२।१।३०) दृशिना समानार्थश्चिन्ताथै तुभिर्योगे एव पदात्परयोयुष्मदस्मदोर्वस्त्रसादिर्न स्यात्-जनो युष्मान संदृश्यागतः, जनस्त्वां समीक्ष्यागतः, जनस्त्वामपेक्षते । एवं उत्पश्यति निरूपयति निक्यति उपलक्षयति आलोचयतीत्यादि सर्वत्र मनसा चिन्तनं दृश्यनामर्थः । दृश्यर्थैरिति किम् ? जनो वो मन्यते । चिन्तायामिति किम् ? जनो वः पश्यति ॥ २० ॥३० अत्रैव विशेषमाह सूत्रम्
पादायोः॥ २१ ॥[सि० २।१।२८] नियतमात्राऽक्षरपिण्डः पादः। पादस्याऽऽदिस्थयोयुष्मदस्मदोर्वनसादिर्न स्यात् । वीरो विश्वेश्वरो देवो युष्माकं कुलदेवता । स एव नाथो भगवान् अस्माकं पापनाशनः ॥ २१ ॥
३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org