________________
१५०
महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञ हैमलघु
एवं दृशुप्रभृतयोऽपि । सकारान्तानाह - आशिस् शब्दस्येति आङ्पूर्वक - ' शासूक अनुशिष्टौ ' आशासनं आशीः *"कृत्सम्पदादिभ्यः क्विप्” आङः क्वावित्यनुवर्त्तते, आङ्ः परस्य शास आसः क्वावेव इस् स्यात् ततश्च आशिस् इति सिद्धम् शेषं स्पष्टम् । आशीष्षु इति सप्तमीबहुवचने रूपप्रयम् । दोस्शब्दवत् अदस्शब्दः स्पष्ट एव। हकारान्तमाह — उपपूर्वक 'नहींच् बन्धने' नधातुः उपनह्यतीति उपानद् क्किप् ५“गतिकारकस्य नहिवृतिवृषिव्यधिरुचिसहितनौ कौ” ( ३।२।८५ ) इति दीर्घः उपानद् १-१ इति स्थिते “नहाहोर्धतौ” इति सूत्रस्य सारभूतं वक्तव्यमाह - पदान्ते नहो धो वाच्य इति शेषं व्यक्तम् ॥ ७ ॥
यां शिष्योद्भुतकीर्तिकीर्तिविजयश्रीवाचकाहर्म्मणे राजश्रीतनयो व्यधत्त विनयः श्रीतेजपालात्मजः । तस्यां शासितसाधुशब्दसरणौ स्वोपज्ञसत्प्रक्रिया
वृत्तौ पूर्त्तिमशिश्रियन् खलु रवाः द्राग् व्यञ्जनान्ताः स्त्रियाम् ॥ १ ॥
अ थ
लिङ्गाः
व्य अ ना
तानपुंस
अथेति प्राग्वत् । व्यञ्जनक्रमेण व्यञ्जनान्ता नपुंसकलिङ्गाः शब्दाः प्रदर्श्यन्ते इति वाक्यशेषः । तत्र चकारान्तः प्रत्यच्शब्दः । प्रत्यग्, प्रत्यक् । “अच्च प्राग् दीर्घश्व" इति प्रतीची । प्रत्यश्चि । सम्यक् सम्यग् । समीची । सम्यश्चि । शेषं पुंवत् । जकारान्तोऽसृज्शब्दः । असृग् असृक्, २ । १५ असृजी २ । असृञ्जि २ । शसादौ वाऽसन्नादेशे असानि । अस्त्रा । असृजा । असभ्याम् । असृग्भ्याम् । हे असृग् हे असृक् । जगत् जगद् । जगती । जगन्ति । महत् । महती । " न्महतो " इति दीर्घे महान्ति ॥ यकृताकृतोः शसादौ वा यकन्शकन्नादेशे यक्ना यकृता । यकभ्याम् यकृद्भ्याम् । शक्ना शकृता । शकभ्याम् शकृद्भ्याम् । त्यदादीनां "अनतो लुप्" इति सिलुप त्यद् । द्विवचनादौ अत्वे त्ये । न्यानि । सर्ववत् । एवं तद्यदादयः । अहनुशब्दस्य " अह्नः" इति २० रुत्वे । अहः २ | “ईङौ वा " । अह्नी अहनी, २ । अह्नि अहनि । अह्ना । अहोभ्याम् ३ । अहस्सु । हे अहः । ब्रह्मन्शब्दस्य "नाम्नो नोऽनहः" इति नलुपि ब्रह्म । ब्रह्मणी । ब्रह्माणि | ब्रह्मणा ।
चकारान्तः प्रत्यच्शब्द इति प्रत्यश्वतीति प्रत्य विशेष्यवशान्नपुंसकत्वं प्रत्यच् १-१ इति स्थिते “अनतो लुप्” इति सेर्लुप् “चजः कगम्” इति चस्य कत्वे “घुटस्तृतीयः” इति कस्य गत्वे “विरामे वा" इति पुनः कत्वे प्रत्यग्, प्रत्यक् इति । द्विवचने "औरी : " इति ईकारे जाते “अच्च प्राग् दीर्घश्च" २५ इति अचश्चादेशे पूर्वस्वरस्य दीर्घे च प्रतीची । एवं द्वितीयावचनत्रयेऽपि । शेषं पुंवदिति तृतीयादौ पुंक्लीबयोर्विशेषाभावात् प्रतीचा इत्यादि । सममञ्चतीति वाक्ये “सहसमोः सप्रिसमी” इति समी आदेशे “अच्च प्राग् दीर्घश्च" इति समीची इति । एवं सधीची । सम्यश्चि सभ्यश्चि । तृतीयादौ समीचा सधीचा इत्यादि पुंवत् । गामवति गच्छतीति विग्रहे "स्वरे वाऽनक्षे" इत्यवादेशे गवाक् गवाग् पक्षे
१०
"वात्यsसन्धिः” इत्यसन्धौ गो अक् २ । “एदोतः ०" इत्यकारलोपे गोकू २ । पूजायां नलोपाभावे ३० "युजञ्चक्रुश्चो०" इति नस्य ङत्वे गवाङ् गो अङ् गोङ् । अम्यपि एतान्येव नव । "औरीः” इति ईत्वे अचश्वादेशे गोची, पूजायां गवाची गो अश्वी गोची । जसशसोः शौ घुट्त्वान्नोऽन्ते गतिपूजयोatura rara गोअवि गोवि । गोचा गवाञ्चा गोअचा गोश्चा । गवाग्भ्याम् गोअग्भ्याम् गोग्भ्याम्, गवाङ्भ्याम् गोअङ्भ्याम् गोभ्याम् इत्यादि । सुपि ङान्तानां पक्षे " णोः कटा०” इति कागमे गवा३४ ङ्क्षु ३ । गवाङ्क्षु ३ गवाक्षु ३ । उक्तं च "गवाक्शब्दस्य रूपाणि क्लीवेऽर्चागतिभेदतः । अल्लोपासन्ध्य
Jain Education International
क
For Personal & Private Use Only
www.jainelibrary.org