________________
१५२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुक्लीबेलीब ७-१ "अवर्णस्ये." । वा १-१ "अव्ययस्य" द्विपदमिदं सूत्रम् । शेषं प्रकटम् । चतुरशब्दे शेर्घदसंज्ञत्वात् "वाः शेषे” उकारस्य वा आदेशे चत्वारि । गौणत्वे प्रियचतुः कुलम् २ । प्रियचतुरी २ । प्रियचत्वारि २ । हे प्रियचतुः कुलम् । पयासीत्यत्र "स्महतोः" इति दीघे "शिड्हेऽनुस्वारः" । अदसूशब्दः कण्ठ्यः । शोभना अनडाहो यस्मिन् कुले तत् "संसध्वंस्०” इत्यादिना दत्वे वनडुत् ५कुलम् वनडुही "वाः शेषे” वनड्वांहि । हे वनडुत् । काष्ठं तक्ष्णोतीति काष्ठतथ् कि "अप्रयोगीत्" १-१ "दीर्घष्याब्०" "संयोगस्यादौ०" इति कलुक् “धुटस्तृतीयः" इति षस्य डः काष्ठतड् २ इत्यादि । काष्ठं तरक्षीति काष्ठतम् १-३ "नपुंसकस्य शिः" धुटां प्राक्" इत्यत्र बहुवचनेन स्वरात्परा या धुड्जातिस्तदन्तस्य घुटि परे धुटः प्राक् नोन्तः स्यादित्यर्थो लभ्यते । ततो धुट् द्वयान्तस्यापि नोन्तो
भवति । ततो "नां धुत्" इति नस्य ङः । रेफान्तं वाशब्दं केचिन्नपुंसकलिङ्गमिच्छन्ति वार २ । १० वारी २ । वारि २ । वारा वार्ष्यामित्यादि । श्रीहेमसूरयस्तु लिङ्गानुशासने "वाश्छदिईरत्पामदृशदृशोनौ"रितिवचनात् वार्शब्दं स्त्रीलिङ्गमाहुः वाः वारौ वार इत्यादि ॥ १॥
यां शिष्योद्भुतकीर्तिकीर्तिविजयश्रीवाचकाहर्मणे
राजश्रीतनयो व्यधत्त विनयः श्रीतेजपालात्मजः। तस्यां शासितसाधुशब्दसरणौ स्वोपनसत्प्रक्रिया
वृत्तौ क्लैब्ययुजः समाप्तिमगमत् सद्वयञ्जनान्ताः रवाः ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org