________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे व्यञ्जनान्ताः पुंल्लिङ्गाः । सकारान्ताः १४३ त्वसः सौ” दीर्घ अत्यदाः अत्यदसौ अत्यदसः इत्यादि सुवचस्शब्दवत् रूपनयः ॥ ५२ ॥ अदस् १-२ इति स्थिते "आद्वेरः” इति सस्य अत्वे "लुगस्या०" "लोकात्" अद औ इति स्थिते सूत्रम्
"मोऽवर्णस्य" ॥ ५३॥ [सि० २११४५] अवर्णान्तस्यादसो दो म् स्यात् । अमौ इति जाते ॥ ५३॥ । मोऽव० । म १-१ “सो रुः” । अवर्ण ६-१ "टाङसो.” । मध्ये "अतोति." "अवर्णस्ये."५ "एदोतः पदान्ते०" । द्विपदमिदं सूत्रम् । अनेन दस्य मत्वे “ऐदौत्सन्ध्यक्षरैः" अमौ इति जाते ॥ ५३ ॥ सूत्रम्
मादुवर्णोऽनु ॥ ५४॥ [ सि० २१।४७] अदसो मः परस्य वर्णस्य उवर्णः स्यात् । हस्वस्थाने हस्खो दीर्घस्थाने दीघः । अनु पश्चात्कार्यान्तरेभ्यः ॥५४॥ अमू । सर्वादित्वाजस इः । अमे इति जाते। ___ मादु० । म ५-१ "डेङस्योर्यातौ” “समानानां.” । उवर्ण १-१ "सो रुः" । अनु १-१ "अव्ययस्य" । मध्ये "धुटस्तृतीयः" "अतोऽति." "अवर्णस्ये." "एदोतः०" । त्रिपदमिदं सूत्रम् । औकारस्य दीर्घत्वात् दीर्घउकारः अमू । एवं द्वितीयावचनेऽपि ॥ ५४ ॥ एवं अम् जस् इति स्थिते "जस इ." "अवर्णस्ये.” अमे इति जाते सूत्रम्
___ बहुष्वेरीः ॥ ५५॥ [सि० २११४९ ] बहुवचनान्तस्यादस एरीः स्यात् । अमी ॥ ५५ ॥ हे असौ । अमुम् । अमू । अमून् । अम टा इति स्थिते ।
बहु० । बहु ७-३ "नाम्यन्तस्था०" । ए १-१ “सो रुः" । ई १-१ "सो रुः" "र: पदान्ते."। मध्ये "इवर्णादे"। त्रिपदमिदं सूत्रम् । अमी ॥ ५५ ॥ द्वितीयैकवचने "समानादमोऽतः" इत्यकारलोपे "मादुवर्णोऽनु" अमुम् । द्वितीयाबहुवचने “शसोऽता०" अमान् इति स्थिते "मादुवर्णोऽनु" इति २० दीर्घाकारः अमून् । तृतीयैकवचने अम टा इति स्थिते "टाङसोरिनस्यौ” इति सूत्रे प्राप्ते "मादुवर्णोऽनु" इति सूत्रस्थस्य अनु इत्यस्यावयवस्यापवादः सूत्रम्
प्रागिनात् ॥ ५६॥ [ सि० २।१।४८] __ अदसो मः परस्य वर्णस्य इनादेशात्प्रागुवर्णः स्यात् । अमुना ॥ ५६ ॥ अमूभ्याम् । "इदमदसोऽक्येव" इति नियमाद्भिस ऐस्त्वाभावे "एबहुस्भोसि" इत्येत्वे "बहुव्वेरीः" अमीभिः । २५ अम-स्मै इति जाते "मादुवर्णोऽनु" अमुष्मै । अमूभ्याम् । अमीभ्यः अमुष्मात् । अमुष्य । अमुयोः २ । अमीषाम् । अमीषु ।
प्रागि० । प्राक् १-१ "अव्ययस्य" । इन ५-१ डेङस्यो०” “समानानां०” । मध्ये 'धुटस्तृतीयः" । द्विपदमिदं० । एतत्सूत्राकरणे अनु पश्चात्कार्यान्तरेभ्य इति वचनात् पूर्व "टाङसोः” इति इनादेशे अमे इति जाते पश्चान् "मादुवर्णोऽनु" इत्यूकारे कृते अमून इत्यनिष्टं रूपं स्यात्ततः पूर्वमनेन ३० सूत्रेण उकारे पश्चात् "टः पुंसि ना” अमुना ॥ ५६ ॥ तृतीयाद्विवचने "अत आः स्यादौ०” इति आत्वे "मादुवर्णोऽनु" अमूभ्याम् । एवं चतुर्थीपञ्चमीद्विवचनयोरपि । अमीभ्यः अमीषु इत्यत्र "एदहुस्भोसि" इत्येत्वे "बहुष्वेरीः" । शेषं स्पष्टम् ।
३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org