________________
१५४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
युष्मदस्मदोः ॥ ४॥ [सि० २६११६ ] व्यञ्जनादौ स्यादौ परे युष्मदसदोराः स्यात् । युवाम् । आवाम् ॥ ४॥
युष्म० । युष्मञ्च अस्मञ्च युष्मदस्मदो तयोः युष्मदस्मद् ६-२ "लोकात्” “सो रुः” "रः पदान्ते.” । एकपदमिदं सूत्रम् । “षष्ठ्यान्त्यस्य” इति दस्य आत्वे “समानानां.” युवाम् आवाम् । ५अकि-युवकाम् आवकाम् ॥ ४ ॥ युष्मद् १-३ अस्मद् १-३ इति स्थिते सूत्रम्
यूयंवयं जसा ॥ ५॥ [ सि० २॥१॥१३] जसा सह युष्मदसदोरेतौ स्याताम् । यूयम् । वयम् ॥ ५॥ द्वितीयैकवचने । __ यूयं० । यूयं च वयं च यूयंवयम् १-२ सूत्रत्वात् लोपः । जस् ३-१ "लोकात्" । द्विपदमिदं सूत्रम् । व्यक्तम् । अकि-यूयकम् , वयकम् ॥ ५ ॥ युष्मद् २-१ अस्मद् २-१ इति स्थिते सूत्रम्
त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् ॥६॥ [सि० २।१।११] स्यादौ प्रत्ययोत्तरपदयोश्च परयोरेकत्वे वर्तमानयोर्युष्मदसदोर्मान्तावयवस्य त्वमौ स्याताम् । "लुगस्यादेत्यपदे" इत्यकारलोपे अमो मत्वे दस्यात्वे च त्वाम् । माम् ॥ युवाम् आवाम् ॥६॥
त्वमौ० । त्वम् १-२ “ऐदौत्सं०" उत्तरं च तत् पदं च उत्तरपदं प्रत्ययश्च उत्तरपदं च प्रत्ययोत्तरपदं तस्मिन् प्रत्ययोत्तरपद ७-१ "अवर्णस्ये०"। च १-१ "अव्ययस्य" । एक ७-१ " स्मिन् । चतुष्पद१५ मिदं सूत्रम् । प्रक्रिया स्पष्टा । अकि-त्वकाम् मकाम् युवकाम् आवकाम् ॥ ६ ॥ युष्मद् २-३ अस्मद् २-३ इति स्थिते सूत्रम्
शसो नः ॥७॥[सि० २।१।१७] युष्मदसयां परस्य शसो नः स्यात् । युष्मान् । असान् ॥ ७॥ टायां त्वमादेशे।
शसो० । शस् ६-१ "लोकात्" "सो रुः" । न १-१ “सो रुः" "रः पदान्ते." मध्ये "घोष२० वति" "अवर्णस्ये.” । द्विपदमिदं सूत्रम् । अकार उच्चारणार्थः । व्यञ्जननकाररूप आदेशः । अकियुष्मकान् अस्मकान् ॥ ७ ॥ टायां त्वमादेशे त्वद् ३-१ मद् ३-१ इति स्थिते सूत्रम्
टाङयोसि यः॥ ८॥[सि० २।१७] एषु चतुर्षु युष्मदस्मदोर्यः स्यात् । त्वया । मया ॥ ८॥ युवाभ्याम् । आवाभ्याम् । युष्माभिः अस्माभिः। २५ टाड्यो । टा च डि च ओस् च टाङयोस् तस्मिन् दाङयोस् ७-१ "लोकात्" । यः १-१ "सो
रुः" "रः पदान्ते०"। द्विपदमिदं सूत्रम् । अकि-त्वयका मयका। "युष्मदस्मदोऽसोभादिस्यादेः” इति सूत्रे सकारादि ओकारादि भकारादिवर्जनात्, अन्यविभक्तिषु स्याद्यन्तयोर्युष्मदस्मदोरन्त्यस्वरात्पूर्वोऽक् भवति सोभादिषु च परेषु, “त्यादिस्वरेष्यन्त्यात्पूर्वाऽक्” इति सूत्रेण युष्मदस्मदोरन्त्यस्वरात्पूर्वोऽक्
भवति, ततश्च युष्मकद् अस्मकद् भ्यामिति स्थिते मान्तावयवस्य युवावादेशे "युष्मदस्मदोः” इत्यात्वे युव३० काभ्याम् आवकाभ्याम् युष्मकाभिः अस्मकाभिः ॥८॥ युष्मद् ४-१ अस्मद् ४-१ इति स्थिते सूत्रम्
तुभ्यंमा ङया ॥ ९॥ [ सि० २।१।१४ ] ३२ या सह युष्मदस्मदोरेतौ स्याताम् । तुभ्यम् मह्यम् ॥९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org