________________
१२४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधु
तिर० । तिरस् ६-१ "लोकात्" "सो रुः" । तिरि १-१ शब्दरूपापेक्षया नपुंसकत्वे "अनतो लुप्" सूत्रत्वाद्वा सिलोपः । अत् ७-१ "लोकात्" । मध्ये "चटते." "इवर्णादे." त्रिपदमिदं० । "सप्तम्या आदिः" इति परिभाषया अतीति अकारादावित्यर्थः । तिरस् इत्यव्ययं सकारान्तं तिर्यगर्थे "तिर्यगर्थे तिरः साची" इति वचनात् तिरस्तिरको वा अञ्चतीति कि , अनेन तिरसस्तिरि आदेशे "इवर्णा०" ५तिर्यच् इति सिद्धम् , ततो घुटि तिर्यङ् तिर्यश्चौ तिर्यश्चः तिर्यश्चम् तिर्यञ्चौ । शसादौ तु अचश्चादेशे कृते अञ्चतेरकारादित्वाभावात् तिरिरादेशो न भवति तथा सकारेण व्यवधानात् पूर्वस्वरस्य दीर्घोऽपि न भवति ततश्च "सस्य शषौ” इति सकारस्य शत्वे तिरश्चः तिरश्चा तिरश्चः २ तिरश्चोः २ तिरश्चाम् तिरश्चि । अधुव्यञ्जनादौ तु तिर्यग्भ्याम् तिर्यग्भिः तिर्यक्षु हे तिर्यङ् इत्यादि । स्वार्थिक ईनप्रत्यये तिर्यगेव तिर
चीनम् , डीप्रत्यये तिरश्ची अर्चायां घुटि प्राग्वत् । शसादौ स्वरे तिर्यश्चः तिर्यश्चा । व्यञ्जनादौ तिर्यङ्१० भ्याम् तिर्यभिः तिर्यक्षु तिर्यषु । ङीप्रत्यये तिर्यश्ची । मुनि साधुमश्चति गच्छतीति वाक्ये मुन्यङ्
साध्वङ् मुन्यञ्चौ साध्वञ्चौ मुन्यश्चः साध्वञ्चः मुन्यश्चम् साध्वश्चम् मुन्यश्चौ साध्वञ्चौ मुनीचः साधूचः मुनीचा साधूचा मुन्यग्भ्याम् साध्वग्भ्याम् मुन्यक्षु साध्वक्षु इत्यादि । मुनि साधुमञ्चति पूजयतीति वाक्ये घुट्पञ्चके प्राग्वत् । शसादौ स्वरे मुन्यश्चः साध्वश्वः मुन्यश्चा साध्वञ्चा मुन्यञ्चे इत्यादि ।
व्यञ्जनादौ तु मुन्यङ्भ्याम् साध्वङ्भ्याम् मुन्यभिः साध्वभिः मुन्यक्षु मुन्यछु साध्वक्षु साध्व१५षु इत्यादि भवति । सर्वमञ्चति विष्वगञ्चति देवमश्चति गच्छतीति वाक्ये *"सर्वादिविष्वग्देवाडुद्रिः क्यञ्चौ" सर्वादेर्विष्वग्देवाभ्यां च परः क्विबन्तेऽश्चतौ परे डदिरन्तः स्यात् ततश्च सर्वद्यङ् विष्वग्यङ् देवयङ् सर्वद्यश्चौ सर्वद्यञ्चः इत्यादि । शसादौ अचश्चादेशे पूर्वस्वरस्य दीर्घ च सर्वद्रीचः विष्वग्द्रीचः देवद्रीचः इत्यादि । व्यञ्जनादौ सर्वद्यग्भ्याम् सर्वग्रक्षु इत्यादि । पूजायां प्रथमवचनपञ्चके प्राग्वत् ।
शसादौ स्वरे सर्वद्यश्चः विष्वग्यश्चः देवद्यश्चः सर्वव्यश्चा इत्यादि । व्यञ्जने सर्वद्यङ्भ्याम् सर्वद्यक्षु २० इत्यादि । अनर्चायां ङीप्रत्यये सर्वद्रीची विष्वग्द्रीची देवद्रीची । अर्चायां सर्वद्यश्ची इत्यादि । एवं
अदसूशब्दस्य अमुमश्चति गच्छतीति वाक्ये अदमुयङ् अमुद्यङ् अमुमुयङ् अदयङ् इति रूपचतुष्टयं यथा भवति तथा असन्ध्यधिकारे "अदोमुमी" इतिसूत्रव्याख्याने दर्शितमस्तीति ततो ज्ञेयम् । शसादौ स्वरे अदमुईचः अमुद्रीचः अमुमुईचः अदद्रीचः अदमुईचा अमुद्रीचा अमुमुईचा अदद्रीचा इत्यादि । व्यञ्जनादौ अदमुयङ्भ्याम् अमुयङ्भ्याम् अमुमुयङ्भ्याम् अदद्याभ्याम् अदमुयभिः अमुभिः २५ अमुमुयभिः अदयभिः अदमुयक्षु अमुयक्षु अमुमुयक्षु अदयक्षु । पूजायां प्रथमवचनपञ्चक प्राग्वदेव शसादौ नलोपाभावे "तवर्गस्य श्ववर्ग०” इति अदमुयश्चः अमुद्यञ्चः अमुमुयश्चः अदयश्चः अदमुयञ्चा ४ इत्यादि । व्यञ्जनादौ अदमुयङ्भ्याम् अमुयङ्भ्याम् अमुमुयङ्भ्याम् अदयभ्याम् अदमुयक्षु अमुद्यक्षु अमुमुयक्षु अदयक्षु । अनर्चायां ङीप्रत्यये अदमुईची अमुद्रीची अमुमुईची अदद्रीची। अर्चायां अदयश्ची एकमेव रूपम् । गामञ्चति गच्छतीत्यत्र “स्वरे वाऽनक्षे” इति अवादेशे गवाङ् ३० पक्षे "वाऽत्यसन्धिः " इत्यसन्धौ गो अङ् पक्षे “एदोतः पदान्तेऽस्य लुक्” गोऽङ् । गवाञ्चौ गोअञ्चौ गोऽञ्चौ
गवाञ्चः गोअञ्चः गोऽश्चः इत्यादि । शसादौ खरे अचश्चादेशे गोचः गोचा । शसादौ व्यञ्जने गवाग्भ्याम् गोअग्भ्याम् गोऽग्भ्याम् गवाक्षु गोअक्षु गोऽक्षु हे गवाङ् हे गोअङ् हे गोऽङ् । गामञ्चति पूजयतीत्यत्र प्रथमवचनपश्चके सम्बोधने च प्राग्वत्, शसादौ स्वरे तु गवाश्चः गो अञ्चः गोऽश्चः गवाञ्चा गोअश्चा गोऽश्चा। व्यञ्जनादौ गवाङ्भ्याम् गोअभ्याम् गोऽङ्भ्याम् गवाक्षु गोअक्षु गोऽक्षु इत्यादि।
अनर्चायां स्त्रियां ङीप्रत्यये अचश्वादेशे गोऽची अर्चायां गवाञ्ची गोऽश्वी इत्यादि। दृषदमञ्चति गच्छती३६ त्यत्र दृषदङ् दृषदश्चौ दृषदश्चः दृषदश्चम् दृषदञ्चौ । शसादौ खरे "अच्च प्राग् दीर्घश्च” इति अचश्चा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org