________________
महामहोपाध्यायश्रीविनय विजयगणिविरचिते खोपज्ञहैमलघु
इन् ङीखरे लुक् ॥ ३० ॥ [ सि० १ ४ ७९]
ङयामघुट्स्वरे च परे पथ्यादीनामिनो लुक् स्यात् । पथः । पथा । पथिभ्याम् । मन्थाः । मन्थानौ । मथः । ऋभुक्षाः । ऋभुक्षः ॥ ३० ॥ पञ्चनप्रभृतयो बहुवचनान्ताः नान्ताः सङ्ख्याशब्दाः त्रिषु लिङ्गेषु सरूपाः । “डतिष्णः ०" इति जस्ास्लुपि पञ्च । पञ्च । पञ्चभिः । पञ्चभ्यः २ । ५ इन्० । इन् १-१ “दीर्घङयाब्० " । ङीश्च स्वरश्च ङीस्वरं तस्मिन् ङीस्वर ७-१ " अवर्णस्ये ०" । लुक् १-१ “दीर्घङयाब्०” । द्विपदमिदं सूत्रम् । सूत्रे सामान्यतः स्वर उक्तोऽपि ङीसाहचर्यात् अघुट्स्वरोऽत्र ग्राह्यः । किमिदं साहचर्यमिति चेदुच्यते अव्यभिचारिणा यत्र व्यभिचारी नियम्यते तत्साहचर्यम् यथा स्वरः अघुट् घुट् च उभयथा भवतीति व्यभिचारी, ङी तु अघुट्स्वर एव भवतीति अव्यभिचारी, अव्यभिचारिणा ङया व्यभिचारी स्वरो नियम्यतेऽघुट्स्वर इति । तथा घुटि पध्यादीनामिनो विशेषविधि१० विधानादत्राघुट्खर एवावसीयत इत्यत आह-ङधामघुट्खरे इति । सूत्रे इन् लुक्रूपो भवतीति अभेदनिर्देशः “षष्ठ्यान्त्यस्य” इति परिभाषया नकारस्यैव लोपप्रसङ्गात् शसादिषु पथ इति तृतीयैकवचने पथा इति । व्यञ्जनादौ विभक्तौ परतः "नामसिद०” इति पदसंज्ञायां "नाम्नो नोऽनहः” इति लुक् ततश्च पथिभ्याम् पथिषु इत्यादि रूपसिद्धिः । शोभनाः पन्थानो यस्या इति “स्त्रियां नृत०” इति ङयाम् शोभनाः पन्थानो ययोः कुलयोस्ते "औरीः” इति जाते उभयत्रानेनेन्लुक सुपथी स्त्री सुपथी कुले वा । १५ यथा पथिन्शब्दस्तथा मथिन्शब्दोऽपि नात्र कश्चिद्विशेषः । ऋभुक्षिनशब्दोऽप्येवमेव किञ्चात्र थकाराभावात् न्थ आदेशो नास्तीति ततः ऋभुक्षाः इत्यादिरूपपद्धतिः, शंसादिषु इन्लोपे ऋभुक्षः इति । पन्थाः मार्गः मन्था मन्थदण्डः ऋभुक्षा इन्द्र इति ॥ ३० ॥ त्रिषु लिङ्गेषु सरूपा इति 'पुमांसः पश्च' 'स्त्रियः पश्र्च' 'कुलानि पच' इति त्रिष्वपि लिङ्गेषु रूपे विशेषाभावात् समानरूपा इति एषां लिङ्गाभावात् “नन्तासङ्ख्या ढतिर्युष्मदस्मच्च स्युरलिङ्गक” इति वचनात् पचन् ६-३ इति स्थिते सूत्रम् -
२०
१३४
सङ्ख्यानां र्णाम् ॥ ३१ ॥ [ सि० १|४|३३]
रखनान्तानां सङ्ख्यावाचिनां स्वसम्बन्धिन आमो नाम् स्यात् । “दीर्घो नाम्यतिसृचतसृष्टः " इति दीर्घे । “नाम्नो नोऽनह्नः" इति नलोपे पञ्चानाम् । स्वसम्बन्धिन इत्येव । प्रियपञ्चाम् । पञ्चसु । प्रियपञ्चादयो राजन्वत् । एवं सप्तन्प्रभृतयः ॥ ३१ ॥
सङ्ख्या० । सङ्ख्या ६-३ " ह्रस्वापश्च" र् च न् च ष् च वर्ण तेषां ६-३ "लोकात् " द्विपदमिदं २५ सूत्रम् । अनेन आमो नामादेशे पचन् नाम् इति स्थिते “दीर्घो नाम्य ० " इति दीर्घः । ननु " दीर्घो नामीति सूत्रे समानस्य नामि परे दीर्घः स्यादित्युक्तं ततो देवानामित्यत्र भवतु दीर्घः परं पञ्चन् नाम् इत्यत्र तु कथं दीर्घो निमित्तनिमित्तिनोर्नकारेण व्यवधानादित्यत्रोच्यते, “दीर्घो नामी "ति सूत्रे अतिसृचतसृष्ट इति निर्देशात्, अन्यथा षण्णां चतुर्णां इत्यत्रापि षकाररकारव्यवधानादेव दीर्घनिषेधसिद्धेरत्र षरवर्जनं व्यर्थं स्यात्, प्राप्तिपूर्वको हि निषेध इति ततो "येन नाव्यवधानं तेन व्यवहितेऽपि ३० स्यादि”ति न्यायोऽनेन सूत्रांशेन ज्ञाप्यते, ततः पञ्चन् नाम् इत्यत्र दीर्घो भवति । ततो “नामसिद्०” इति पदसंज्ञायां "नाम्नो नोऽनह्नः” इति नलोपे पचानामिति सिद्धम् । पञ्चादीनां गौणत्वे तु सर्वाण्यपि वचनानि सम्भवन्तीत्याह प्रियपादयो राजन्वदिति प्रियाः पञ्च यस्य ययोर्येषां वा स प्रियपञ्चा प्रियपञ्चानौ प्रियपञ्चानः इत्यादि । शसादिषु " अनोऽस्य" इत्यलोपे " तवर्गस्य चवर्ग ०" इति नस्य नत्वे ३४ प्रियपञ्चः इत्यादि ।। ३१ ।। अष्टन्शब्दस्य विशेषमाह-सूत्रम् -
I
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org