________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
शब्दस्यान्वादेशप्रक्रियामत्रैवातिदिशति इदमोऽप्येवमिति । अन्वादेशाभावे तु एतम् एतौ एतान् एतेन एतयोः २ इत्येतान्येव रूपाणि स्युः । वृत्यन्तेऽपीति अन्वादेशे सत्यपि वृत्त्यन्ते एनदादेशो न भवति यथा परमश्चासौ एषश्च परमैषः तं परमैतं, आगतः परमैषः अथो एनं परमैतं पश्येति भावः । ॥ १८ ॥ अथ धकारान्ताः शब्दाः । धकारान्तो धर्मबुधूशब्द इति धर्म २-१ 'बुधिं मनिं च ज्ञाने' ५धर्म बुद्ध्यते इति धर्मबुध् किपू “अप्रयोगीत्" किप्लोपः "उस्युक्तं कृता" इति समासः "ऐकार्थ्ये” इति विभक्तिलुप् धर्मबुध् १-१ । सूत्रम् -
गडदबादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थसूसूध्वोश्च प्रत्यये ॥ १९ ॥ [ सि०
१३०
२१।७७ ]
यस्य गडदबानां कोsप्यादौ भवति चतुर्थश्वान्ते भवति तस्यैकस्वरस्य शब्दावयवस्यादेश्चतुर्थः १० स्यात्, पदान्ते, सादौ ध्वादौ च प्रत्यये परे । धर्मश्वद् धर्मचत् । धर्मबुधौ । हे धर्मत् हे धर्मशुद् । धर्मशुद्भ्याम् । धर्मत्सु ॥ १९ ॥ नकारान्तो राजन् शब्दः - “नि दीर्घः" इति दीर्घे राजा राजानौ राजानः । अघुट्खरे " अनोऽस्य" इत्यल्लोपे नस्य अत्वे जञोईः राज्ञः राज्ञा । राजभ्याम्-असदधिकारविहितस्य नलोपस्यासत्त्वाद्दीर्घाभावः । राज्ञे । राज्ञः । राज्ञः । राज्ञोः । राज्ञाम् । राज्ञि राजनि, राजसु । सम्बोधने सौ दीर्घाभावः ।
१५ गड० । गश्च डश्च दश्च बश्च गडदबं समाहारद्वन्द्वः गडदबमादिर्यस्य स गडदबादिः तस्य गडदबादि ६-१ ङित्यदिति” “एदोयां०” चतुर्णां सङ्ख्यापूरणः चतुर्थः “चतुरः " ( ७|१|१६३ ) इति थट्प्रत्ययः । चतुर्थोऽन्ते यस्य स चतुर्थान्तः तस्य चतुर्थान्तस्य ६-१ “टाङसो ०" । एकस्वरो यस्य धातोरवयवस्य स एकस्वरः तस्य एकस्वर ६-१ “टाङसो ०" । आदि ६-१ "ङित्यदिति” एदोयां० । चतुर्थ १-१ “सो रु” “रः पदान्ते० " । स् च ध्व च रथ्वौ तयोः स्ध्व ६-२ “लोकात्" । च १ - १ २० “अव्ययस्य” । प्रत्यय ७ - १ " अवर्णस्ये ०" । मध्ये “चटते ०" "ऐदौत्सं०” “समानानां०” “चटते ०" “शषसे ०" “चटते ०" | अष्टपदमिदं सूत्रम् । वृत्तिः सुगमा । “नामसिद०" इति पदसंज्ञायामनेन यथोक्तविशेषणविशिष्टस्य बुधू इति शब्दावयवस्य आद्यस्य बकारस्य सवर्णे चतुर्थे भकारे जाते “दीर्घङथाबू ०” सिलोपे “घुटस्तृतीयः” इति धकारस्य दकारे जाते “विरामे वा” इति विकल्पेन प्रथमे च धर्मभुद् धर्मभुत् इति । एवं धर्ममुद्भ्याम् धर्मभुद्भ्यः धर्मभुत्सु हे धर्मभुद् २ । स्वरादौ तु सर्वत्र २५ पदान्तत्वाभावात् नास्य सूत्रस्य प्राप्तिरिति धर्मबुधौ धर्मबुधः इत्यादि । शेषाण्यस्य सूत्रस्योदाहरणानि यथास्थानं दर्शयिष्यन्ते ॥ १९ ॥
;
अथ नकारान्ताः शब्दाः तत्र राजन् शब्दस्य शेषघुट्पञ्चके रूपपद्धतिः प्रतीतैव । अघुट्खरे इति शसाद खरे इत्यर्थः । ननु राजभ्यामित्यत्र " नानो नोऽनह” इति नलोपे “अत आः स्यादौ ० " इत्यात्वं कुतो न ? इत्यत्रोच्यते पञ्चमे पादे “णषमसत्परे स्यादिविधौ च ” ( २।१।६० ) इति सूत्रादा३०रभ्य यत्कार्यं विधीयते तत्सर्वं परस्मिन् विधौ कर्त्तव्ये स्याद्यधिकारविहिते च पूर्वस्मिन्नपि विधौ कर्त्त - व्येऽसदसिद्धं द्रष्टव्यं तच्छास्त्रं वाऽसद्द्रष्टव्यम्, असत्परे इत्यधिकारो "रात्सः " ( २।१।९० ) इति यावत् स्यादिविधौ चेति तु आ "नोर्मादिभ्यः " ( २।१।९९ ) इति यावत् । "नाम्नो नोऽनह्नः " ( २। १।९१ ) इति सूत्रमपि तस्मिन्नधिकारेऽस्ति तत्र “अत आः स्यादौ ० " ( १।४।१ ) इति आत्वलक्षणे ३४ स्यादिविधौ कर्त्तव्ये नलोपोऽसन् भवति ततो नकारेण भ्यामा सह व्यवधानादात्वं न भवतीत्येतत्सर्वं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org