________________
१३८
महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञ हैमलघु
अरोः० । न रुः अरुः तस्य अरु ६ - १ " ङित्यदिति” “एदोद्भ्यां०” “रः पदान्ते० " । सुप् ७-१ “लोकात् " । र १-१ " सो रु” “रः पदान्ते० " । त्रिपदमिदं सूत्रम् । र एव स्यादिति षत्वविसर्गत्वादिकं कार्यं न स्यादित्यर्थः । ततो “नाम्यन्तस्था ०" चतुर्षु । सम्बोधनेऽपि वादेशो भवति - हे चत्वारः । गौणतया तु सर्वाण्यपि विभक्तिवचनानि सम्भवन्तीति तत्रैवं रूपपद्धतिः - प्रियाश्चत्वारो यस्य ययोर्येषां ५वा स प्रियचत्वाः प्रियचत्वारौ २ । प्रियचत्वारः । प्रियचत्वारम् प्रियचतुरः प्रियचतुर्भ्याम् ३ | आमि प्रियचतुराम्-तत्सम्बन्धित्वाभावात् गौणत्वे आमो नाम् न भवति । प्राधान्ये तु स्यादेव परमचतुर्णाम् | प्रियचतुरि प्रियचतुर्षु ॥ ४० ॥ "वाः शेषे” इत्यत्र सूत्रे शेषे घुटीत्युक्तत्वात् सम्बोधने सौ वादेशो न भवतीति हे प्रियचतुर १-१ इति स्थिते सूत्रम् —
raisesच्चतुरो वः ॥ ४१
[ सि० १४८१ ]
१०
सम्बोधने सौ | हे प्रियचत्वः ॥ ४१ ॥ शकारान्तो विश्शब्दः । “यजसृज०" इति षत्वे । विड्, विट् । विशौ । विदत्सु, विट्सु । तच्चप्राङ्, तत्त्वप्राट् । तवप्राशौ २ |
"
,"
उतो० । उत् ६- १ “लोकात्" "सो रुः " अनड्रांश्च चतुर् च अनडुहचतुर् ६-१ स्रंस्ध्वंसकस्सनहो दः" इति हस्य दः “अघोषे प्रथमोऽशिट : " इति दस्य तः " तवर्गस्य ०" चः, ततो "लोकात् " " सो रुः " । व १-१ "सो रुः” “रः पदान्ते ०" । मध्ये “अतोऽति ०" "अवर्णस्ये ०" "एदोतः ० १५ ‘“घोषवति” “अवर्णस्ये ० " । त्रिपदमिदं सूत्रम् । अनेन उकारस्य वकारादेशे “दीर्घज्याब्०" सिलुकि "र: पदान्ते ० " हे प्रियचत्वः । हे प्रियचत्वारौ २ ॥ ४१ ॥ अथ शंकारान्ता उच्यन्ते । विशुशब्दः स्पष्ट एव । तत्त्वप्राडिति तत्त्व २-१ 'प्रच्छंत् ज्ञीप्सायाम् प्रच्छधातुः तत्त्वं पृच्छतीति किप् “ दिद्युद्दहजगज्जुहूवाक्प्राट् ०” इति प्राशू इति किबन्तो निपातः । "ङस्युक्तं कृता" इति समासे तत्त्वप्राशशब्दः । ततो "यजसृज ०" इति पत्वे “धुटस्तृतीयः” इति डत्वे तत्त्वप्राड् । “विरामे वा " तत्वप्राट् | तत्व२० प्राशौ “नामसिद ० " इति पदसंज्ञायां "यजसृज ०" इति षत्वे "घुटस्तृतीयः” इति डत्वे तत्त्वप्राभ्यामित्यादि । तत्वप्राडू सु इति स्थिते “डः सः त्सोऽश्वः” इति सादेशे तत्त्वप्रात्सु पक्षे तत्त्वप्राट्सु हे तत्त्वप्राट् इत्यादि । शकारान्तेष्वेव विशेषमाह तद् १-१ 'दृ प्रेक्षणे' दृश्धातुः स इव दृश्यते इति विग्रहे “त्यदाद्यन्यसमानादुपमानाद्व्याप्ये दृराष्ट्रक्सकौ च " ( ५।१।१५२ ) इति किप्प्रत्ययः "अप्रयोगीत्” इति किप्लोपः “खस्युक्तं कृता" इति समासः " ऐकार्थ्ये” इति विभक्तिलोपः " अन्य२५ त्यदादेराः” ( ३।२।१५२ ) इति दकारस्य आत्वे तादृशुशब्दः सिद्धः । ततश्च तादृशू १-१ इति स्थिते सूत्रम् —
ऋत्विदिश्दृश्स्पृश्त्रज्दधृष्उष्णिहो गंः ॥ ४२ ॥ [ सि० २|१|६९]
एषां पदान्ते गः स्यात् । तादृगु, तादृक् । तादृशौ २ । तादृग्भ्याम् ३ । सहगादयोऽप्येवम् । घृतस्पृग्, घृतस्पृक् । घृतस्पृशौ २ । घृतस्पृग्भ्याम् ३ ॥ ४२ ॥
३०
1
ऋत्वि० । ऋत्विज् च दिश् च दृश् च स्पृश् च स्रज् च दधृष् च उष्णिहू च ऋत्विजदिश्दृश्स्पृश्स्रुज्दधृष्उष्णिह् तस्य ऋत्विजदिश् दृशूस्पृशूत्रज्दधृष्उष्णिह् ६- १ “लोकात् " " सो रुः " ग १-१ "सो रु” “रः पदान्ते ०" । मध्ये "घोषवति” “अवर्णस्ये” । द्विपदमिदं सूत्रम् । अनेन शस्य गत्वे "विरामे वा " गस्य कत्वे रूपद्वयम् । “नामसिद०" इति पदत्वे तादृग्भ्याम् । सुपि अनेन शस्य गत्वे ३४ “अघोषे प्रथमोऽशिट : " इति गस्य कत्वे "नाम्यन्तस्था० " सस्य षत्वे कषसंयोगे क्षः तादृक्षु । हे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org