________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे व्यञ्जनान्ताः पुंल्लिङ्गाः । चकारान्ताः
१२३
प्राञ्चः प्राञ्चा प्राञ्चे इत्यादि । व्यञ्जनादौ प्राङ्भ्याम् प्राङ्भ्यः प्राङ्क्षु इत्यादि “युप्रागपागु०” (६।३।८) इति प्रत्यये प्रायः स्वार्थिके ईनप्रत्यये प्रागेव प्राचीना । अनर्चायां ङीप्रत्यये प्राची । अर्चायां प्राची ॥ ५ ॥ उदचशब्दस्य पञ्चस्वविशेषः शसादौ च विशेष इति दर्शयति । सूत्रम् -
उदच उदीच् ॥ ६ ॥ [ सि० २ १ १०३ ]
णिक्यघुड़र्जे यकारादौ स्वरादौ च । उदङ् । उदञ्चौ । उदञ्चः । उदीचः । उदीचा । उद-५ ग्भ्याम् ॥ ६ ॥
उदच् ६-१ “लोकात्” “सो रुः” । उदीच् १-१ “दीर्घङघाब्०” । “रोर्यः” तस्य स्वरे परे लुग्वा लुक्यसन्धिश्च । द्विपदमिदं सूत्रम् । अत्र सापेक्षं वृत्त्यंशमाह - णिक्यघुड्वर्जे यकारादौ स्वरादौ चेति । सूत्रवृत्त्योः सङ्घटनेऽर्थः स्पष्ट एव । णिकू घुटो वर्जयित्वा अन्यस्मिन् यकारादौ स्वरादौ च प्रत्यये परे उदच् शब्दस्य उदीच् आदेशः स्यादित्यर्थः । ततश्च प्रथमवचनपञ्चके उदय उदयौ उदचः उदञ्चम् १० sai | सादौ स्वरे उदीचः उदीचा इत्यादि । व्यञ्जनादौ तु उदग्भ्याम् उदग्भिः उदग्भ्यः उदक्षु इत्यादि अर्चायां घुट्पच तथैव रूपाणि । अघुट्स्वरे उदचः उदचा उदवे । व्यञ्जनादौ उद्भ्याम् उदङ्भिः उदङ्क्षु इत्यादि । “घुप्रागपाग्०” इति यप्रत्यये उदीच्यः स्वार्थिके ईने उदीचीना अनर्चायां ङीप्रत्यये उदीची दिक् । अर्चायां उदची स्त्री । अणिक्यघुटीत्येव उदयति उदच्यति उदञ्चः ॥ ६॥ सध्यच्सम्यचूशब्दयोः प्रक्रियामाह सूत्रम् -
१५
सहसमोः ससिमी ॥ ७ ॥ [ सि० ३।२।१२३ ]
क्विन्तेऽञ्चतौ परे । सह अञ्चतीति सध्यङ् । सध्यञ्चौ । सभ्यञ्चः । सधीचः । सधीचा । सममञ्चतीति सम्यङ्ग् । सम्यञ्चौ । सम्यश्चः । समीचः । समीचा । सम्यग्भ्याम् ॥ ७ ॥
सह । सहच सम् च सहसमौ तयोः सहसम् ६-२ "लोकात्" "सो रुः " "रः पदान्ते ० " । सनिश्च समिश्च सनिसमि १-२ " इदुतोऽस्त्रे० " । द्विपदमिदं० । अत्रापि सापेक्षं वृत्त्यंशमाह विच - २० तेऽञ्चतौ परे इति सूत्रवृत्त्योः संयोगेऽर्थः स्पष्ट एव । सहपूर्वक अश्वधातुः सह अञ्चतीति किप् “अप्रयो०” क्विप्लोपः, “अचोऽन ० " नलोपः, अनेन सहशब्दस्य सधि आदेश: “इवर्णा०" सध्यच् इति सिद्ध्यति । एवं सम्पूर्वक अवधातुः समञ्चति इति किप् "अप्रयो० " "अञ्चोऽन०” अनेन सम्शब्दस्य समिरादेशः " इवर्णादे० " सम्यच् इति सिद्ध्यति । ततश्च घुट्वचनपश्ञ्चके सभ्यङ् सभ्यचौ सभ्यञ्चः सभ्यञ्चम् सध्यौ । सम्यङ् सम्यञ्चौ सम्यञ्चः सम्यञ्चम् सम्यञ्चौ इत्यादि । अघुट्स्वरादौ २५ लोकात् सधि अच् समि अच् इति विश्लेषः, "अश्व प्राग् दीर्घव" इति सूत्रेण अचश्वादेशे पूर्वस्वरस्य दीर्घे च सध्रीचः सध्रीचा समीचः समीचा इत्यादि । अघुव्यञ्जनादौ तु सभ्यग्भ्याम् सध्र्यक्षु, सम्यग्भ्याम् सम्यक्षु इत्यादि । सम्बोधनेऽपि हे सध्यङ् हे सम्यद इत्यादि । ईनप्रत्यये सध्रीचीनं समीचीनं ङीप्रत्यये सीची समीची । अर्चायां घुटि प्राग्वत् । शसादौ खरे सध्यञ्चः सम्यञ्चः सभ्यञ्चा सम्यञ्चा सध्यङ्भ्याम् सम्यङ्भ्याम् । ङीप्रत्यये सध्यची सम्यची इत्यादि ॥ ७॥ तिर्यच् शब्दस्य विशेषमाह सूत्रम् — ३० तिरसस्तिर्यति ॥ ८ ॥ [ सि० ३२१२४ ]
I
अकारादौ क्विवन्तेऽञ्चतौ परे तिरसस्तिरिः स्यात् । तिर्यङ् । तिर्यञ्चौ । तिर्यञ्चः । अकारादाविति किम् | अचश्चादेशे मा भूत् । तिरश्वः । तिरश्वा । तिर्यग्भ्याम् ॥ ८ ॥
Jain Education International
For Personal & Private Use Only
३३
www.jainelibrary.org