________________
१२६
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुविभक्तिलोपः "अप्रयोगीत्" विप्लोपः तीर्थसृज् १-१ इति स्थिते अनेन जस्य षः "धुटस्तृतीयः" इति षस्य डः तीर्थसृड् "विरामे वा” तीर्थसृट् । तीर्थसृजौ तीर्थसृड्भ्याम् तीर्थसृड्त्सु २ । हे तीर्थसृड् २ । इत्यादि । अथ मृजधातुमाह । कंस २-१ परिपूर्वक 'मृजौष शुद्धौ' कंसं परिमार्टीति कि "डस्युक्तं०" "ऐकायें०" "अप्र०" अनेन जस्य षः कंसपरिमृड् २, कंसपरिमृजौ कंसपरिमृड्भ्यामित्यादि । ५ अथ राजधातुमाह सम्पूर्वक 'राजग टुभ्राजि दीप्तौ' समन्ताद्राजते इति सम्राज् “सम्राट" [सि० १।३।१६ ] समो मस्य राजतौ किबन्ते परे अनुस्वाराभावः स्यात् । सम्राज् १-१ इति स्थिते अनेन जस्य षः ततः प्राग्वत् सम्राट् २, सम्राजौ सम्राड्भ्याम् सम्राट्त्सु २ । हे सम्राट २ इत्यादि । अथ भ्राजधातुमाह-विपूर्वक 'राजग टुभ्राजि दीप्तौ' विभ्राजते इति किप "अप्र०” विभ्राज् १-१
अनेन जस्य षः ततः प्राग्वत् विभ्राड् २ । विभ्राजौ । विभ्राड्भ्याम् । विभ्राट्त्सु २ । हे विभ्राड् २ । १० अथ भ्रस्जधातुमाह-धाना २-३ 'भ्रस्जीत् पाके' धाना भृजतीति विप् “ङस्युक्तं०” “ऐकायें" "ग्रहव्रश्चभ्रस्जप्रच्छः” इति य्वृत् धानाभृस्ज १-१ इति स्थिते ॥ १० ॥ सूत्रम्
संयोगस्यादौ स्कोलक् ॥ ११ ॥ [सि० २।१।८८] धुट्पदान्ते संयोगादिस्थयोः स्कोर्लक् स्यात् । धानाभृड्, धानाभृत् । “सस्य शषौ" इति सस्य शत्वे । “तृतीयस्तृतीयचतुर्थे" इति शस्य जत्वे, धानाभृजौ । एवं मूलवृइ, मूलवृट् । मूलवृश्चौ । १५ परिव्राइ, परिव्राट् ॥ ११ ॥
संयो० । संयोग ६-१ "टाङसो०" । आदि ७-१ "डिडौँ” । स च क् च स्कौ तयो स्क् ६-२ "लोकात्" "सो रुः" । लुक् १-१ दीर्घड्याब्०" । मध्ये "समानानां" । जलतुम्बिका० । चतुष्पदमिदं० । धुट पदान्ते इति धुटादौ प्रत्यये परे पदान्ते च संयोगादिस्थयोः स्कोलक् स्यादिति भावः।
ततश्चानेन स्लोपे भृज् १-१ इति स्थिते "यजसुज०” इति जस्य षत्वे प्राग्वत् धानाभृड् २ । धाना२० भृस्ज् १-२ इति स्थिते "सस्य शौ” इति सस्य शकारस्ततश्च "तृतीयस्तृतीयचतुर्थे” इति सूत्रेण स्थान्यासन्नः शकारस्य जकारः धानाभृजौ धानाभृजः धानाभृड्भ्याम् धानाभृभिः । धानाभृड्त्सु २ । हे धानाभृड् २ । अथ व्रश्वधातुमाह-मूल २-१ "ओवश्वौत् छेदने" मूलं वृश्चतीति कि "डस्युक्तं." "ऐकायें" "ग्रव्रश्च०” इति य्वृति "सस्य शषौ” इति सकारस्य शकारः मूलवृश्च १-१ इति स्थिते
"सकारापदिष्टं कार्य शकारस्यापि भवति" इति न्यायात् "संयोगस्यादौ स्कोलक्” इति शकारस्यापि लुक २५ ततश्च “यजसृज०” इति जस्य षः ततो "धुटस्तृतीयः” इति डत्वे मूलवृड् २ मूलवृश्चौ मूलवृश्चः
मूलवृड्भ्याम् । मूलवृड्त्सु हे मूलवृड् २ । परिव्राजशब्दस्यापि जकारस्य षत्वं भवति यथा परिपूर्वक 'धृज धृजु ध्वज ध्वजु ध्रज ध्रजु वज वन षस्ज गतौ' व्रजधातुः परिव्रजतीति “दिद्युद्ददृज्जगजुहूवाक्प्राधीश्रीसूज्वायतस्तूकटप्रूपरिव्राद्माजादयः किम् (५।२।८३) इति क्विवन्तो निपातः, परिवाड् २ परिव्राजौ परिव्राजः परिव्राड्भ्याम् परिव्राभिः परिव्रात्सु । हे परिव्राड् २ इत्यादि ॥ १ ॥ ३० जकारान्तानामेव विशेषमाह सूत्रम्
युज्रोऽसमासे ॥ १२ ॥ [सि० ११४७१ ] 'युजृम्पी योगे' इत्यस्यासमासे घुटि परे धुटः प्रानोऽन्तः स्यात् । युङ् । युञ्ज । युजा । ३३ युग्भ्याम् । असमासे इति किम् ? अश्वयुक् अश्वयुग । युज्र इति किम् ? 'युजिञ्च समाधौ' युज
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org