________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे व्यञ्जनान्ताः पुंल्लिङ्गाः । शकारान्तादयः १३९ तादृग् इत्यादि । सहगादयोऽप्येवमिति समान इव दृश्यते इति सदृग् "दृग्दृशक्षे(३।२।१५१) इति समानस्य सः । शेषं प्राग्वत् । आदिशब्दग्रहणात् अन्य इव दृश्यते इति अन्यादृक् "अन्यत्यदादेराः” इत्यात्वम् । एवं त्यादृक् यादृक् । असाविव दृश्यते इति अमूहक्-अदस् दृश् "आढेरः" "लुगस्या०” “मोऽवर्णस्य" ततो "अन्यत्यदादेराः” इत्यात्वे "मादुवर्णोऽनु" इति दीर्घउकारः अमूदृक् । अयमिव दृश्यते क इव दृश्यते इति इंगू कीडग् “इदंकिमोऽतु०” इति इदंकिमोरीकी ५ आदेशौ । एष इव दृश्यते एतादृक् । यूयमिव दृश्यते युष्मादृग् । त्वमिव दृश्यते इति त्वाम् । वयमिव दृश्यते इति अस्मादृग् । अहमिव दृश्यते इति माग् । भवानिव दृश्यते इति भवादृक् इत्यादयः सर्वे ज्ञेयाः । घृत २-१ 'स्पृशत् आमर्शने' घृतं स्पृशतीति घृतस्पृग्-"स्पृशोऽनुदकात्” इति क्विम् । घृतस्पृक् , घृतस्पृग्भ्यामित्यादि प्राग्वत् ॥ ४२ ॥ शकारान्तेष्वेव विशेषमाह सूत्रम्
नशो वा ॥ ४३॥ [सि० २११७०] नशः पदान्ते ग् वा स्यात् । जीवनम् , जीवनक् । जीवनइ जीवनट् । जीवनशौ २ । जीवनग्भ्याम् जीवनभ्याम् । जीवनक्षु जीवनड्त्सु जीवनट्सु । षकारान्तो दधृष्शब्दः । दधृग् दधृक् । दधृषौ । दधृग्भ्याम् ३ ॥४३॥ ___ नशो० । नश् ६-१ "लोकात्” “सो रुः" । वा १-१ "अव्ययस्य" । मध्ये "घोषवति" "अवर्णस्ये." । द्विपदमिदं० । जीवस्य नशनं जीवनग् "भ्यादिभ्यो वा” इति किप अथवा जीवेन नश्य-१५ तीति किप अनेन विकल्पेन शस्य गत्वम् । पक्षे "यजसृज०” इति शस्य षत्वं "धुटस्तृतीयः" इति डत्वं जीवनडू । उभयत्रापि "विरामे वा" । कत्वे च टत्वे च जीवनक जीवनट् इति चातूरूप्यम् । अन्यत्रापि "नामसिद०" इति पदत्वे द्वैरूप्यम् जीवनग्भ्याम् जीवनड्भ्याम् । जीवनक्षु जीवनड्त्सु जीवनट्सु इति सुपि त्रैरूप्यम् ॥ ४३ ॥ अथ षकारान्ताः शब्दा उच्यन्ते 'बिधृषाट् प्रागल्भ्ये' धृष्णोतीति दधृष्-चतुरः पुमान् । अत एव ऋत्विजित्यादिसूत्रनिर्देशात् दधृष् इति रूपसिद्धिः । दधृष १-१ इति २० स्थिते अनेन षस्य गत्वे "विरामे वा” दधृक् । स्वरादौ तु लोकादित्येव दधृषौ इत्यादि । "नामसिद०" पदत्वे दधृग्भ्याम् ३ । दधृक्षु । षकारान्तेष्वेव विशेषमाह 'जुपैति प्रीतिसेवनयोः' सह जुषते इति सजूः किए "अप्रयो०” सजुष् १-१ इति स्थिते सूत्रम्
सजुषः ॥४४॥ [सि० २१७३] पदान्ते रुः स्यात् ॥ ४४ ॥
सजूष ६-१ "लोकात्” “सो रुः” “र: पदान्ते०" । एकपदमिदं सूत्रम् । अनेन षस्य रत्वे सजुर १-१ इति स्थिते ॥ ४४ ।। सूत्रम्
पदान्ते ॥ ४५॥ [सि० २।११६४ ] पदान्तस्थयो.देोः परयोस्तस्यैव नामिनो दीर्घः स्यात् । सजूः । सजुषौ । हे सजूः । सजूाम् । सजूर्षु ॥ ४५ ॥ षष्शब्दो नित्यं बहुवचनान्तः । षड् , षद् । षण्णाम् । षट्सु । प्रियषड् ३० प्रियपट । प्रियषषौ । सकारान्तः सुवचस्शब्दः । “अभ्वादेरत्वसः सौ" इति दीर्घ सुवचाः। सुवचसौ २ । सुवचोभ्याम् ३ । सुवचस्सु । हे सुवचः । एवं सुमनप्रभृतयः।
पदान्ते । पदस्य अन्तः पदान्तः तस्मिन् पदान्त ७-१ "अवर्णस्ये.” । एकपदमिदं सूत्रम् । अनेन दीर्घ सजूः । स्वरादौ "लोकात्" सजुषौ "नामसिद०” इति पदत्वे सजूामित्यादि । सजुष् सु इति ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org