________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे व्यञ्जनान्ताः पुंल्लिनाः स्त्रीलिङ्गाश्च १४५
मुहद्रुहस्नुहस्त्रिहो वा ॥ ६१॥ [सि० २।११८४] धुटि प्रत्यये पदान्ते त्वेषां चतुर्णा हो घ् वा स्यात् । तत्त्वमुग तत्त्वमुक् । तत्वमुद् तस्वमुट् । सम्बोधने चातूरूप्यम् ॥ ६१॥
इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनय विजयगणिविरचितायां हैमलघुप्रक्रियायां व्यजनान्ताः पुंलिशाः । ___ मुह० । मुहश्च द्रुश्च सुहश्च स्निहश्च मुद्रुहस्नुहस्निह् तस्य मुद्रुहस्नुहस्निह् ६-१ "लोकात्” “सो५ रुः" । वा १-१ "अव्ययस्य" । मध्ये "घोषवति" "अवर्णस्ये." । द्विपदमिदं सूत्रम् । 'मुहौच वैचित्त्ये' तत्त्वे मुह्यतीति तत्त्वमुग् किप्प्रत्ययः, अनेन हस्य घत्वे "धुटस्तृतीयः” इति गत्वे "विरामे वा” गत्वकत्वाभ्यां रूपद्वयम् , पक्षे "हो धुट्पदान्ते” हस्य ढः तत्रापि "धुटस्तृतीयः" डत्वे "विरामे वा” इति डत्वटत्वाभ्यां रूपद्वयम् । एवं सम्बोधनेऽपि चातूरूप्यम् । 'द्रुहौच जिघांसायाम्' मित्राय द्रुह्यतीति विप् "अप्रयोगीत्" । यत्र पदत्वं तत्र अनेन हस्य घत्वे पक्षे "हो धुट्पदान्ते” इति ढत्वे च "गडदबादेः” १० इति दस्य धत्वं मित्रध्रुग् २ । मित्रध्रुड् २ । मित्रध्रुग्भ्याम् मित्रध्रुड्भ्याम् । स्वरादौ तु पदत्वाभावानोभयम्-मित्रद्रुहौ । 'हणुहौच उद्गिरणे' ष्णुधातुः “षः सोष्ठथै०” 'निमित्ताभावे.' स्नुह उत्निह्यतीति विप् "अप्रयोगीत्” । 'ष्णिहौच प्रीती' "षः सो०" स्त्रिहत्वे स्निह्यती० । उष्णिशब्दोऽपि स्पष्ट एव ॥६१॥
यां शिष्योद्भुतकीर्तिकीर्तिविजयश्रीवाचकाहर्मणे
राजश्रीतनयो व्यधत्त विनयः श्रीतेजपालात्मजः । तस्यां शासितसाधुशब्दसरणौ स्वोपज्ञसत्प्रक्रिया
वृत्तौ भेजुरमी समाप्तिसुषमा पुंस्यस्वरान्ता रवाः ॥ १ ॥
४ अथव्य अनान्ताः स्त्रीलिङ्गाः।
२०
अथ व्यञ्जनान्ताः स्त्रीलिङ्गा उच्यन्ते । तेऽपि व्यञ्जनक्रमेणैव वक्तव्यास्तत आहतत्र चकारान्तादयः प्राग्वत् । त्यदादीनाम् "आवरः" इत्यकारान्तत्वे ।
तत्र चकारान्तादयः प्राग्वदिति । तत्रेति व्यञ्जनान्तस्त्रीलिङ्गशब्देष्वित्यर्थः । चकारान्तेभ्यः प्रभृति थकारान्तपर्यन्ताः शब्दाः । प्राग्वदिति प्रायः पुंल्लिङ्गवत् ज्ञेया इत्यर्थः । ततः परं एव विशेषस्याभिधास्यमानत्वात् तथाहि ऋच्वाच्वच्शुच्प्रभृतयश्चकारान्ताः शब्दाः सुवाच्शब्दवत् ज्ञेयाः । यद्यपि सुवाच्शब्दो विशेष्यलिङ्गत्वात्रिष्वपि लिङ्गेषु सम्भवति तथापि रूपपद्धतिदर्शनार्थं मुख्यतया पुंल्लिङ्गे दर्शित इति तस्यातिदेशः क्रियते । एवं पापमुच्प्रभृतयश्चकारान्ताः । देवेज् तीर्थसृज् कंसपरिमृज् २५ गुणराज विभ्राज् धानाभृज् परिवृज् युज् प्रभृतयो जकारान्ताः , भूभृत्प्रभृतयस्तकारान्ता, दधिमथ्प्रमुखाः थकारान्ताश्च किबन्ताः त्रिष्वपि लिङ्गेषु भवन्ति । एवं प्रियमरुत्प्रभृतयः समासेन गौणीकृताः पुंल्लिङ्गा अपि स्त्रीलिङ्गे भवन्ति । परमेषां पुंलिङ्गस्त्रीलिङ्गयो रूपेषु न कश्चिद्विशेष इति सुष्टुक्तं चकारान्तादयः प्रागवदिति । प्रत्यप्राचप्रभृतीनामचन्तानां च स्त्रियां "अच" इति ङीप्रत्यये पूर्वोक्तरीत्या प्रतीची इत्यादि रूपाणि स्युः। तथा ऋकारानुबन्ध पचत् भवत् गोमत् प्रभृतीनां च तकारान्तानां स्त्रीलिङ्गे ३० "अधातूदृदितः” (२।४।२) इति ङीप्रत्ययागमे महती पचती भवती गोमती इत्यादीनि रूपाणि स्युस्तेषां नदीशब्दवद्रूपपद्धतिरिति नैतेषामत्राधिकार इति दकारान्तेभ्यः प्रभृत्येवात्र शब्दा अधिक्रियन्ते इत्यत आह त्यदादीनामिति यद् १-१ इति स्थिते सूत्रम्
३३ __ है. प्रका० पूर्वा० १९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org