________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे व्यञ्जनान्ताः स्त्रीलिङ्गाः । रेफान्तादयः १४९ प्रियतिसा प्रियचतसा ना । प्रियतिस्रौ प्रियचतस्रौ । गिरशब्दस्य "पदान्ते" इति दीर्थे । गीः। गिरौ २ । गीाम् ३ । “अरोः सुपि रः" गीर्षु । हे गीः ॥५॥
ऋतो० । ऋत् ६-१ "लोकात्"। "सो रुः" र १-१ "सो रुः" "र: पदान्ते०" । स्वर ७-१ "अवर्णस्ये०"। न न अन् तस्मिन् अन् ७-१ "लोकात्" ।मध्ये "घोषवति" "एदोतः पदान्ते."। चतुष्पदमिदं सूत्रम् । “शसोऽता सश्च नः पुंसि” इति दीर्घत्वम् , “अझै च" इत्यरादेशः, "ऋतो डुर्" इति डुरा-५ देशश्च अनेन सूत्रेण बाध्यन्ते । सूत्रद्वयेऽपि खेऽखे वा इत्यनुवर्तनीयम् । प्रियास्तिस्रश्चतस्रो वा यस्य स प्रियतिसा प्रियचतसा प्रियतिस्रौ प्रियतिस्रः २ हे प्रियतिस्रः । प्रियास्तिस्रोऽस्य कुलस्य तत् प्रियतिसृ कुलम् । नविषयादन्यत्र इति नविषये तु तो रत्वं न भवति यथा तिसृणाम् चतसृणाम् प्रियतिसृणि प्रियचतसृणि । एषु विभक्त्याश्रयत्वेन बहिरङ्गलक्षणतिसृचतस्रादेशस्यासिद्धत्वात् समासान्तः कच् न भवति, परत्वाच्च तिसृचतस्रादेशे पश्चान्नागमो नामादेशश्च । प्रियत्रिकः प्रियचतुष्कः तिसृणां प्रियः१० त्रिप्रियश्चतुःप्रियः प्रियत्रि कुलं प्रियचतुः कुलमित्यादौ तु स्यादेर्लप्तत्वादादेशो न भवति । प्रियतिस कुलं प्रियचतसृ कुलमित्यत्र तु "नामिनो लुग् वा” इति से कि सति स्थानिवद्भावाद्भवति-यथा हे पो । एवं हे प्रियत्रि कुलम् , हे प्रियतिस कुलम् । तथा प्रियास्त्रयश्चत्वारो प्रियाणि त्रीणि चत्वारि वा यस्या ययोर्यासां वा प्रियत्रिः प्रियत्री प्रियत्रयः, प्रियचत्वाः प्रियचत्वारौ प्रियचत्वारः स्त्रियः । अत्र समास एव स्त्रियां न तु त्रिचतुरौ तेनादेशौ न भवतः । प्रक्रियालाघवाय समानप्रक्रियं त्रिशब्दमत्रैव निर्दि-१५ शति । एवं तिस्र इत्यादि ॥ ५ ॥ रेफान्तो गिशब्दः स्पष्ट एव । वकारान्तं दिवशब्दमाह-दिव् १-१ इति स्थिते सूत्रम्
दिव औः सौ ॥६॥ [सि० २।१।११७ ] द्यौः। दिवौ ॥६॥ दिव् ६-१ "लोकात्" "सो रुः"। औ १-१ "सो रुः" "र: पदान्ते.” । सि ७-१ "ङिडौँ”२० "डित्यन्त्य०" । मध्ये "रोर्यः" "स्वरे वा"। त्रिपदमिदं सूत्रम् । “षष्ठ्यान्यस्य” इति अनेन वस्य औत्वे "इवर्णादे.” इति यत्वे द्यौः दिवौ दिवः इत्यादि ॥ ६ ॥ दिव भ्याम् इति स्थिते सूत्रम्
उः पदान्तेऽनूत् ॥७॥ [सि० २।१।११८] पदान्ते दिव उ: स्यात् स च दी| न स्यात् । घुभ्याम् । दिवाम् धुषु । हे द्यौः। "ऋत्विग्" इत्यादिना गत्वे दिगु दिक् । दिशौ २ । दिग्भ्याम् ३ । हे दिग् हे दिक् । आशिस्शब्दस्य "सो२५ रुः" इति रुत्वे "पदान्ते" इति दीर्घ आशीः । आशिषौ । आशीाम् । आशीर्षु । हे आशीः । "अदसो दः सेस्तु डौ" । असौ । द्विवचनादौ अत्वे मत्वे । *पदान्ते नहो धो वाच्यः। उपानत् उपानद् । उपानही । उपानझ्याम् ३ । उपानत्सु । हे उपानद् हे उपानत् ॥७॥ इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां हैमलघुप्रक्रियायां व्यञ्जनान्ताः स्त्रीलिमाः ।
उ० । उ १.१ "सो रुः" "र: पदान्ते." । पदान्त ७-१ "अवर्णस्ये." न ऊत् अनूत् । अनूत ३० १-१ "दीर्घ०"। त्रिपदमिदं० । अनेन वकारस्य उत्वे द्युभ्याम् ३ । इत्यादि अनूदिति तस्य च उकारस्य दीर्घत्वं न स्यात् , यथा दिव् १-१ अद्यौः द्यौर्भवति इति वाक्ये "कृभ्वस्तिभ्यां कर्मकर्तृभ्यां०” (७।२। १२६) इति च्विः "अप्रयोगीत्' विलोपः "अव्ययस्य" । प्रस्तुतसूत्रेण वकारस्य उत्वे | भवति । अत्र "दीर्घश्वियङ्यक्क्येषु च” इति दीर्घत्वं न भवति । शकारान्तो दिशशब्दः स्पष्टः।३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org