________________
१४६
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
आत् ॥ १॥ [सि० २।४।१८] अकारान्तानाम्नः स्त्रियामा' स्यात् । “तः सौ सः" स्या । त्ये । त्याः। सर्वावत् । सा । ते । ताः । या । ये । याः । एषा । एते । एताः । एताम् । एते । एताः । एतया । एतयोः २। अन्वादेशे । एनाम् । एने । एनाः । एनया। एनयोः २ । पकारान्तो बहुवचनान्तोऽपशब्दः॥१॥ ५ आत् । अ ५.१ "डेङस्यो.” “समानानां०" आत् । एकपदमिदं सूत्रम् । आप्प्रत्यये पकारोऽनुबन्धः शेषं स्पष्टम् । “त्यादिसर्वादेः स्वरेष्वन्यात्पूर्वोऽक्" इत्यकि त्यकद् १-१ इति स्थिते "आढेरः” इत्यादि प्रक्रिया । त्यका इति जाते "तः सौ सः" स्यका इति । ततश्च "अस्यायत्तक्षिपकादीनाम्" इत्याप आकारस्य इत्वे स्थिका त्यिके त्यिका इत्यादि । एवं तद् यद् शब्दावपि । केवलमकि "अस्याय
त्तदि"ति सूत्रे यत्तद्वर्जनादनयोराप इत्वं न स्यात्ततः यका यके यकाः, सका तके तकाः इत्यादि । एत१०च्छब्दस्य अन्वादेशे द्वितीयावचनत्रये टायामोस्द्वये च एनदादेशे "आवरः" "लुगस्या०" "लोकात्"
"आत्" "समानानां०" एना इति सिद्धं शेषं कण्ठ्यम् । अन्वादेशश्चैवम्-आगता एषा अथो एनां पश्य, एवमेने एनाः । एतया दिनमधीतमथो एनया रात्रिरप्यधीता । एतयोः शोभनं शीलम् अथो एनयोः प्रशस्तं रूपम् । एतयोमौक्तिकं तिलकम् अथो एनयोस्सौवर्ण कुण्डलमिति । अन्वादेशाभावे तु
एतामित्यादि । वृत्त्यन्ते तु अन्वादेशे सत्यपि एनदादेशो न भवति परमा चासौ एषा च परमैषा १५ आगता परमैषा अथो परमैतां पश्येत्यादि । एतशब्दस्य अप्रत्यये एतकद् इति स्थिते "आढेरः"
इत्यादि । ततः "तः सौ सः “नाम्यन्तस्था०” इति षत्वे "द्वथेषसूत्रपुत्रवृन्दारकस्य” इति वा आप इत्वे एषिका एषका एतिके एतिकाः इत्यादि, इत्युक्ता दकारान्ताः। धकारान्तानां धर्मबुध्प्रभृतीनां किबन्तानां पुंस्त्रिलिङ्गयोर्न विशेषः। नकारान्तानां च राजन्प्रभृतीनां स्त्रीत्वे "स्त्रियां नृतोऽस्वस्रादेः"
इति ङीप्रत्यये "अनोऽस्य." इत्यल्लोपे राज्ञी इत्यादि । बहुव्रीहिसमासे च "अनोवा"(२।४।११)अन्नन्ता२० द्वहुव्रीहेः स्त्रियां ङीर्वा स्यात् । बहवो राजानो यस्यां नगर्यो सा बहुराज्ञी पक्षे "ताभ्यां वापडित"
(२।४।१५) मन्नन्तानाम्नोऽनन्ताच्च बहुव्रीहेः स्त्रियामाप वा स्यात् स च डित् । ततो "डित्यन्त्य" वहुराजा नगरी । पक्षे उभयाभावे "नि दीर्घः” इति दीर्घ बहुराज्ञी नगरी । एवं बहुराइयौ बहुराजे बहुराजानौ नगय्यौँ । बहुराज्यः बहुराजाः बहुराजानः । सप्तम्येकवचने बहुराश्यां बहुराजायाम् । नकारान्तपक्षे "ईडौ वा” इति वाऽकारलोपे बहुराज्ञि बहुराजनि इति रूपचतुष्टयम् । अन्यत्र सर्वत्र २५ रूपत्रयम् । सम्बोधनेऽपि हे बहुराज्ञि हे बहुराजे हे बहुराजन् नगरी । एवं रूपत्रयमिति सप्तषष्टिरूपाणि
स्युः । एवं "दाम्नः” (२।४।१०) सयादेर्दामनशब्दान्तान्नान्नो बहुव्रीहेः स्त्रियां ङीर्भवति । द्विदाम्नी, त्रिदानी । सङ्ख्यादेरित्येव उद्दामानं उद्दामा उद्दाम्नी वडवां पढ़य "अनो वा” इति डीविकल्पस्यापवादो योगः । तथा "नानि" (२।४।१२) अन्नन्ताद्बहुव्रीहेर्नाग्नि नित्यं डीः। अधिराज्ञी सुराज्ञी नाम ग्रामः
तथा "मन" (२।४।१४) मन्नन्तानाम्नः स्त्रियां डीन भवति सीमा सीमानौ पामा पामानी "अनि३० नस्मन् ग्रहणान्यन्यर्थवताऽनर्थकेन च तदन्तविधि प्रयोजयन्ति” तेन महिमानमतिक्रान्तातिमहिमेत्यादावपि
डीप्रतिषेधो भवति । वहुव्रीहेरिति निवृत्तं योगविभागात् । तथा "नोपान्त्यवतः” (२।४।१३) यस्योपान्त्यलुग् नास्ति तस्मादन्नन्ताबहुव्रीहेः स्त्रियां ङीन स्यात् । सुपर्वा, प्रिययज्वा प्रियात्मा पुंल्लिङ्गवत् । इन्नन्तानां "स्त्रियां नृतो.” इति ड्यां दण्डिनी वचस्विनी इत्यादि । वृत्रहनशब्दस्य वृत्रन्ना भार्या
"धवाद्योगादपालकान्तात्” इति ड्यां वृत्रन्नी एवं पूष्णी अर्यम्णी । यदा प्रियवृत्रहा प्रियपूषा प्रियार्यमा ३५ इति बहुव्रीहिः क्रियते तदा बहुराजन्वत् सप्तषष्टिः सप्तषष्टिः रूपाणि स्युः । श्वनशब्दस्य "जातेर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org