________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे व्यञ्जनान्ताः पुंल्लिङ्गाः । सकारान्ताः
शिड्हेऽनुखारः॥४७॥[सि० १॥३॥४०] अपदान्तस्थानां म्नां शिटि हे च परेऽनुस्वारः स्यात् । श्रेयांसौ । हे श्रेयन् । श्रेयोभ्याम् । क्वसुप्रत्ययान्ता अप्येवम् । विद्वान् । विद्वांसौ । हे विद्वन् ॥४७॥
शिड्हे० । शिट् च हश्च शिड्हं तस्मिन् शिड्ड् ७-१ "अवर्णस्ये.” । अनुस्वार १-१ “सो रुः" "रः पदान्ते."। द्विपदमिदं० । अनेन नकारस्यानुस्वारे श्रेयांसौ श्रेयांस इत्यादि । "समहतोः" इत्यत्र ५ शेषे घुटीत्युक्तत्वात् सम्बोधने सौ दीर्घाभावः हे श्रेयन् । “न्समहतोः” इत्यत्र महत्साहचर्यात् शुद्धधातोः क्किबन्तस्य न भवति-सुहिंसौ सुहिंसः, सुकंसौ सुकंसः इति । कसुप्रत्ययान्ता अप्येवमिति घुट्वचनेषु श्रेयस्शब्दवत् ज्ञेया इत्यर्थः । अघुटिं विशेषस्य वक्ष्यमाणत्वात् । 'विदक् ज्ञाने' वेत्तीति विद्वान् "वा वेत्ते कसुः” इति वर्तमानकाले कसुप्रत्ययः ॥ ४७ ॥ विद्वस् २-३ इति स्थिते सूत्रम्
कसुष्मतौ च ॥४८॥ [सि० २।१।१०५] णिक्यघुद्धर्जे यादौ खरादौ मतौ च क्वस उष् स्यात् । विदुषः । विदुषा ॥४८॥ कसु० । कस् १-१ उष् १-१ उभयत्रापि “दीर्घड्याब्०”। मतु ७-१ "डिडौँ” "डित्यन्त्य०" "लोकात्"। च १-१ "अव्ययस्य” | त्रिपदमिदं सूत्रम् । चकारेण णिक्यघुटुर्जे यकारादौ च प्रत्यये इत्यनुकृष्यते । मतौ इति तु साक्षादेव सूत्रे उक्तम् । अत एषु परेषु कस् उष् स्यात् । ततः शसादौ स्वरे अनेन उषादेशे विदुषः इति । यकारादिप्रत्ययस्योदाहरणं तु विदुषि साधुर्विदुष्यः “तत्र साधौ” इति यप्रत्यये अनेन १५ उपादेशः । एवं विद्वानस्यास्तीति "विदुष्मान्" "तदस्यास्त्यस्मिन्निति.” मतौ कस उष् । णिक्यघुटुर्जनात् विद्वांसमाचष्टे "णिज्बहुलम्" णौ उषादेशो न भवति । ततः "ध्यन्त्यस्वरादेः" इत्यन्त्यस्वादिलोपे विद्वरयति विद्वांसमिच्छति विद्वस्यति “अमाव्ययात् क्यन् च” इति क्यन्प्रत्ययः अत्रापि उष् न भवति । विद्वस् १-३ इति स्थिते "ऋदुदितः" "न्समहतोः” विद्वांसः । अत्रापि उष् न भवति ।। ४८ ॥ विद्वस् ३-२ इति स्थिते सूत्रम्
स्रंसूध्वंसूक्कस्सनडुहो दः॥४९॥ [सि० २११६८] संस्ध्वंसोः कस्प्रत्ययान्तस्थानडुहश्च पदान्ते दः स्यात् । विद्वद्भ्याम् । विद्वत्सु । उदित्पुंस्शब्दः ॥४९॥
संस् । कस् चासौ स् च कस्स् । संस् च ध्वन्स् च कस्स् च अनडुङ् च स्रन्सूध्वन्स्क्कस्सनडुह् तस्य सन्सध्वन्स्क स्सनडुङ् ६-१ "लोकात्" "सो रुः” । द १-१ “सो रुः" "र: पदान्ते." । मध्ये २५ "घोषवति" "अवर्णस्ये०" । द्विपदमिदं सूत्रम् । अनेन सस्य दत्वे विद्वद्भ्याम् ३ विद्वद्भ्यः २ । विद्वत्सु । कस्सिति द्विःसकारस्य पाठात् सकारान्तस्यैव च कस्प्रत्ययान्तस्य पदत्वं स्यान्नान्यस्य तेन विद्वान् इत्यस्य प्रथमैकवचने निष्पन्नस्य नकारान्तस्य पदान्ते सत्यपि दत्वं न स्यात् । क्लीबे गौणत्वे प्रियविद्वद् २ प्रियविदुषी २ प्रियविद्वांसि कुलानि सन्ति पश्य वा । स्त्रियां गौणत्वे ङ्यां प्रियविदुषी । सन्मभ्रन्शोस्वेवम् । 'भ्रन्शूछ सन्सूङ अवस्रंसने' 'ध्वन्सूङ गतौ च' उखया संसते, पर्णानि ध्वंसते इति विप् “नो ३० व्यञ्जनस्यानुदितः" इति नलोपे उखास्रम् पर्णध्वस् । अनेन दत्वे उखासद् २ पर्णध्वद् २ उखास्रसौ पर्णध्वसौ उखास्रसः पर्णध्वसः उखासद्भ्याम् पर्णध्वद्भ्याम् उखासत्सु पर्णध्वत्सु हे उखासद् २ हे पर्णध्वद् २ इत्यादि । 'डुपची पाके' पधातुः पपाच इति वाक्ये अत्र "कसुकानौ तद्वत्” इति कसुप्रत्ययः स च परोक्षावत् इति "स्क्रऽमृवृभृस्तुद्रुश्रुस्रोर्व्यञ्जनादेः परोक्षायाः” (४।४।८१) इति इडागमः।३४
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org