________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे व्यञ्जनान्ताः पुंल्लिङ्गाः । नकारान्ताः १३३ श्वन्० । श्वा च युवा च मघवा च श्वनयुवनमघवा तस्य श्वन युवनमघवन् ६-१ । अनेन व उ: "सो रुः" न घुट् अघुट् अघुट्चासौ स्वरश्च अघुट्स्वरः । सिरादिर्यस्य स स्यादिः स्यादेरघुटस्वरः स्याद्यघुट्स्वरः । डी च स्याद्यघुटस्वरश्च ङीस्याद्यघुट्खर ७-१ "अवर्णस्ये०" । व ६-१ "लोकात्" "सो रुः” । उ १-१ “सो रुः" "र: पदान्ते." । मध्ये "घोषवति" "अवर्णस्ये.” "रोर्यः” “स्वरे वा" तस्य लोपः । चतुष्पदमिदं सूत्रम् । धुवचनपश्चके राजन्शब्दवत्प्रक्रिया । ततः शसादौ स्वरे श्वन्-५ शब्दे अनेन वस्य उत्वे शुनः शुना इत्यादि । युवनशब्दे वस्य उत्वे "समानानां ०” इति दीर्घ यूनः यूना इत्यादि । मघवन्शब्दे वस्य उत्वे "अवर्णस्ये०” मघोनः मघोना इत्यादि । ननु मघवता इत्यादि प्रयोगाः कथं सिद्ध्यन्ति इत्याशझ्याह-मघवत्शब्दस्तु मत्त्वन्त इति मघो ज्ञानं सुखं वाऽस्यास्तीति व्युत्पत्तेः । ज्यामिति "जातेरयान्त.” इति डथाम् अनेन वस्य उत्वे शुनी । युवानमतिक्रान्ता स्त्री "त्रियां नृत.” इति ज्यां अतियूनी । मघोनः स्त्री "धवाद्योगादपालकान्तात्" इति ज्यां मघोनी ।१० एवं प्रियशुनी प्रिययूनी प्रियमघोनी कुले इति । अघुट्खर इति किम् ? प्रियश्वानि कुलानीत्यत्र वस्योत्वं न भवति । स्याद्यघुट् इति किम् ? केवलमघुटखरे इत्युक्ते शुन इदं यून इदं मघोन इदं “तस्येदम्" (६।३।१६०) इत्यणि वस्य उत्वं प्राप्नोति अणोऽप्यघुट्स्वरत्वात् , ततः स्यादिग्रहणं "यवः पदान्तात् प्रागैदौत्" (७४।५) इति शकारवकारयोर्मध्ये औकारागमे अणि अनन्त्यस्याण्यन्त्यस्वरादेलृग् न स्यादिति नलोपाभावे शौवनं यौवनं माघवनमिति ॥ २६ ॥ पुनरपि नकारान्तेष्वेव विशेषमाह-सूत्रम्- १५
पथिन्मथिन्ऋभुक्षः सौ ॥ २७ ॥[ सि० १४७६] पथ्यादीनां नान्तानामन्तस्य सौ परे आः स्यात् । इति नकारस्य आत्वे ॥ २७ ॥ पथि० । पन्था च मन्था च ऋभुक्षा च पथिन्मथिनऋभुक्षा तस्य पथिन्मथिन्ऋभुक्षिन् ६-१ "इन् डीस्वरे लुक्” इति इन्लुकि “लोकात्" "सो रुः" "र: पदान्ते." । सि ७-१ "डिडौँ" "डित्यन्त्य०" "लोकात्" । द्विपदमिदं सूत्रम् । नान्तानामिति पन्थानमिच्छति क्यनि नलोपे २० पथीयतीति किपि पथीः पथ्यौ पथ्यः पथ्यम् इत्यादि, अत्र नान्तत्वाभावादेतत्सूत्रोक्तो विधिन भवतीति । पथिन् १-१ इति स्थिते अनेन नकारस्य आत्वे पथि आ १-१ इति स्थिते ॥ २७ ॥ सूत्रम्
___एः॥२८॥ [सि० ११४७७] पथ्यादीनामिकारस्य घुटि परे आः स्यात् । पथा इति जाते ॥ २८॥
एः । इ.६-१ "कित्यदिति" इकारस्य एत्वम् “एदोद्भ्यां ङसिङसोरः" "र: पदान्ते.” । एकपदमिदं २५ सूत्रम् । घुटि परे अनेन इकारस्य आत्वे "समानानां०" इति दीर्घ पथा १-१ इति स्थिते सूत्रम् ।। २८॥
- थो न्थ् ॥ २९॥ [सि० ११४७८] पथिन्मथिनोर्नान्तयोस्थस्स घुटि परे न्यू स्यात् । पन्थाः । पन्थानौ । पन्थानः । हे पन्थाः ॥२९॥ _थो० । ६-१ "लोकात्" "सो रुः"।न्थ् १-१ "दीर्घडयाब" मध्ये "घोषवति' "अवर्णस्ये."।३० द्विपदमिदं० । अनेन थकारस्य न्थादेशे “सो रुः" "र: पदान्ते." पन्थाः । सम्बोधनेऽपि न कश्चिद्विशेष इति दर्शयति हे पन्थाः । घुटि परे इति सुपथी बहुमथी कुले इत्यत्र "औरीः” इतीकारस्य घुट्वाभावात्सूत्रद्वयोक्तो विधिन भवति ॥ २९ ॥ शसादिखरे परे विशेषमाह-सूत्रम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org