________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे युष्मदस्मदोर्गौणत्वे रूपाणि । आदेशविशेषाश्च १५७ अतियुष्मासु अत्यस्मासु ।७। हे अतित्वम् हे अत्यहम् , हे अतियुष्माम् हे अत्यस्माम् , हे अतियूयम् हे अतिवयम् २।१।
त्वां युवां युष्मान मामावामस्मानतिक्रान्तं कुलमिति समासेऽपि युष्मदस्मदोरलिङ्गत्वानपुंसकाश्रितः स्यमोलोपो न भवति । अतित्वम् अत्यहम् कुलमिति । एवं प्रियस्त्वम् प्रियोऽहम् वा यस्य ययोर्येषां वा प्रियत्वम् प्रियाहम् , प्रियत्वाम् प्रियमाम् , प्रिययूयम् प्रियवयम् ।
तथा प्रियौ युवां प्रियावावाम् यस्य ययोर्येषां वा प्रियत्वम् प्रियाहम् , प्रिययुवाम् प्रियावाम् प्रिययूयम् प्रियवयम् तथा प्रिया यूयम् वयम् वा यस्य ययो र्येषां वा प्रियत्वम् प्रियाहम् , प्रिययुष्माम् प्रियास्माम , प्रिययूयम् प्रियवयम् इत्यादि सर्व प्राग्वत् ।
युवा युष्मानावामस्मान् वा आचष्टे युष्मयति अस्मयतीति "णिज्बहुलं नानः कृगादिषु" इति णिचि युष्मयति अस्मयतीति विपि तल्लुकि च युष्म् अस्म् इति युष्मदस्मदोर्मान्तत्वं अनयोः सिजडेङस्सु १० प्रत्ययेषु परत्वात्रवमहमादय एवादेशाः स्युः । त्वम् अहम् । अमौभ्याम्सु परत्वात्त्वमाद्यादेशे पश्चादात्वम् । अयमर्थ:-द्वयोरन्यत्र सावकाशत्वाच्छब्दान्तरप्रवृत्त्या चानित्यत्वात् परत्वात्पूर्वं त्वमाद्यादेश इति । प्रथममात्वे तु सति मान्तत्वाभावात्त्वमाद्यादेशा न स्युरिति, ततः पूर्व "अमौ मः" इति पश्चात्वमाद्यादेशस्ततो "युष्मदस्मदोः” इत्यात्वम् युवाम् आवाम् , यूयम् वयम् । युवां युष्मानावामस्मान्वा आचक्षाणः आचक्षाणौ आघक्षाणाः इति भावः । एवं त्वां मां युवां आवां “शसो नः" इति शसो १५ नत्वे "युष्मदस्मदोः” इति मस्यात्वे युषान् असान् २। टाङयोसि नित्यत्वात्त्वमादिकार्येभ्यः प्रथममेव पूर्वेण मकारस्य यत्वे युष्या अस्या । अथ प्राक् मकारस्य पश्चादकारस्य यत्वप्राप्तिरथवा पूर्व युष्मिति प्रकृतेः पश्चात्त्वेति प्रकृतेरिति शब्दान्तरप्रात्या यत्वमप्यनित्यमित्यमाश्रीयते तदा परत्वात्पूर्वं त्वमाद्यादेशे अकारस्य यत्वे व्या म्या। अथ 'सकृद्गते स्पर्द्ध यद्बाधितं तद्बाधितमेवेति' यद्याश्रीयते तदा परस्वाभावे त्वेन मेन युवाभ्याम् आवाभ्याम् युषाभिः असाभिः ३। तुभ्यं मह्यम् , युवाभ्याम् २ १२० मोर्वा (सि० २।१।९) यस्मिन्नायौ कृतौ ततोऽन्यः शेषस्तस्मिन् शेषे स्यादौ परे मान्तयोर्युष्मदस्मदोर्लक् वा स्यादिति युषभ्यम् असभ्यम् , युष्मभ्यम् अस्मभ्यम् ४ । त्वत् २, युवाभ्याम् २, युषत् युष्मत् , असत् अस्मद् ५ तव मम, युष्योः अस्योः, युव्योः आव्योः, युषाकम् युष्माकम् असाकम् अस्माकम् ६ युष्यि अस्थि, व्यि म्यि । म त्वमहंवाचके युष्मदस्मदी सर्वादिगणमध्ये दृश्येते, अत्र त्वां मां यो वक्ति तद्बाचके इति न सर्वादिनी ततोऽसर्वादित्वान्न स्मिन्नादेशः त्वे मे । अथ *"किवर्थं प्रकृति-२५ रेवाह" किबन्तयोर्युष्मदस्मच्छब्दयोर्योऽर्थस्तमर्थं प्रकृतिरेवाह, नहि प्रकृतिं विना विप् भवति ततः स्मिन्नादेशे त्वस्मिन् मस्मिन् । “सन्निपातन्यायस्यानित्यत्वे" त्वास्मिन् मास्मिन् । युष्योः अस्योः युव्योः आव्योः, युषासु असासु ७। [ युवयोः आवयोः, २, ६-२, ७-२] 5 हैमबृहद्वृत्तिगतः ।
अथानयोरादेशविशेषाः अथ युष्मदस्मदोरादेशविशेषविधिनिरूपणाय प्रक्रमते । अथानयोरादेशविशेषा इति । उच्यन्ते इति सूत्रशेषः । सूत्रम्
३० पदाधुग्विभक्त्यैकवाक्ये वनसौ बहुत्वे ॥ १५॥ [सि० २।१।२१] द्वितीयाचतुर्थीपष्ठीबहुवचनैः सह पदात्परयोर्युष्मदसदोर्वस्नसौ वा स्याताम्, न तु वाक्यान्तरे।
धर्मो रक्षतु वो लोका धर्मो रक्षतु नः सदा। नमो वः श्रीजिनाः शुद्धं ज्ञानं नो दीयतां धनम् ॥१॥ ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org