________________
१४२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु"अनादेशादेरेकव्यञ्जनमध्येऽतः" (४।१।२४) इत्येत्वं ततः पेचिवांसौ २ । यत्र च शसादिस्वरादौ कस उपादेशस्तत्र कसोय॑ञ्जनादित्वाभावात् 'निमित्ताभावे नैमित्तिकस्याप्यभाव' इति इटोऽपि निवृत्तिः । पेचुषः पेचिवद्भ्याम् इत्यादि ॥ ४९ ॥ सकारान्तेष्वेव विशेषमाह उदित्पुंसूशब्द इति । 'पांक रक्षणे' पातीति पुमान् “पातेईम्सुः" इति डुम्सुप्रत्ययः । डकारोकारावनुबन्धौ पुम्स् १-१ इति ५ स्थिते सूत्रम्
पुंसोः पुमन्स् ॥ ५०॥ [ सि० १।४।७३ ] घुटि । पुमान् । पुमांसौ । हे पुमन् । पुंसा । "पदस्य" इति सलोपे पुंभ्याम् । पुंसि । दोस्शब्दस्य खरादौ पत्वं व्यञ्जनादौ च रुत्वम् । दोः । दोषौ २ । हे दोः । शसादौ स्यादौ वा
दोषन्नादेशे दोष्णः दोषः । दोष्णा दोषा । दोाम् दोषभ्याम् , ३ । दोष्णि दोषणि दोषि । १० दोष्षु । उशनस्शब्दस्य "ऋदुशनस्०" सेर्डा । उशना । उशनसौ ॥५०॥
पुंसोः । पुम्सु ६-१ "डित्यदिति” “एदोड्यां०" "रः पदान्ते" पुमन्स् १-१ “दीर्घड्याब" द्विपदमिदं० । घुटि इत्येतावान् वृत्यंशः सूत्रवृत्त्यंशयोर्योगेऽर्थः स्पष्टः ततो “नि दीर्घः” इति दीर्घ पुमान् “शिड्हेऽनुस्वारः” इत्यनुस्वारे पुमांसौ इति । शेषघुटभावात् सम्बोधने सौ दीर्घाभावः हे पुमन् इति ॥ ५० ॥ दोसूशब्दः स्पष्टः पुंन्नपुंसकलिङ्गश्च 'दोस्तित उः इत्यादि लिङ्गानुशासनवचनात् । १५ उशनसूशब्दोऽप्येवं किन्तु सम्बोधने सौ विशेषमाह सूत्रम्
वोशनसो नश्चामत्र्ये सौ ॥ ५१॥ [सि० १।४।८०] उशनसः सम्बोधने नलुकौ वा स्याताम् । हे उशनन् । हे उशन हे उशनः । पुरुदंशा । पुरुदंशसौ । अनेहा । अनेहसौ । हे पुरुदंशः । हे अनेहः ॥५१॥
वोश० । वा १-१ "अव्ययस्य” । उशनस् ६-१ "लोकात्" "सो रुः" । न १-१ “सो रुः” । च २०१-१ "अव्ययस्य" । आमव्यते इति आमन्त्र्यः तस्मिन् आमन्त्रय ७-१ "अवर्णस्ये.” । सि ७-१
"ङिडौँ” “डित्यन्त्य०" । मध्ये "घोषवति" "अवर्णस्ये०" चटते सद्वितीये” “समानानां०" । षट्पदमिदं सूत्रम् । उभयविकल्पे त्रैरूप्यम् । पुरुदंशसूअनेहसूशब्दो स्पष्टौ । तत्र वष्टीति उशना भार्गवः *"वष्टेः कनस्” 'वशक कान्तौं' इत्यस्मात् कनस् प्रत्ययो भवति । पुरुदंशतीति पुरुदंशा
इन्द्रः* "विहायस्सुमनस्पुरुदंशस्पुरुरवोऽङ्गिरसः” एते अस्प्रत्ययान्ता निपात्यन्ते । *"नत्र ईहेरेहेधौ च" २५ नपूर्वात् 'ईहि चेष्टायाम्' इत्यस्मात् अस्प्रत्ययो [भवत्यस्य ] च एह एधौ आदेशौ । न ईहते अनेहा काल इन्द्रः चन्द्रश्च ।। ५१ । अदसूशब्दस्य विशेषमाह अदस् १-१ इति स्थिते सूत्रम्
अदसो दः सेस्तु डौ ॥ ५२ ॥ [सि० २।१।४३] स्वसम्बन्धिसौ परे अदसो दः सः स्यात् । सेस्तु डौ । असौ असकौ । हे असौ । स्वसम्बन्धि इति किम् ? अत्यदाः॥५२॥ ३० अदसो० । अदस् ६-१ "लोकात्" “सो रुः" । द् ६-१ "लोकात्" "सो रुः" "रः पदान्ते."। सि ६-१ "ङित्यदिति" "एदोद्भ्यां०" । तु १-१ "अव्ययस्य" । डौ १-१ सूत्रत्वात् सिलोपः । मध्ये "चटते." । पञ्चपदमिदं सूत्रम् । अनेन सेडौँ आदेशे दकारस्य सत्वे "डियन्त्य.” अस्लोपे असौ
अकि प्रत्यये असकौ । यदा तु बहुव्रीह्यादिना अदस्शब्दो गौणीभूतस्तदा अन्यसम्बन्धिनि सौ परे ३४दकारस्य सत्वं सेडौँ च न भवति, "आढेरः" इत्यादीन्यपि सूत्राणि न प्राप्नुवन्ति, ततो "अभ्वादेर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org