________________
१२९
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे व्यञ्जनान्ताः पुंल्लिकाः । दकारान्ताः
तः सौ सः ॥१७॥[सि० २।१।४२] द्विशब्दान्तानां त्यदादीनां खसम्बन्धिनि सौ परे तः सः स्यात् । स्यः । त्यौ । त्ये इत्यादि सर्ववत् । सः। तौ । ते । यः । यौ। ये । एषः। एतौ । एते । खसम्बन्धिनीति किम् ? प्रियत्यद् इत्यादि ॥१७॥ ___तः सौ० । त् ६-१ "लोकात्" "सो रुः" "रः पदान्ते." । सि ७-१ "डिडौँ" "डित्यन्त्य."५ "लोकात्” । स् १-१ "सो रुः” "र: पदान्ते.”। त्रिपदमिदं सूत्रम् । अनेन तकारस्य सकारे कृते “सो रुः" "रः पदान्ते." स्यः १-१। त्यद् १-२ "आढेरः" "लुगस्या०" "लोकात्" "ऐदौत्०" त्यौ । त्य १-३ “जस इ." "अवर्णस्ये."। एवं सर्वशब्दवद्रूपनयः। एवं सः तौ ते, यः यौ ये इत्यादि । एतद् १-१ "आढेरः" "लुगस्या०" "तः सौ सः" "नाम्यन्तस्था०" सस्य षः "सो रुः" "रः पदान्ते." एषः एतौ एते इत्यादि सर्ववत् । प्रियत्यद इत्यादि अयं भाव:-"आढेरः” इति सूत्रे स्वसम्बन्धिस्यादिग्रह-१० णात् “तः सौ सः” इति सूत्रे च स्वसम्बन्धिसिग्रहणात् यदा बहुव्रीह्यादिना त्यदादयो गौणीभूता भवन्ति तदैतत्सूत्रद्वयकार्याभवनात् प्रियत्यद् प्रियत्यदौ प्रियत्यदः प्रियत्यदा प्रियत्यद्भयामित्यादि । एवं स्त्रीलिङ्गेऽपि । नपुंसकलिङ्गे प्रियत्यद् प्रियत्यदी प्रियत्यन्दि । तदयदेतदामप्येवम् । एषां त्यदादीनां "त्यादिसर्वादेः स्वरेष्वन्त्यात् पूर्वोऽक्” (७।३।२९) इत्यके स्यकः त्यको त्यके । सकः तको तके । यकः यकौ यके । एषकः एतको एतके इत्यादि ॥ १७ ॥ अथ एतच्छब्दस्य द्वितीया-१५ वचनत्रये टायामोसि च विशेषमाह सूत्रम
त्यदामेनदेतदो द्वितीयाटौस्यवृत्त्यन्ते ॥ १८॥ [ सि० २।१।३३ ] किञ्चिद्विधातुं कथितस्य पुनरन्यद्विधातुं कथनमन्वादेशस्तमिन् गम्यमाने द्वितीयाटौसि परे एतद् एनत् स्यात् , नतु वृत्त्यन्ते । आगत एषः अथो एनं भोजय । एनम् । एनौ । एनान् । एनेन । एतयो, एनयोः । अन्वादेशभावे । एतम् । एतौ । एतान् । वृत्त्यन्तेऽपि । परमैतं पश्य । २० इदमोऽप्येवम् ॥ १८ ॥धकारान्तो धर्मबुध्शब्दः। ___ त्यदा० । त्यद् ६-३ "लोकात्” । एनत् १-१ "दीर्घब्याब्०" । एतद् ६-१ "लोकात्' “सो रुः" द्वितीया च टा च ओस् च द्वितीयाटौस् तस्मिन् द्वितीयाटौस् ७-१ "लोकात्" । वृत्तेरन्तः वृत्त्यन्तः न वृत्त्यन्तः अवृत्त्यन्तः तस्मिन् अवृत्त्यन्त ७-१ । मध्ये "लोकात्" "घोषवति" "अवर्णस्ये." "इवर्णादे०”। पञ्चपदमिदं सूत्रम् । किञ्चिद्विधातुमित्यादि अयं भावः-द्रव्यगुणक्रियादिकं कश्चिद्विशे-२५ षमाधातुं यः प्राग निर्दिष्टस्तस्यैव द्रव्यगुणक्रियाविशेषान्तराधानाद् यः पुनर्निर्देशः सोऽन्वादेश इति । न तु वृत्त्यन्ते इति, 'तु पुनः, यत्र शब्दः स्वार्थ परित्यज्य परार्थमभिधत्ते सा वृत्तिः "परार्थाभिधायिनी समासादिवृत्तिरि”ति वचनात् तस्या वृत्तेरन्ते वर्तमानस्य एतच्छब्दस्य अन्वादेशे सत्यपि एनदादेशो न भवति । तथैयोदाहरति आगत एष इति आगमनक्रियाविशेषमाधातुं यः प्राग निर्दिष्टः स एव पुनर्भोजनक्रियाविशेषमाधातुं निर्दिश्यते ततोऽयमन्वादेशः । अन्वादेशाभिव्यक्तये च प्रायेण ३० अथोशब्दः प्रयुज्यते "अथो अन्वादेशादावि"ति वचनात् । अथो एनं भोजयेति एतद् २-१ अनेन एनदादेशे "आदेरः” इत्यावि एनम् । एवमेनौ एनान् भोजयेति प्राग्वत् । एवं एतेन रात्रिरधीता अथो एतेनाहरप्यधीतम् । षष्ठीसप्तमीद्विवचनयोरोसोरपि-एतयोः शोभनं शीलं अथो एनयोर्महतीकीर्तिः । साकोऽप्ययं विधिः-एतकं साधुमावश्यकमध्यापय अथो एनमेव सूत्राणीति । लाघवार्थमिदम्-३४
है• प्रका० पूर्वा० १७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org