________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे युष्मदस्मदोः प्रक्रिया
१५३
NDOGO2050209OROL
BHOJ000
अथ युष्मदस्मदो प्रक्रिया
Jadoog
रनण्याचsagaroops
उक्तव्यञ्जनान्तशब्देभ्यो वैलक्षण्यात् युष्मदस्मच्छब्दौ पृथक् निर्दिशति । तदेव वैलक्षण्यमाहतयोश्च त्रिष्वपि लिङ्गेषु समान रूपमलिङ्गत्वात् ।
तयोश्चेति-त्रिष्वपि लिङ्गेषु समानरूपत्वे हेतुमाह-अलिङ्गत्वादिति । अलिङ्गत्वं च पुंसि स्त्रियां क्लीबे ५ त्वम् अहम् इत्यादि समानरूपप्रयोगात् “नन्तासङ्ख्या डतिर्युष्मदस्मच स्युरलिङ्गकाः" इति वचनाचेति । युष्मद् १-१ अस्मद् १-१ इति स्थिते सूत्रम्
त्वमहं सिना प्राक् चाऽकः॥१॥[ सि० २।१।१२ ] सिना सह युष्मदसदोस्त्वमहमौ स्याताम् , तौ चारप्रसङ्गेऽक: प्रागेव । त्वम् । अहम् । त्वकम् । अहकम् ॥१॥ __ त्वम् । त्वम् च अहम् च त्वमहम् "चार्थे द्वन्द्वः” त्वमहम् १-१ "अनतो" लुप् । सि ३-१ "टः पुंसि ना" । प्राक् १-१ "अव्ययस्य" । च १-१। अक् ५-१ "लोकात्" "सो रुः" "रः पदान्ते०”। मध्ये "तौ मुमो०” “समानानां०" । एवं पञ्चपदमिदं सूत्रम् । तौ चाकः प्रसङ्गे इति अन्यथा कुत्सितोऽल्पोऽज्ञातो वा त्वमिति वाक्ये *"युष्मदस्मदोऽसोभादिस्यादेः" अनयोः सओभादिवर्जस्याद्यन्तयोः स्वरेष्वत्यात् पूर्वोऽक् स्यादिति युष्मद १-१ इत्यत्रान्त्यस्वरात्पूर्वेऽकि युष्मकद् १-१ इति स्थिते 'तन्मध्यपतित- १५ स्तद्हणेन गृह्यते' इति साक एव त्वमहमादेशेऽकः श्रवणं न स्यात्ततः पूर्वं त्वमहमादेशे पश्चादकि त्वकम् अहकम् इति । एवं "मन्तस्य युवावौ द्वयोः” एवं “यूयं वयं जसा" "तुभ्यं मह्यं ड्या" "तव मम उसा" एतेष्वपि सूत्रेषु प्राक्चाक इत्यनुवर्तनीयमिति ॥ १ ॥ युष्मद् १-२ अस्मद् १-२ इति स्थिते सूत्रम्
मन्तस्य युवावौ द्वयोः ॥२॥ [ सि० २।१।१०] द्वित्वे वर्तमानयोर्युष्मदस्मदोर्मन्तावयवस्य सादौ परे युवावौ स्याताम् । युवद् आवद् इति २० तावद्भवति ॥२॥ ___ मन्त० । म् अन्ते यस्य स मन्तः तस्य मन्त ६-१ "टाङसोरिनस्यौ" । युवश्च आवश्च युवाव १-२ "ऐदौत्सन्ध्यक्षरैः" । द्वि ६-२ "आढेरः" "एद्बहुम्भोसि" "एदेतोयाय" "सो रुः" "रः पदान्ते."। त्रिपदमिदं सूत्रम् । अनेन युव आव इत्यादेशे “लुगस्या०" अकारलोपे युवद् १-२ आवद् १-२ इति स्थिते ॥ २ ॥ सूत्रम्
अमौ मः ॥३॥ [ सि० २।१।१६ ] युष्मदसमा परयोरम् औ इत्येतयोर्मः स्यात् ॥ ३ ॥
अमौ० । अम् च औ च अमौ ६-२ सूत्रत्वात् विभक्तिलोपः । म १-१ "सो रुः" "रः पदान्ते."। द्विपदमिदं सूत्रम् । अकार उच्चारणार्थः । व्यञ्जनमकाररूप आदेशः । युवद् म् आवद् म् इति स्थिते ॥ ३ ॥ सूत्रम्
है. प्रका० पूर्वा० २०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org