________________
१३२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुसामान्यतो ग्रहणात् दण्डिन् इत्यादयो यथा मत्त्वर्थीयेन्नन्ता गृह्यन्ते तथा उष्ट्रकोशी साधुकारी इत्यादयः कृदन्तीयणिन्प्रत्ययान्ता अप्यत्र प्रामाः । इन्नन्तानभिधाय हनादीनाह-वृत्र २-१ 'हनंक् हिंसागत्योः' वृत्रं दैत्यं हतवान् *"ब्रह्मभ्रूणवृत्रात् किप्" (५।१११६१) एभ्यः कर्मभ्यः पराभूतार्थाद्धन्तेः किप् स्यात् । "अप्रयोगीत्" किप्लोपः वृत्रहन १-१ अनेन दीर्थे “दीर्घजयाब्०" "नानो नो." ५वृत्रहा ॥ २२ ॥ वृत्रहन् १-२ इति स्थिते, अत्र "रघुवर्णान्नो ण एकपदे.” इत्यादि सूत्रेण णत्वं न प्राप्नोति समासान्तर्गतविभक्त्या भिन्नपदत्वेन रकारनकारयोनिमित्तनिमित्तिनोरेकपदस्थितत्वाभावात्ततोऽत्र णत्वविधानाय सूत्रम्
कवर्गकखरवति ॥ २३ ॥ [ सि० २२३७६ ] पूर्वपदस्थाद्रादेः परस्य कवर्गवत्येकवरवति चोत्तरपदे नो णः स्यात् । न चेदसौ पकस्य । १० वृत्रहणौ ॥ २३ ॥
कव० । कस्य वर्गः कवर्गः एकश्चासौ स्वरश्च एकस्वरः कवर्गश्च एकस्वरश्च कवगैंकस्वरम् कवर्गकस्वरमस्सास्तीति कवगैकखरवत् तस्मिन् कवर्गकस्वरवत् ७-१ "लोकात्" । एकपदमिदं सूत्रम् । उत्तरपदे इति यथोक्तविशेषणविशिष्टे उत्तरपदे सति उत्तरपदान्तस्य तथा नागमस्य स्यादेश्च नस्य णः स्यादित्यर्थः ।
न चेदसौ पकस्येति क्षीरपकेन इत्यत्र णत्वं न स्यादित्यर्थः । कवर्गवत्युत्तरपदे इत्यस्योदाहरणं स्वर्ग१५ गामिणौ, उत्तरपदान्तस्य नस्य णः स्यादित्यस्याप्येतदेवोदाहरणम् । नामस्योदाहरणं क्षीरपाणि स्वर्गकामाणि कुलानीति । स्यादेनकारस्योदाहरणम् उर:केण गुरुमुखेण पुष्पमेघाणामित्यादि । पुरोगान् परममृगानित्यत्र तु अनन्त्यस्येत्यधिकारान भवति ॥२३॥ वृत्रहन् २-३ इति स्थिते "अनोऽस्य" इति अल्लोपे, सूत्रम्
हनो हो नः॥ २४ ॥ [ सि० २१११११२ ] हन्तेहो नः स्यात् ॥ २४ ॥ २० हनो० । हन् ६-१ "लोकात्" "सो रुः" । ह च न च ह तस्य हू ६-१ "लोकात्" “सो रुः"।
घ्नः १-१ "सो रुः" "रः पदान्ते." । मध्ये उभयत्र "घोषवति" "अवर्णस्ये." । त्रिपद मिदं० । इति मध्यगतस्याकारस्य लोपे हकारनकारसंयोगस्येत्यर्थः ॥ २४ ॥ वृत्रघ्न इत्यादी भूतपूर्वकन्यायेन एकखरत्वात् "कवर्गकखरवति" इति णत्वे प्राप्तेऽपवादसूत्रम्
हनो घि ॥२५॥ [ सि० २।३।९४ ] २५ हनो घकारे निमित्तनिमित्तिनोरन्तरे सति नो णो न स्यात् । वृत्रघ्नः । वृत्रनि वृत्रहणि ।
॥ २५ ॥ पूषा । पूषणौ । पूष्णि, पूषणि । अर्यमा । अर्यमणौ । अर्यम्णः । इत्यादि । ___ हनो० । सूत्रं स्पष्टम् । “ईडौ वाइति अल्लोपे वृत्रनि तदभावे पूर्वसूत्रेण णत्वे वृत्रहणि ॥ २५ ॥ एवं पूषन्शब्दोऽपि पूषणौ इति "रघुवर्णा०" इति णत्वम् । एवं अर्यमनशब्दोऽपि । पुनरपि नकारा
न्तेष्वेव विशेषमाह सूत्रम्३० श्वन्त्वन्मघोनो ङीस्याद्यघुट्खरे व उः॥ २६ ॥ [ सि० २।१।१०६ ]
ड्यां स्थायघुटखरे च श्वनादीनां व उ: स्यात् । श्वा । श्वानौ । श्वानः । हे श्वन् । शुनः । __ शुना । युवा । युवानौ । हे युवन् । यूनः । मघवा । मघवानौ । मघोनः । हे मघवन् ॥२६॥ ३३मघवत्शब्दस्तु मत्वन्तः। मघवान् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org