________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे व्यञ्जनान्ताः पुंल्लिङ्गाः । चकारान्तादयः
१२५
देशो भवति दीर्घस्तु अन्वाचयशिष्टत्वात् “स्वरस्य ह्रस्वदीर्घप्लुता" इति न्यायाश्च व्यञ्जनस्य न भवति ततो दकारस्य " अघोषे प्रथमोऽशिटः” इति प्रथमे तकारे कृते "तवर्गस्य ०" इति तकारस्य चकारे कृते दृषश्चः दृषच्चा इत्यादि । व्यञ्जनादौ दृषदग्भ्याम् दृषदग्भिः दृषदक्षु । अर्चायां तु प्रथमवचनपचके प्राग्वत् । शसादौ स्वरे दृषदनः दृषदश्वा इत्यादि । व्यञ्जनादौ दृषद्भ्याम् दृषदभिः दृषदक्षु इत्यादि । अर्चायां स्त्रियां ङीप्रत्यये दृषची अर्चायां दृषदी इत्यादि । एवमन्येपि योषिदश्वप्रमुखाः स्वमूयाः | ५ पितरमञ्चति गच्छति पित्रङ् पित्रौ पित्रञ्चः । शसादौ स्वरे पितृचः पितृचा । व्यञ्जनादौ पित्रग्भ्याम् पित्रग्भिः पित्रक्षु | अर्चायां प्रथमवचनपञ्चके प्राग्वत् । शसादौ स्वरे पित्रः पित्रञ्चा इत्यादि । व्यञ्जनादौ पित्रभ्याम् पित्रभिः पित्रङ्क्षु इत्यादि । अनर्चायां ङीप्रत्यये पितृची । अर्चायां पितृश्वी इत्यादि । एवं क्रुन्च्शब्दोऽपि क्रुङ् क्रुचौ २ क्रुः ४ । क्रुचा क्रुङ्भ्याम् क्रुक्षु हे क्रुङ् । क्रुङ् क्रौञ्चः पक्षी । 'सारसी' 'लक्ष्मणाथ क्रुङ् क्रौ' इति हैमः कोषः । इति चकारान्ताः शब्दाः समाप्ताः ॥ ८ ॥ १० छकारान्ता अप्रसिद्धाः । अथ जकारान्ता उच्यन्ते । देव २-१ “यजी देवपूजासङ्गतिकरणदानेषु ” देवं यजते इति किप् “यजादिवचेः किति" इति यकारस्य इकारः "ङस्युक्तं कृता" इति समासः “ऐकार्थ्ये” इति विभक्तिलोपः देवेज् १-१ इति स्थिते सूत्रम् -
यजसृजमृजराजभ्राजभ्रस्जनश्चपरिव्राजः ः शः षः ॥ ९ ॥ [ सि० २२११८७ ]
जादीनां धातूनां चोर्धातोः शस्य च धुटिप्रत्यये पदान्ते च षः स्यात् । "धुटस्तृतीयः " १५ इति डत्वे | देवेइ, देवेट् । देवेजौ । देवेड्भ्याम् ॥ ९॥
यज० । यजश्च सृजश्च मृजश्च राजश्व भ्राजश्व भ्रस्जश्च श्वश्च परिव्राज् च यजसृजमृजराज भ्राजरजश्च परिव्राज् तस्य यजसृजमृजराज भ्राजभ्रस्जत्रश्चपरिव्राज् ६-१ “लोकात् " " सो रुः " "५ः पदान्ते०” । शू ६-१ “लोकात्” “सो रुः” “रः पदान्ते० " । ष १ - १ “सो रुः” “रः पदान्ते०” । त्रिपदमिदं० । अनेन जस्य षः “घुटस्तृतीयः" इति सूत्रेण स्थान्यासन्नः षकारस्य डकारः देवेड् “विरामे २० वा” इति ङकारस्य टकार: देवेट् देवेजौ देवेजः देवेजम् देवेजौ देवेज: देवेजा । “नामसिदय्० " इति पदसंज्ञायां अनेन सूत्रेण पत्वे “घुटस्तृतीयः” इति डत्वे च देवेड्भ्याम् देवेभिः ॥ ९ ॥ देवेड् सु इति स्थि सूत्रम्—
ङ्गः सः त्सोऽश्वः ॥ १० ॥ [ सि० १|३|१८ ]
पदान्तस्थाभ्यां नाभ्यां परस्य सस्य तादिः सो वा स्यात्, अश्वः श्रावयवश्चेत्सो न स्यात् । २५ देवेदत्सु । देवेट्सु । हे देवेद् हे देवेट् | तीर्थसृद्ध तीर्थसृट् । कंसपरिमृड्, कंसपरिमृट् । सम्राड्, सम्राट् । विभ्राड् विभ्राट् ॥ १० ॥
नः० । डू च न् च ड्रु तस्मात् न ५-१ “लोकात् ” “सो रुः” “रः पदान्ते० " । मध्ये "अतोऽति ० " "अवर्णस्ये." "एदोत : ० | चतुष्पदमिदं० । अश्व इति किम् ? षट्श्योतन्ति श्रयुतेः सोपदेशत्वात् “शकारस्य सकारापदिष्टं कार्य विज्ञायते" तेन मधुयोततीति किप् मधुयुतमाचष्टे णावन्त्यस्वरादिलोपे ३० पुनः किपि णि यलोपे सौ तलुकि “संयोगस्यादौ स्कोर्लुक्” इति शलोपे चस्य कत्वे मधुगिति सिद्धम् । देवेड्त्सु अत्र सूत्रे डकारनिर्देशात् टत्वं न भवति । केचित्तु टत्वमपीच्छन्ति देवेट्त्सु पक्षे "अघोषे - प्रथमोऽशिटः” इति डस्य टत्वे देवेट्सु । सम्बोधनेऽपि हे देवेड् हे देवेट् इत्यादि । अथ सृजधातुमाह तीर्थ २-१ "सृजत् विसर्गे” तीर्थं सृजतीति किप् "ङस्युक्तं कृता" इति समासः “ऐकार्थ्ये" इति ३४
www.jainelibrary.org
Jain Education International
For Personal & Private Use Only