________________
१२८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु(५।२।२०) इति शत्प्रत्ययः अत्र शकारः शित्कार्यार्थ इत् ऋकारो ड्यर्थ इत् पचत् १-१ इति स्थिते "ऋदुदितः” इति नोऽन्तागमे "दीर्घडयाब्०" सिलोपे “पदस्य” इति तलोपे पचन , पचन्तौ पचन्तः हे पचन इत्यादि । उकारानुबन्धो भवत् शब्द इति 'भांक दीप्तौ' भाधातुः भातीति भवान् “भातेर्डवतुः” ( उणा० ८८६) इति डवतुप्रत्ययः “डित्यन्त्यस्वरादेः" इति आकारलोपे भवत् । ५ उकारोऽनुबन्धो ड्याबर्थः "ऋदुदितः” इति नुमागमे भवन्त् १-१ इति स्थिते ॥ १४ ॥ सूत्रम्
अभ्वादेरत्वसः सौ ॥ १५॥ [सि० १११९० ] अत्वन्तस्यासन्तस्य च भ्वादिवर्जस्य शेषे सौ परे दीर्घः स्यात् । भवान् । भवन्तौ । भवन्तः । हे भवन् । मतुप्रत्ययान्ता अप्येवम् । गोमान् गोमन्तौ । हे गोमन् ॥ १५ ॥ थकारान्तो दधि
मथ्शब्दस्तस्य "धुटस्तृतीयः" इति दत्वे । दधिमद् , दधिमत् । दधिमथौ । दधिमत्सु । हे दधि१० मद्, हे दधिमत् । दकारान्तास्त्यदादयस्तेषाम् "आवरः" इत्यत्वे ।
अभ्वा० । भूरादिर्यस्य स भ्वादिः न भ्वादिः अभ्वादिः तस्य अभ्वादि ६-१ “डित्यदिति" "एदोद्भ्यां०" । अतुश्च अस् च अत्वस् तस्य अत्वस् ६-१ "लोकात्” “सो रुः” 'रः पदान्ते." । सि ७-१ "डिडौँ” "डित्यन्त्य." । त्रिपदमिदं सूत्रम् । अनेन दीर्घे "दीर्घड्याब्०” इति सिलोपे “पदस्य" इति तलोपे भवान् । केवलं नुमागमे भवन्तौ भवन्तः । शेषे सौ इति किम् ? हे भवन् । अभ्वादे१५ रिति किम् ? पिण्डं असते इति पिण्डग्रः चर्म वस्ते इति चर्मवः । “अर्थवद्हणे नानर्थकस्य” इत्येव सिद्धेऽभ्वादेरिति वचनम् "अनिनस्मन्ग्रहणान्यर्थवताऽनर्थकेन च तदन्तविधि प्रयोजयन्ति" इति न्यायज्ञापनार्थम् तेनात्रापि भवति-खरणाः खुरणाः । अधातोरित्यकृत्वा अभ्वादेरिति करणं भ्वादीनामेव वर्जनार्थं तेनेह भवति-गोमन्तमिच्छतीति क्यनि किपि गोमान् । एवं स्थूल शिराः । मतुप्प्रत्ययान्ता
अप्येवमिति-गौरस्यास्ति इति वाक्ये "तदस्यास्त्यस्मिन्निति मतुः” (७।२।१) इति मतुप्रत्यये गोमत् २०१-१, उकारानुबन्धत्वात् "ऋदुदितः” इति नुमागमे अनेन दीर्घ गोमान् । तकारान्ताः शब्दाः
समाप्ताः ॥ १५ ॥ अथ थकारान्ता उच्यन्ते । दधि २-१, 'मथ विलोडने' दधि मथतीति दधिमथ् कि "अप्रयोगीत्" किप्लोपः दधिमथ् "नामसिदय्” इति पदसंज्ञायां "धुटस्तृतीयः" इति दत्वे "दीर्घड्याब्०" सि लोपे दधिमद्, “विरामे वा” दस्य तकारे कृते दधिमत् । स्वरादौ विभक्तौ सर्वत्र
खरयोगः, व्यञ्जनादौ तु "धुटस्तृतीयः” इति दः, दधिमथौ दधिमथः, दधिमझ्याम् इत्यादि । सुपि तु २५ "अघोषे प्रथमोऽशिटः" इति दकारस्य तकारे कृते दधिमत्सु । सम्बोधने हे दधिमत् इत्यादि । अथ
दकारान्तानाह-त्यदादय इति त्यद् तद् यद् एतद् इत्यादयः प्रसिद्धाः । त्यद १-१ इति स्थिते "आद्वेरः” इति दकारस्य अकारे कृते त्य अ १-१ इति स्थिते सूत्रम्
लुगस्यादेत्यपदे ॥ १६ ॥ [ सि० २।१।११३ ] अपदादावकारे एकारे च परे अस्य लुक् स्यात् । त्य इति जाते ॥ १६ ॥ ३० लुग० । लुग् १-१ "दीर्घड्याब्०" । अ ६-१ "टाङसो०” अस्य । अञ्च एच अदेत तस्मिन् अदेत्
७.१ "लोकात् । न पदं अपदं तस्मिन् अपद ७-१ ('अवर्णस्ये.” । मध्ये "लोकात्" स्वरहीनं० "समानानां.” "इवर्णादे०” । चतुष्पदमिदं० । “सप्तम्या आदिः' इत्यत आह-अपदादाविति दण्डाममित्यादौ पदादित्वादकारलोपो न भवति । त्यसम्बन्धिनोऽकारस्य लोपे "लोकात्" इति अकार२४ योगे त्य १-१ इति स्थिते ॥ १६ ।। सूत्रम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org