________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुसरांसि सन्ति पश्य वा। शेषं पुंल्लिङ्गवत् । भकारान्ताः स्पष्टा इति मकारान्तमिदम्शब्दमाह-तस्य प्रथमैकवचने सौ "अयमियं पुस्त्रियोः सौ” इति इयम् आदेशे “दीर्घड्याब्” इति सिलोपे इयम् । इदम् १-२ इति स्थिते "आढेरः" "लुगस्या०" "दो मः स्यादौ” इम इति जाते "आत्"
आबागमे इमा १-२ "औता" इति औता सह एत्वे इमे । इमा १-३ "समानानां.” “सो रुः" "रः ५पदान्ते.” इमाः । इमा २-१ "समानादमोऽतः” इत्यकारलोपे इमाम् । इमा २-२ "औता" इमे । इमा २-३ "शसोऽता०" शस् सम्बन्धिना अता सह दीर्घत्वमेव न तु नत्वं पुंस्त्वाभावात्-इमाः । इदम् ३-१ "टौस्यनः" इति इदमोऽनादेशे "आत्" इत्याप "समानानां." "एदैतो." अनया । इदम् ३-२ इदम् ३-३ "अनक्” इति अकारादेशे "आत्" इत्यापि आभ्याम् आभिः । इदम् ४-१ इति स्थिते इमा इति जाते "सर्वादेर्डस्पूर्वाः” इति डस्पूर्वके यै आदेशे येन न व्यवधानं तेन व्यवहितेऽपि स्यादिति १० ङसान्तरितेऽपि यरूपे व्यञ्जनादौ परे इदमोऽकारादेशो भवति ततः आ अस् यै इति स्थिते "डित्यम्त्यस्वरादेः” इति आकारलोपे विभक्त्यंश एवावतिष्ठते शब्दांशस्तु लुप्यते अस्यै इति । एवं इदम् ५-१ अस्या इति । इदम् ६-२ "टौस्यनः" इत्यनादेशे आबागमे "टौस्येत्" इत्येत्वेऽयादेशे अनयोः । इदम् ६-३ इमा इति जाते “अवर्णस्यामः साम्" इत्यामः सामादेशे ततोऽनक्" इदम्शब्दावयवस्य इम् इत्येतस्य अकारादेशे आसाम् । इदम् ७-१ अस्याम् । इदम् ७-३ इमासु इति जाते "अनक्” इति इमो. १५ ऽकारादेशे आसु इति । तथा अन्वादेशे द्वितीयाटौसि परे साकोऽपि निरकोप्येनदादेशो भवति । तथा व्यञ्जनादौ स्यादौ परे साकोऽपि निरकोप्यदादेशो भवति । एतच्च सर्व रूपदर्शनेनैव व्यक्तीक्रियते । इदम् १-१ "त्यादिसर्वादेः स्वरेष्वन्त्यात् पूर्वोऽक्" इत्यक्प्रत्यये इदकम् इति जाते "आढेरः" मस्य अत्वे "लुगस्या०" "दो मः स्यादौ” "आत्" इत्याप् इमका इति जाते *"अस्यायत्तक्षिपकादीनाम्" यदादिवर्जस्यातोऽनिक्याप्परे इ: स्यात् इमिका । ततः साकोऽपि इयम् आदेशः । अपरे तु इयमादेशे २० सति अकमिच्छन्ति इयकम् इमिके इमिका इमिकाम् । अन्वादेशे एनाम् इमिके एने इमिकाः एनाः
इमिकया एनया अनया । साकोप्यदादेशः-इमिकाभ्याम् आभ्याम् २ । इमिकस्यै अस्यै । इमिकस्याः २ अस्याः २ । इमिकासाम् आसाम् । इमिकस्याम् अस्याम् । इमिकयोः एनयोः अनयोः । इमिकासु आसु । किमशब्दस्य "किमः कस्तसादौ च” इति कत्वे आपि सर्वाशब्दवत् प्रक्रिया । अथ क्रमप्राप्तं रेफान्त
शब्दमाह-रेफान्तश्चतुरशब्द इति ॥ ३ ॥ सूत्रम्२५ . त्रिचतुरस्तिमृचतस्ट स्यादौ ॥ ४॥ [सि० २।१।१]
खेऽखे वा खरादौ स्यादौ परे स्त्रीलिङ्गयोस्त्रिचतुरोस्तिसृ चतसृ साताम् ॥ ४ ॥ त्रिचतुर० । त्रिश्च चतुश्च त्रिचतुर्-तस्य त्रिचतुर् ६-१ "लोकात्” “सो रुः" तिसृश्च चतसृश्च तिसृचतसृ १-१ "अनतो लुप्" सिलोपः । सिरादिर्यस्य स स्यादिः तस्मिन् स्यादि ७-१ "ङिडौं”
"डित्यन्त्य०”। मध्ये "चटते." । त्रिपदमिदं सूत्रम् । अनेन चतुर्शब्दस्य चतसृ आदेशे चतसृ १ ३ ३० इति स्थिते ॥ ४ ॥ सूत्रम्
ऋतो रः खरेऽनि ॥५॥ [सि० २।१।२] तिसृचतसृशब्दयोर्ऋतः स्वेऽखे वा स्वरादौ स्यादौ परे र: स्यात् नविषयादन्यत्र । चतस्रः २। चतसृभिः । चतसृभ्यः २ । "दी? नाम्य०" इत्यत्र तिसृचतसृवर्जनात् चतसृणाम् । चतसृषु । हे ३४चतस्रः । एवं तिस्रः २ । तिसृभिः। तिसृभ्यः २। तिसृणाम् । तिसृषु । हे तिस्रः। खेऽखे इति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org