________________
१५६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
आम० । आम् ६-१ "लोकात्” “सो रुः" । आकम् १-१ "दीर्घड्याव्०”। मध्ये "रोर्यः” "खरे वा" तस्य लुग् । द्विपदमिदं सूत्रम् । “शेषे लुग्" इति दलोपे “समानानां." युष्माकम् अस्माकम् । अकि-युष्मकाकम् अस्मकाकम् । सप्तम्येकवचने त्वमादेशे "टायोसि यः" इति दस्य यत्वे त्वयि मयि । युवयोः आवयोः । “युष्मदस्मदोः” इत्यात्वे युष्मासु अस्मासु । अकि-त्वयकि मयकि ५युवकयोः आवकयोः युष्मकासु अस्मकासु ॥ १४ ॥ सम्बोधनं चान न सम्भवति ॥
अथ गौणत्वे युष्मदस्मदो रूपाण्युच्यन्ते-तत्रेदं तत्त्वम् "त्वमौ प्रत्ययोत्तरपदे चैकस्मिन्" "मन्तस्य युवावौ द्वयोः” इत्येतयोः सूत्रयोः सप्तम्या युष्मदस्मदोविशेषणेऽयमभिप्रायः । समासार्थस्यैकत्व द्वित्वबहुत्वविशिष्टत्वेऽपि यत्र युष्मदस्मदी एकत्वविशिष्टे तत्र त्वमावेवादेशौ, यत्र च युष्मदस्मदी द्वित्वविशिष्टे तत्र युवावादेशौ भवतः । तथोक्तं सिद्धान्तकौमुद्याम् “समस्यमाने घ्येकत्व१० वाचिनी युष्मदस्मदी । समासार्थोऽन्यसङ्ख्यश्चेत् स्तो युवावौ त्वमावपि" ॥ १ ॥ यत्र च सूत्रे सहार्थतृतीयानिर्देशो यथा "त्वमहं सिना प्राक् चाकः" "यूयं वयं जसा" "तुभ्यं मह्यं ज्या" "तव मम ङसा" इति तत्र समासार्थस्य एकत्वबहुत्वविशिष्टत्वेऽपि परत्वादेते एवादेशा भवन्ति । तथोक्तं तत्रैव-सु जस् के ङस्सु परतः आदेशाः स्युः सदैव ते । त्वाही यूयवयौ तुभ्यमयौ तवममावपि ॥ १॥ एते परत्वा
द्वाधन्ते युवावौ विषये स्वके । त्वमावपि प्रबाधन्ते पूर्वविप्रतिषेधतः ॥ २ ॥ येकसङ्ख्यः समासार्थो १५ बह्वर्थे युष्मदस्मदी । तयोरब्येकतार्थत्वान्न युवावौ त्वमौ न च ॥ ३ ॥
एतत्सर्व रूपलिखनेन व्यक्तीक्रियते त्वां मां वा अतिक्रान्तो अतिक्रान्तौ अतिक्रान्ता वा "प्रात्यवपरिनिरादयो गतक्रान्त०” इत्यादिना द्वितीयातत्पुरुषे अतित्वम् अत्यहम् । “अमौ मः" "युष्मदस्मदोः" इति च अतित्वाम् अतिमाम् । अतियूयम् अतिवयम् । १। अतित्वाम् अतिमाम् अतित्वाम् २ । अतित्वाम् २।२। अतित्वया २, अतिस्वाभ्याम् २, अतित्वाभिः २।३।अतितुभ्यम् २, २० अतित्वाभ्याम् २, अतित्वभ्यम् २।४ । अतित्वत् २, अतित्वाभ्याम् २, अतित्वत् अतिमत् । ५। अतितव अतिमम, अतित्वयोः अतिमयोः, अतित्वाकम् अतिमाकम् । ६। अतित्वयि अतिमयि, अतित्वयोः अतिमयोः, अतित्वासु अतिमासु ।७। हे अतित्वम् हे अत्यहम् , हे अतित्वाम् २, हे अतियूयम् हे अतिवयम् ।।
(युवामाषामतिक्रान्तोऽतिक्रान्ती अतिक्रान्ता वा, अतित्वम् अत्यहम् , अतियुवाम् अत्यावाम् , २५ अतियूयम् अतिवयम्, १। अतियुवाम् अत्यावाम् , अतियुवाम् अत्यावाम् , अतियुवान् अत्यावान् २।
अतियुवया अत्यावया, अतियुवाभ्याम् अत्यावाभ्याम् , अतियुवामिः अत्यावाभिः ३। अतितुभ्यम् अतिमह्यम् , अतियुवाभ्याम् , अत्यावाभ्याम् , अतियुवभ्यम् अत्यावभ्यम् ४ । अतियुवत् अत्यावत्, अतियुवाभ्याम् २, अतियुवत् अत्यावत् ५। अतितव अतिमम, अतियुवयोः अत्यावयोः, अतियुवाकम्, अत्यावाकम् ६ । अतियुवयि अत्यावयि, अतियुवयोः अत्यावयोः, अतियुवासु अत्यावासु ७ । ३० हे अतित्वमित्यादि १।) प्रतिष्वदृश्यमानोऽप्ययमुपयोगितया सहीतः । __ युष्मानस्मानतिक्रान्तो अतिक्रान्तौ अतिक्रान्ता वा अतित्वम् अत्यहम् , अतियुष्माम् अत्यस्माम् , अतियूयम् अतिवयम् । १। अतियुष्माम् अत्यस्माम् , अतियुष्माम् अत्यस्माम् , अतियुष्मान अत्यस्मान् , २। अतियुष्मया अत्यस्मया, अतियुष्माभ्याम् २, अतियुष्माभिः २।३। अतितुभ्यम् २, अतियुष्माभ्याम् २, अतियुष्मभ्यम् २।४। अतियुष्मत् २, अतियुष्माभ्याम् २, अतियुष्मत् २।५। ३५अतितव २, अतियुष्मयोः २, अतियुष्माकम् २ । ६। अतियुष्मयि अत्यस्मयि, अतियुष्मयोः २,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org