________________
१४०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुस्थिते अनेन रत्वे "नाम्यन्तस्था०” इति सस्य षत्वम् । यदि चात्र सन्निपातलक्षणन्यायाद्रेफनिमित्ताज्जातः षकारो रेफविधाताय न स्यादित्याश्रीयते तदा सजूए । अस्य न्यायस्यानित्यत्वात् "शषसे शषसं वा" इति रेफस्य षत्वे सजूष्षु पक्षे विसर्गे सजूःषु इति त्रैरूप्यम् । हे सजूः । हे सजुषौ इति । सजूमित्रमित्यर्थः ।। ४५ ॥ षष्शब्दो नित्यं बहुवचनान्त इति मुख्यतयेत्यर्थः । षष् १-३ षष् २-३ इति ५स्थिते "डतिष्णः०" इति जस्शस्लुपि "धुटस्तृतीयः” इति षस्य डत्वे षड् २ "विरामे वा" षट् २
"नामसिद०” इति पदत्वे षड्भिः षड्भ्यः २ षड् ७-३ इति स्थिते “सङ्ख्यानां र्णाम्" इत्यामो नामादेशे "धुटस्तृतीयः” इति षस्य डत्वे तृतीयस्य पञ्चमे इति डस्य णत्वे "तवर्गस्य श्ववर्ग०" इति नस्य णत्वे षण्णाम् इति । षड्त्सु षट्सु । हे षड् , २ इति । गौणत्वे तु सर्वाण्यपि विभक्तिवचनानि सम्भवन्ति-प्रियाः
षट् यस्य ययोर्येषां वा प्रियषष् १-१ "दीर्घङयाब्०" "धुटस्तृतीयः" प्रियषड् २ प्रियषषौ प्रियषषाम् १० हे प्रियषट् इत्यादि । अथ सकारान्ताः शब्दा उच्यन्ते-सुवचसूशब्द इति शोभनं वचो यस्य स
सुवचाः । शेषं स्पष्टम् । सकारान्तेष्वेव विशेषमाह-'डुकंग करणे कृधातुः कर्तुमिच्छति "तुमहोदिच्छायाम् सन्नतत्सनः" इति सन्प्रत्ययः "स्वरहनगमोः सनि धुटि” इति दीर्घ क स इति स्थिते *"नामिनोऽनिट्" नाम्यन्ताद्धातोरनिट्सन् किद्वद् भवति इति सनः कित्वे "ऋतां वितीर" "भ्वादे
र्नामिनो दीर्घो वोर्व्यञ्जने” इति दीर्घे कीर् स इति स्थिते “सन् यङश्च” इति की इति द्वित्वं "हस्वः'' १५ इति पूर्वस्य ह्रस्वत्वं "कङश्चम्” इति कस्य च: "नाम्यन्तस्था.” इति सस्य षः चिकीर्ष इति जाते चिकीर्षतीति कि "अतः" इति अलोपः "अप्रयोगीत्” इति विप्लोपः । *"णषमसत्परे स्यादिविधौ च" [सि. १६०] इतः सूत्रादारभ्य यत्परं कार्य विधास्यते तस्मिन् पूर्वस्मिंश्च स्याद्यधिकारविहिते विधौ कर्त्तव्ये णत्वं षत्वं वाऽसदसिद्धं द्रष्टव्यम् । एतत्सूत्रनिर्दिष्टयोश्च णत्वषत्वयोः परे षत्व
णत्वमसद्रष्टव्यम् । णषशास्त्रं वा परे स्यादिविधौ च शास्त्रे प्रवर्त्तमानेऽसद्रष्टव्यम् । इति सलोपे कर्त्तव्ये २० षत्वं असत् जातं ततः चिकीर् सू १-१ इति स्थिते सूत्रम्
रात्सः ॥ ४६॥ [ सि० २।११९०] पदस्य संयोगान्तस्य यो रस्ततः परस्य सस्यैव लुक् स्यात् । चिकीर्षतीति चिकीः । चिकीर्षों । चिकीर्ष्याम् । चिकीर्षु । हे चिकीः ॥ ४६ ॥ उकारानुवन्धः श्रेयसूशब्दः । "ऋदुदितः"
इति नुमागमे "न्सहतोः" इति दीर्थे च श्रेयान् । २५ रात्सः। र ५-१ "डेङस्योर्याती" "समानानां." । स् ६-१ "लोकात्" "सो रुः" "र: पदान्ते०"। द्विपदमिदं सूत्रम् । अनेन सलोपे रेफस्य "र: पदान्ते०५ इति विसर्गे चिकीः । स्वरादौ सर्वत्र "लोकात्" चिकीर्षों चिकीर्ष इत्यादि । एवं कटं चिकीर्षतीति कटचिकीः कटचिकीर्षों इत्यादयोऽपि ज्ञेयाः । “पदस्य” इति सलोपे सिद्धे "रात्सः" इति सूत्रं प्रारभ्यते इति नियमसूत्रमेतत् ततो
रात्परस्य सस्यैव लुक् स्यात् नान्यस्येति नियमात् 'ऊर्जण् बलप्राणनयोः' ऊर्जयतीति अर्क् अत्र रात्परस्य ३० कस्य “पदस्य" इत्यनेनापि लोपो न भवति । रादेव सस्येति तु विपरीतनियमः "पुंवत्कर्मधारये" इति निर्देशान्न ॥४६॥ उकारानुषन्धो श्रेयसूशब्द इति प्रशस्योऽयं प्रशस्यः अयमनयोर्मध्येऽतिशयेन प्रशस्य इति विग्रहे "गुणाङ्गाद्वेष्ठेयसू” इति सूत्रेण प्रशस्यशब्दात् ईयसुप्रत्यये "प्रशस्यस्य श्रः" इति
सूत्रेण प्रशस्यशब्दस्य श्रादेशे श्रेयसूशब्दसिद्धिः । अथ प्रथमाद्विवचनादौ श्रेयान् औ इत्यादिषु स्थितेषु ३४ सूत्रम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org