________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे व्यञ्जनान्ताः नपुंसकलिङ्गाः । चकारान्तादयः १५१ वादेशैः शतमेकं नवाधिकम्" ॥ १॥ अन्यत्राप्युक्तम्-'जायन्ते नव सौ तथामि च नव भ्याभिसूभ्यसां सङ्गमे षट्सयानि षडेव सुष्यथ शसि, त्रीण्येव तद्वज्जसि । चत्वार्यन्यवचस्सु कस्य विबुधाः शब्दस्य रूपाणि भोश्चेदस्ति प्रतिभा वदन्तु भवतां पाण्मासिकोऽत्रावधिः" ॥१॥ "सुक्ष्मेक्षिकया द्वित्वानुनासिकविकल्पनात् । रूपाणि भेषुसयानि गवाक्शब्दे नपुंसके" ॥ १॥ सौ नव, अनाम्यन्तस्य "अदीर्घाद्विराम०" इति द्वित्वे अष्टादश । औ परे चतुषु पूजार्थानां त्रयाणां द्वित्वे सप्त अनुनासिकस्तु५ नास्ति "अइउवर्णस्यान्ते.” इत्यत्र अनीदादेरित्युक्तत्वात् । जसि द्वित्वस्यानुनासिकस्य विकल्पाहादश, सङ्कलनया ३७। एवं द्वितीयायामपि ३७। टायां १४ । भ्यामि ४८।भात्पूर्वस्य यमयोश्च(?) द्वित्वात् भिसि २४ । यि ७, अनुनासिकस्तु नास्ति अ ई उवर्णाभावात् । भ्यसि ४८ भ्याम्वत् । ङसिङसादिपञ्चके प्रत्येकं १४।सुपि गत्यर्थे त्रयाणां ककारषकारयोर्द्वित्वे नकारस्यानुनासिके च चतुर्विंशतिः । एवं कुकपक्षे "शिट्याद्यस्य द्वितीयो वा” इति कस्य खत्वे षण्णां उषयोर्द्वित्वेऽनुनासिके चाष्टाचत्वारिंशत् । कुगभावे १० त्रयाणां ङकारद्वित्वेऽनुनासिके च १२ एवं ८४ । एवं सि १८ औ ७ जस् १२ । अम् १८ औ ७ शस् १२ । टा १४ भ्याम् ४८ भिस् २४ । डे ७ भ्यां ४८ भ्यस् ४८ । ङसि १४ भ्यां ४८ भ्यस् ४८ । ङस् १४ ओस् १४ आम् १४ । ङि १४ ओस् १४ सुप् ८४ । एवं ५२७ सप्तविंशत्यधिका पञ्चशती रूपाणाम् । जकारान्तः असृजशब्दः स्पष्टः । असृञ्जि इति "धुटां प्राक्” इति नोऽन्ते "तवर्गस्य श्ववर्ग०" इति नस्य अत्वे रूपम् । असानीति "नि दीर्घः” । अमृग रुधिरमिति । 'गम्लं गतौ' जंगम्यते १५ इति “दिद्युद्दद्दजगज्जुहू०” इत्यादि किबन्तो निपातः जगत् । प्रक्रिया स्पष्टा । महत्शब्दोऽपि तथैव । यकृत् 'उदरान्तर्गतः शारीरः प्रत्यङ्गविशेषः । शकृत् पुरीषम् । रूपसिद्धिः स्फुटैव ।
त्यदादिषु सेलपि लुप्तनिमित्त कार्य न स्यादिति "आवरः” इत्यादि न भवति । एतच्छब्दस्य द्वितीयाटौस्सु एनदादेशे एनद् एने एनानि । शेषं पुंल्लिङ्गवत् । अहनशब्दे “ईङौ वा' इति "औरीः" इति सूत्रनिष्पन्ने ईकारे सप्तम्येकवचने च "अनोऽस्य" लुग् वा स्यादिति भावः । अहस्सु इत्यत्र “अह्नः" २० इति सूत्रेण नकारस्य रुत्वे "शषसे शषसं वा” इति रोः सत्वमिति । समासान्तस्याहनशब्दस्य सप्तम्येकवचनेऽयं विशेषः “सङ्ख्यासायवेरहस्याहन ङौ वा” (१।४।५०) सङ्ख्यावाचिभ्यः सायविभ्यां च परस्याह्नशब्दस्य ङौ परे अहन आदेशः स्यात् । द्वयोरहोर्भवो "भवे" इत्यण्विषये "सर्वांशसंख्याव्ययात्” इत्यद् अह्नादेशश्च । “द्विगोरनपये यस्वरादेर्लुबद्विः" इत्यणो लुपि व्यहस्तस्मिन् व्यह्नि, व्यहनि व्यते । एवं त्र्यहनि ३ । तावदहनि ३ । यावदहनि ३ । सायमहः सायाह्नः अत एव निर्देशात् २५ सायम्शब्दस्य मकारलोपः, साय इत्यकारान्तो वा । सायानि ३ । विगतमह्रो व्यह्नः। व्यहनि ३ । सङ्ख्यासायवेरिति किम् ? मध्याह्ने । अह्रस्येति किम् ? द्वयोरह्नो समाहारः व्यहस्तस्मिन् व्यहे । नान्तानां नपुंसकलिङ्गानां शब्दानां सम्बोधने विशेषमाह सूत्रम्
क्लीबे वा ॥१॥ [सि० २।११९३] आमन्यस्य नाम्नो नस्य क्लीबे लुग् वा स्यात् । हे ब्रह्मन् हे ब्रह्म । इदम् । इमे । इमानि । ३० किम् । के । कानि । "चतुरः शौ" । चत्वारि । पयः । पयसी । पांसि । पयसा । पयोभ्याम् । हे पयः । एवं वचःप्रभृतयः । अदः । द्विवचने अमे इति जाते "मादुवर्णोऽनु" अमू । अमूनि । शेषं पुंवत् । काष्ठतद् काष्ठतट् । काष्ठतक्षी । काष्ठतसि ॥१॥ इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां हैमलघुप्रक्रियायां व्यञ्जनान्ता नपुंसकलिङ्गाः।
इति षटूलिङ्गानि समाप्तानि क म
३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org