________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे व्यञ्जनान्ताः पुंल्लिङ्गाः । नकारान्ताः
१३१
मनसिकृत्याह असदधिकारविहितस्येत्यादि । "ईङौ वा " ( २।१।१०९) इति राज्ञि राजनि । “नि दीर्घः” इति सूत्रे शेषघुटि परे इत्युक्तेस्तत्र सम्बोधनसेरप्रवेश इत्यत आह-सम्बोधने सौ दीर्घाभाव इति । अथ सम्बोधने “दीर्घख्याबू ० " इति सिलुकि "नाम्नो नोऽनहः” इति नलोपः प्राप्नोतीति तत्रापवादसूत्रमाह
नामन्त्रये ॥ २० ॥ [ सि० २१/९२]
सम्बोधने नाम्नो नस्य लुग् न स्यात् । हे राजन् ॥ २० ॥
नाम० । न १-१ “अव्ययस्य” सिलुप् । आमत्रयते इति आमत्र्यः तस्मिन् आमत्र्य ७-१ “अवर्णस्ये” । मध्ये “समानानां ० " । द्विपदमिदं ० । सम्बोधने इति सम्बोधनार्थे वाच्ये नाम्नो नस्य लुगू न स्यादित्यर्थः ॥ २० ॥ नकारान्तेष्वेव शब्देषु विशेषमाह-सूत्रम् -
न वमन्तसंयोगात् ॥ २१ ॥ [ सि० २|१|१११ ]
१०
वान्तान्मान्ताच्च संयोगात्परस्यानोऽस्य लुग् न स्यात् । यज्वनः यज्वना । आत्मनः आत्मनि । शेषं राजन्वत् । एवं सुपर्वन्प्रभृतयः ॥ २१ ॥
नवम० । वचम् च वमौ वमावन्ते यस्य स वमन्तः वमन्तश्वासौ संयोगश्च वमन्तसंयोगः ५-१ “ङेङस्यो०” । द्विपदमिदं० । अत्र वकारान्तसंयोगे यज्वन्शब्दो मकारान्तसंयोगे च आत्मन् शब्दस्य उदाहरणम् । इदं च सूत्रम् "अनोऽस्य" "ईङ वा " इति सूत्रयोरपवादः, ततोऽघुट्स्वरेऽकार- १५ लोपः सप्तम्येकवचने अकारलोपविकल्पश्चानेन निषिध्यते । तथैव सङ्क्षेपेणोदाहरति । यज्वनः शसि पञ्चमीषष्ठयेकवचनयोश्च रूपम् । एवमात्मन इति । सप्तम्येकवचने आत्मनि शेषं राजन्बत् इति स्पष्टम् ॥ २१ ॥ पुनरपि नकारान्तेष्वेव विशेषमाह सूत्रम् -
इन्हन्पूषार्यम्णः शिस्योः ॥ २२ ॥
Jain Education International
[ सि० १ ४ ८७ ]
इन्नन्तस्य हनादीनां च शिस्योरेव दीर्घः स्यात् । " नि दीर्घः" इति दीर्घे सिद्धे नियमार्थोऽयं २० योगः । दण्डी । दण्डिनौ । दण्डिनः । दण्डिना । दण्डिभ्याम् ३ । हे दण्डिन् । विन्प्रत्ययान्ता अप्येवम् । वचस्वी । वचखिनौ २ | वृत्रहा ॥ २२ ॥
इन्० । इन् च हन् च पूषा च अर्यमा च इन्हनपूषार्यमन् तस्य इन्हनपूषार्यमन् ६-१ " अनोऽस्य” इत्यलोपे “रषूवर्णान्नो ण०' । "लोकात्" "सो रुः” “रः पदान्ते ०" । शिश्व सिव शिसी तयोः शिसि ७-२ “इवर्णा ०” “सो रुः” “रः पदान्ते ०" । द्विपदमिदं० । * ' प्रत्ययः प्रकृत्यादेः” यस्मात् २५ यः प्रत्ययो विधीयते सा तस्य प्रकृतिः प्रत्ययः प्रकृत्यादेः समुदायस्य विशेषणं भवति ततश्च "विशेषणमन्तः” इति इनः प्रत्ययत्वात् इन्शब्देन इन्प्रत्ययान्ताः शब्दा गृह्यन्ते । तथा दण्डोऽस्यास्तीति वाक्ये “अतोऽनेकस्वरात्” ( ७/२।६ ) इतीन् प्रत्यये दण्डिनप्रभृतय इन्नन्ताः शब्दाः सिद्ध्यन्ति । हे दण्डिन् इति "नि दीर्घः" इति सूत्रस्य यत्र प्राप्तिस्तत्रैवायं नियम इति सम्बोधने सौ अनेन दीर्घो न भवति । ननु सार्थकेन्प्रत्ययान्तस्य दण्डिनशब्दस्य भवत्वनेन दीर्घः वचस्विन् इत्यत्र तु इन्शब्दो निरर्थकः ३० विन्प्रत्ययस्यैव सार्थकत्वात् "अर्थवग्रहणे नानर्थकस्य " इति न्यायात् कथमस्य ग्रहणमित्यत्रोच्यते “अनिनस्मन्प्रहणान्यर्थवताऽनर्थकेन च तदन्तविधिं प्रयोजयन्ति” इति न्यायात् निरर्थकोऽपि इन्शब्दो गृह्यते ततो विन्प्रत्ययान्तानामप्यनेन दीर्घो भवति एतन्मनसि कृत्याह - विन्प्रत्ययान्ता अप्येवमिति । अस्योपलक्षणत्वात् मिन्प्रत्ययान्ता अप्येवम् “स्वान्मिनीशे” ( ७।२।४९) स्वामी, गोः --गोमी तथा इनः ३४
For Personal & Private Use Only
www.jainelibrary.org