________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे व्यञ्जनान्ताः स्त्रीलिङ्गाः । नकारान्तादयः १४७ यान्तनित्यस्त्रीशुद्रात्" इति ड्यां युवनशब्दस्य "स्त्रियां नृतो.” इति ड्यां मघवन्शब्दस्य "धवाद्योगात्” इति उयां "श्वन्युवन्मघोनो डीस्याद्यधुट्स्वरे व उः" इति वकारस्य उत्वे शुनी प्रिययूनी मघोनी इत्यादि । पथिन्मथिन्ऋभुक्षिन्शब्दानां बहुव्रीह्यादिना गौणत्वे सु शोभनः पन्था मन्था वा यस्यां सा इत्यत्र "स्त्रियां नृतो.” इति ङीप्रत्यये “इन् ङीस्वरे लुक्” इति इन्लोपे सुपथी सुमथी स्त्री। अनृभुक्षी सेनेत्यादि । प्रियाः पञ्च यस्याः सा प्रियपश्चा इत्यत्र प्राग्वत् सप्तषष्टि रूपाणि स्युः । प्रिया ५ अष्टौ यस्याः सा प्रियाष्टा इत्यत्र स्त्रीलिङ्गे बहुव्रीहौ प्रियाष्ठन्शब्दस्य "अनो वा” इति ङीप्रत्यये "अनोऽस्य" इत्यल्लोपे “तवर्गस्य श्चवर्ग०” इति णत्वे प्रियाष्टणीशब्दस्तस्य चतुर्विंशति रूपाणि नदीवत् ज्ञेयानि । तथा "ताभ्यां वाप डिन्” इति डाबागमे प्रियाष्टाशब्दः तस्य गङ्गाशब्दवञ्चतुर्विंशति रूपाणि । उभयाभावे नोऽन्तस्य प्रियाष्टनशब्दस्य "वाष्टन आः स्यादौ” नकारस्य आत्वे पुंल्लिङ्गोक्ताष्टाशब्दवच्चतुविंशतिरूपाणि । आत्वाभावे नान्तस्य प्रियाष्टन्शब्दस्य सप्तम्येकवचने "ईडौ वा” इति रूपद्वयमिति १० पञ्चविंशतिरूपाणि । एवं सर्वाणि सप्तनवतिःरूपाणि स्युरिति ज्ञेयम् । इयं चात्रानुक्ता सर्वापि प्रक्रिया प्रायः पूर्वोक्तैरेव सूत्रैः सिद्ध्यतीति चकारान्तादयः प्राग्वत् इत्यनेनैव वचनेन "मण्डूकप्लुति"न्यायेन सङ्ग्रहीता बोद्धव्या इत्यभिप्रेत्य पकारान्तान्शब्दानाह पकारान्तो बहुवचनान्तोऽप् शब्द इति-"मघा अप् कृत्तिका बहौ" इति लिङ्गानुशासनवचनात् बहुवचनान्तत्वं तु मुख्यत्व एव, गौणत्वे तु सर्वाण्यपि वचनानि भवन्ति इति दर्शयिष्यते । अप् १-३ इति स्थिते ॥ १ ॥ सूत्रम्
__ अपः॥२॥ [सि०१४८८] अप: स्वरस्य शेषे घुटि दीर्घः स्यात् । आपः । शसि । अपः ॥२॥
अपः । अप् ६-१ "लोकात्" "सो रुः” “रः पदान्ते०” एकपदमिदं० । प्रथमाबहुवचनस्य घुटत्वादनेन दीर्घ आपः । द्वितीयाबहुवचनस्य घुट्वाभावादीर्घाभावस्तथैवाह-शसि अपः इति ॥२॥ अप् ३-३ इति स्थिते सूत्रम्
____ अपोऽद्भे ॥३॥ [सि० २।१।४] भादौ स्यादौ परे अपोऽद् स्यात् । अद्भिः । अयः २ । अपाम् । अप्सु । एवं स्वाप । स्वापौ। खझ्याम् । ककुभशब्दस्तुण्डिभशब्दवत् । इदम्शब्दस्य "अयमियं पुंस्त्रियोः सौ" इयम् । इमे । इमाः । इमाम् । इमे । इमाः । "टौस्यनः" । अनया । “अनक्" । आभ्याम् । आभिः। अस्यै । अस्याः २ । अनयोः २ । आसाम् । अस्याम् । आसु । रेफान्तश्चतुरशब्दः ॥३॥ २५ ___ अपो० । अप् ६-१ "लोकात्” “सो रुः" । अद् १-१ "दीर्घड्याब्"। भ ७-१ "अवर्णस्ये." मध्ये "अतोऽति रो रुः" "अवर्णस्ये०” “एदोतः०" | त्रिपदमिदं० । अनेन अपोऽदादेशे अद्भिः। एवं चतुर्थीपञ्चमीबहुवचनयोः भ्यसोरपि । षष्ठीसप्तमीबहुवचनयोस्तु "लोकात्" अपाम् अप्सु । गौणत्वे रूपाण्युच्यन्ते-सु शोभना आपो यस्य द्रहस्य ययोर्येषां वा स स्वाप स्वापौ स्वापः "ऋक्तःपथ्यपोऽत्” (७।३।७६) इति प्राप्तोऽत्समासान्तः "पूजास्वतेः प्राक् टात्” (७।३।७२) इत्यनेन निषि-३० ध्यते । स्वापं स्वापौ स्वपः स्वपा स्वद्भ्याम् स्वद्भिः स्वपे स्वपः २ स्वपोः २ स्वपाम् स्वपि स्वासु । शेषे घुटीत्युक्तत्वात् सम्बोधने सौ दीर्घो न भवति हे स्वप् हे स्वापौ हे स्वापः । नपुंसकलिङ्गे स्वप् स्वपी, शौ "धुटां प्राक्” (१।४।६६) इति नागमे "नि वा” (१।४।८९) अपः स्वरस्य नागमे सति घुटि परे दी? वा स्यात् । स्वाम्पि स्वम्पि अत्याम्पि अत्यस्पि । समासान्तविधेरनित्यत्वात् बह्वाम्पि बह्नम्पि ३४
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org