________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे व्यञ्जनान्ताः पुंल्लिङ्गाः । जकारान्तादयः
१२७
मापन्ना मुनयः ।। १२ ।। ( पदान्ते ऋत्विजो गत्वं वाच्यम्) ऋत्विक्, ऋत्विग् । तकारान्तो मरुत्शब्दः । मरुत्, मरुद् । मरुतौ । मरुद्भ्याम् । ऋकारानुबन्ध महत् शब्दः ।
to | यु ६-१ " इवर्णा ०" ऋकारस्य रः, “लोकात्” “सो रुः " न समासः असमासः तस्मिन् असमास ७ - १ " अवर्ण०” मध्ये “अतोऽति ०" "अवर्णस्ये ०” “एदोत ०" द्विपदमिदं० । 'युजृम्पी योगे' इति धातुः युनक्तीति किप् "अप्रयोगीत्" किप्लोपः युज् १-१ इति स्थिते अनेन जकारात्पूर्वं नोऽन्तः, ५ “दीर्घङयाब्०” सिलोपः “पदस्य " जलोपः “युजञ्चक्रुञ्चो नो ङ: ” युङ् । युज् १-२ अनेन नोऽन्ते “तवर्गस्य वर्ग ०" इति युञ्जौ, युञ्जः, युञ्जम्, युञ्जौ । शसादौ घुट्त्वाभावान्नोऽन्तो न भवति इति युज:, युजा, युग्भ्याम्, युग्भिः, युक्षु, हे युङ इत्यादि ॥ १२ ॥ ऋत्विज इति; ऋतौ ऋतुं ऋतवे ऋतुप्रयोजनो वा यजते इति वाक्ये ऋतुपूर्वकस्य यज्धातोः किप् “यजादिवचेः किति” इति यस्य इ: “इवर्णादेः ०" ऋत्विज्, अनेन गत्वम् । “यजसृज ०" इति षत्वस्यापवादोऽयम्, “चजः कगम्" इत्यस्य च प्रतिप्रसवोऽ- १० यम् । झकारान्तादयः शब्दाः प्रायोऽप्रसिद्धा इति तकारान्तान्विवक्षुराह - तकारान्तो मरुत्शब्द इति मरुत् १-१ “दीर्घङयाब्० " । स्वरादौ सर्वत्र “लोकात् " इति स्वरेण सह योगः । व्यञ्जनादौ तु "नामसिद ०" इति पदसंज्ञायां “घुटस्तृतीयः” इति दत्वे च मरुद्भ्याम् मरुद्भिः मरुत्सु हे मरुत इत्यादि । महत् शब्दस्य विशेषमाह 'अर्ह मह पूजायाम्' महधातुः " दुहिवृहि महिपृषिभ्यः कटः " ( उ० ८८४ ) इति अतृप्रत्यये महतृशब्दः ऋकारोऽत्र ङयर्थ इति मनसि कृत्याह - ऋकारानुवन्धो महत्शब्द इति - महन् १५ १-१ इति स्थिते सूत्रम् —
ऋदुदितः ॥ १३ ॥ [ सि० १|४|७० ]
ऋदित उदितश्व घुटि परे धुटः प्राग् नोऽन्तः स्यात् । " पदस्य " इति तलोपे ॥ १३ ॥
रुदु? । ऋच्च उच्च ऋदुतौ, ऋदुतौ इतौ यस्य सः ऋदुदित् तस्य ऋदुदित् ६- १ " लोकान्" " सो रुः” “र: पदान्ते०” । एकपदमिदं सूत्रम् । अनेन तकारात्पूर्वं नोऽन्तागमे महन्त् १-१ इति स्थिते २० ॥ १३ ॥ सूत्रम् —
महतोः ॥ १४ ॥ [ सि० १९१४४८६ ]
न्सन्तस्य महतश्च स्वरस्य शेषे घुटि परे दीर्घः स्यात् । महान् । महान्तौ । शेषे घुटीत्येव हे महन् । हे महान्तौ । हे महान्तः । महतः ॥ १४ ॥ शतृप्रत्ययान्तानां घुटि दीर्घाभावो विशेषः । पचन् । पचन्तौ । पचन्तः । हे पचन् । उकारानुबन्धो भवत् शब्दः ।
२५
न्स० । नकारेण युक्तः स् न्स् । न्स् च महच्च न्स्महतौ तयोः न्समहत् ६-२ “सो रुः” “रः पदान्ते०” । एकपदमिदं सूत्रम् । अनेन हकारस्य दीर्घे “ दीर्घङयाब्० " सिलोपे “पदस्य " इति तलोपे महान् । महान्तौ महान्तः महान्तम् महान्तौ । व्यावृत्तिमुखेनैव पराणि रूपाणि निर्दिशति । शेषे घुटीत्येवेति सम्वोधनार्थसेः शेषघुद्रत्वाभावात् अनेन दीर्घो न भवति ततः "ऋदुदितः” इति नोऽन्तागमे “दीर्घङयावο' इति सिलोपे “पदस्य” इति तलोपे हे महन् हे महान्तौ हे महान्तः । शसादौ परे घुत्वाभावाद्दीर्घो न ३० भवति । महतः महता महद्भ्याम् महत्सु इति । शतृप्रत्ययान्तानामपि ऋदित्वात् महच्छब्दवत् "ऋदुदितः” इति नोऽन्तो भवति, तत एतावानेव विशेषो यत् महत् शब्दस्य शेषे घुटि दीर्घो भवति शतृप्रत्ययान्तानां च “न्समहतोः” इति सूत्राप्राप्तेर्दीर्घो न भवति तथैवाह - शतृप्रत्ययान्तानां छुटि दीर्घाभावो विशेष इति । "डुपचीपू पाके' पचूधातुः पचतीति पचन् “शत्रानशावेष्यति तु सम्यौ " ३४
Jain Education International
For Personal & Private Use Only
"3
www.jainelibrary.org