________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
असुको वाकि॥ ५७ ॥ [ सि० २१४४ ]
असोक सत्यको वा स्यात् । असुकः । असकौ । हे असुक । हे असक ॥ ५७ ॥
असौ इति श्रीमसूरिवचनादस्य सम्बोधनं ज्ञायते । अक्प्रत्ययान्तयोस्तु असुकासकशब्दयो रूपाणि प्रथमैकवचनं विना सर्वाण्यपि सर्वशब्दवत् ज्ञेयानि इति सकारान्ताः शब्दाः ॥ ५७ ॥ ५ अथ हकारान्ताः - अनडुहशब्दस्य "वाः शेषे" अनड्वाह इति जाते सूत्रम् -
१४४
अनडुहः सौ ॥ ५८ ॥ [ सि० १।४।७२ ]
ari प्राग् नोन्तः, " पदस्य " इति हलोपे अनजान् । अनड्वाहौ २ । शसि अनडुहः । “संस्ध्वंस्०" इत्यादिना दत्वे । अनडुद्भ्याम् ३ | सम्बोधने “उतोऽनडुच्चतुरो वः " हे अनुवन् ॥५८॥
अन० । अनडुह् ६-१ “लोकात्” “सो रु” “रः पदान्ते ०” । सि ७-१ “डिड” “डित्यन्त्य०” १० द्विपदमिदं० । प्रक्रिया स्पष्टा ॥ ५८ ॥ हकारान्तानामेव विशेषमाह -सूत्रम् -
हो पदान्ते ॥ ५९ ॥ [ सि० २१८२ ]
घुटि प्रत्यये पदान्ते च हो ढः स्यात् । मधुलिह मधुलिट् । मधुलिहौ । मधुलिभ्याम् ३ । मधुलित्सु । मधुलिट्सु ॥ ५९ ॥
" लोकात् " "सो रुः "
1
हो धुटू० । हू ६- १ पदस्य अन्तः पदान्तः धुट् च पदान्तश्च धुट्पदान्तः १५ तस्मिन् धुट्पदान्त ७ - १ " अवर्णस्ये ० " । मध्ये "घोषवति” “अवर्णस्ये ०" । द्विपदमिदं० । " द्वन्द्वान्ते" इति न्यायात् उभयत्रापि सप्तमी सम्बध्यते इत्यादि । धुटि प्रत्यये इत्यादि । 'लिहंकू आस्वादने' मधु २ - १ लेढीति किप् "अप्रयोगीत्" "ङस्युक्तं कृता" इति समासः मधुलिहू १-१ इति स्थिते अनेन हस्य ढत्वे “धुटस्तृतीयः” “विरामे वा” मधुलिड् मधुलिट् । शेषं स्पष्टम् । पर्णगुहूशब्दः किबन्तः प्राग्वत् पर्णगुह् १-१ इति स्थिते अनेन हस्य ढत्वे चतुर्थान्तत्वात्पदत्वाच्च " गडदबादेः ०" गस्य घत्वे पर्णघुड् २ | एवं २० “ नामसिद ० " इति पदसंज्ञायां पर्णघुभ्यामित्यादि । यत्र च स्वरादौ पदसंज्ञा नास्ति तत्र अनेन ढत्वं “गडदबादेः०” इति घत्वं च न भवति - पर्णगुहौ पर्णगुहः इत्यादि । धुप्रत्ययस्योदाहरणं तु लीढः लेढा इत्यादि क्तप्रत्यये श्वस्तनीताप्रत्यये च ज्ञेयम् ॥ ५९ ॥ पुनरपि हकारान्तेष्वेव विशेषमाह सूत्रम् - भ्वादेर्दादेर्घः ॥ ६० ॥ [ सि० २२११८३ ]
स्वादेर्धातोर्यो दादिरवयवस्तस्य धुटि परे प्रत्यये पदान्ते च हो घः स्यात् । " गडदचादे १० " २५ इति धत्वे गोधु गोधुक् ॥ ६० ॥
भ्वादे० । भूरादिर्यस्य स भ्वादि:, तस्य भ्वादि ६-१ "ङित्यदिति” “एदोद्ध्यां०" । द आदिर्यस्य स दादिः तस्य दादि ६-१ " ङित्यदिति” “एदोद्ध्यां०” । घ १-१ “सो रुः” “रः पदान्ते ०" । त्रिपदमिदं सूत्रम् । गां दोग्धीति गोदुहूशब्दः कियन्तः प्राग्वत् । अनेन हस्य घत्वे “गडदबादेः०” इति दस्य धत्वे गोधुग् २ । स्वरादौ तु नोभयं प्राप्नोतीति गोदुहौ इत्यादि । सुपि तु अनेन हस्य घत्वे "गडदबादेः०” इति दस्य धत्वे “अघोषे प्रथमोऽशिटः” इति घस्य कत्वे “नाम्यन्तस्था०” इति सस्य षत्वे ३१ षसंयोगे क्षः गोधुक्षु ॥ ६० ॥ पुनरपि हकारान्तेष्वेव विशेषमाह -सूत्रम् -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org