________________
१५८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
दर्शनं वो जिनाधीशाः पापं हरति नो स्यात् । पक्षे धर्मो युष्मान् रक्षतु इत्यादि ॥ १५॥
पदायुः । पद ५-१ "डेडस्यो०" "समानानां०”। युज्यते इति युक् २। युग चासौ विभक्तिश्च युग्विभक्ति ३-१ "इवर्णादे०" । एकं च तद्वाक्यं च एकवाक्यं तस्मिन् एकवाक्ये ७-१ "अवर्णस्ये०” । वस् च नस् च वस्नस् १-२ "लोकात्" । बहो वो बहुत्वं तस्मिन् बहुत्व ७-१ अवर्णस्ये० । पञ्चपद५मिदं सूत्रम् । युग्विभक्त्येति युग्विभक्तिः समविभक्तिः । सप्तसु हि विभक्तिषु द्वितीयाचतुर्थीषष्ट्यः समविभक्तयः इति तथैवाह-द्वितीयाचतुर्थीषष्ठीबहुवचनैः सहेति । एकवाक्ये इत्यस्यार्थमाह-न तु वाक्यान्तरे इति । अथ सार्द्धश्लोकेनोदाहरणमाह-धर्मो रक्षतु इत्यादि । हे लोका वो युष्मान धर्मो रक्षतु पालयतु । तथा सदा निरन्तरं नोऽस्मान् धर्मो रक्षतु । अत्र पदात्परयोः शसन्तयोर्युष्मदस्मदोर्वस्नसौ ॥
हे श्रीजिनाः वो युष्मभ्यं नमोऽस्तु "नमः स्वस्तिस्वाहास्वधाभिः" इति नमोयोगे युष्मच्छब्दाने चतुर्थी१० वचनम् तथा हे जिनाः भवद्भिर्नोऽस्मभ्यं शुद्धज्ञानरूपं धनं दीयतां अत्र "कर्माभिप्रेयः सम्प्रदानम्" इति सम्प्रदानसंज्ञायां चतुर्थी ततः पदात्परयोश्चतुर्थीबहुवचनभ्यसन्तयोर्युष्मदस्मदोर्वस्नसावादेशौ ॥ १ ॥ हे जिनाधीशाः वो युष्माकं दर्शनं रयात् वेगात् नोऽस्माकं पापं हरति । अत्र षष्ठीबहुवचनान्तयोर्वस्नसौ ॥
पक्षे धर्मो युष्मान् रक्षतु । इत्यादिशब्दात् धर्मोऽस्मान् रक्षतु, नमो युष्मभ्यम् , श्रीजिनाः अस्मभ्यं १५ज्ञानं धनं दीयतां युष्माकं दर्शनमस्माकं पापं हरति । पक्षे एवं रूपाणि भवन्ति इति ॥१५।। सूत्रम्
द्वित्वे वामनौ ॥१६॥[सि० २।१।२२ ] समविभक्तिद्विवचनैः सह पदात्परयोयुष्मदसदोम्निौ वा स्याताम् ।
पातु वां नौ जिनोऽयं च दद्याद्वां नौ परं पदम् ।
मनो वां नौ सदा भूयादृढं धर्मे जिनोदिते ॥२॥ २० पक्षे जिनो युवां पात्वित्यादि ॥ १६ ॥
द्वित्वे० । द्वयोर्भावो द्वित्वं तस्मिन् द्वित्व ७-१ "अवर्णस्ये.” । वाम् च नौ च १-२ सूत्रत्वाल्लोपः । द्विपदमिदं सूत्रम् । श्लोकेनोदाहरति-पातु वामित्यादि जिनो वां युवां च पुनर्जी आवां पातु अत्र पदात्परयोर्द्वितीयाद्विवचनान्तयोर्युष्मदस्मदोर्वाम्नावादेशौ । च पुनः अयं जिनो वां युवाभ्यां नौ आवाभ्यां परं पदं दद्यात् , अत्र चतुर्थीद्विवचनान्तयोर्युष्मदस्मदोर्वानौ । वां युवयो| आवयोश्च २५ मनः सदा जिनोदिते धर्मे दृढं भूयात् , अत्र षष्ठीद्विवचनान्तयोर्युष्मदस्मदोर्वाग्नौ । पक्षे जिनो युवा पात्वित्यादि स्पष्टम् ॥ १६ ॥ सूत्रम्
अमा त्वामा ॥ १७ ॥ [ सि० २।१।२४ ] अमा सह पदात्परयोर्युष्मदसदोस्त्वामा वा स्याताम् । धर्मस्त्वा पातु त्वां पातु । धर्मो मा पातु मां पातु ॥ १७ ॥ ३० अमा० । अम् ३-१ "लोकात्" । त्वा च मा च त्वामा १-२, सूत्रत्वात् लोपः । द्विपदमिदं सूत्र स्पष्टार्थ च ॥ १७ ॥ सूत्रम्
उडसा ते मे ॥ १८॥[सि० २१॥२३] डेङस्भ्यां सह पदात्परयोर्युष्मदस्मदोस्ते मे वा स्याताम् । धर्मस्ते ददातु तुभ्यं ददातु । धर्मो ३४ मे ददातु मह्यं ददातु सुखम् । धर्मस्ते स्वम् तव स्वम् । धर्मो मे स्वम् मम खम् ॥ १८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org