SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १२२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु अचः। अच् ६-१ "लोकात्" "सो रुः" "र: पदान्ते०" । एकपदमिदं सूत्रम् । अनेन नोऽन्तागमे प्रत्यन् च् स् इति स्थिते “दीर्घडयाब्” इति सिलुकि प्रत्यन् च् इति स्थिते ॥ २ ॥ सूत्रम् पदस्य ॥३॥ [सि० २।१८९] संयोगान्तस्य लुक् स्यात् इति च लुक् ॥३॥ ५ प० । पद ६-१ "टाङसो०" । एकपदमिदं० । अनेन चलोपे प्रत्यन् इति स्थिते ॥ ३ ॥ सूत्रम् युजञ्चक्रुश्चो नो ङः ॥ ४॥ [सि० २।१।७१ ] एषां नस्य पदान्ते ङः स्यात् । प्रत्यङ् "तवर्गस्य श्चवर्ग०" इति, प्रत्यञ्चौ । प्रत्यञ्चः । सम्बोधनेऽप्येवम् । प्रत्यञ्चम् । प्रत्यञ्चौ ॥ ४ ॥ युजञ्च० । युज् च अन् च क्रुन् च युजनचक्रुन्च तस्य युजन्चक्रुन्च् ६-१ "लोकात्" "सो रुः"। १०न् ६-१ "लोकात्" "सो रुः" । ङः १-१ "सो रुः" "रः पदान्ते.” । “अवर्णस्ये.” । त्रिपदमिदं० । अनेन नस्य ङत्वे प्रत्यङ् इति प्रथमैकवचने रूपं सिद्धम् । प्रत्यन्च १-२ इति स्थिते "तवर्गस्य श्चवर्ग.” इति नस्य अत्वे प्रत्यञ्चौ, प्रत्यञ्चः इत्यादि । सम्बोधनेऽप्येवमिति । हे प्रत्यङ्, हे प्रत्यञ्चौ हे प्रत्यञ्चः इति रूपाणि भवन्तीत्यर्थः ॥ ४ ॥ प्रत्यच् २-३ इति स्थिते सूत्रम् अच्च प्रारदीर्घश्च ॥ ५॥ [ सि० २।१।१०४ ] १५ णिक्यघुट्वर्जे यकारादौ खरादौ च प्रत्यये अचश्च् इत्यादेशः स्यात् , पूर्वखरस्य च दीर्घः । प्रतीचः। प्रतीचा । प्रत्यग्भ्याम् । प्रत्यक्षु ॥ प्राङ् । प्राञ्चौ । प्राञ्चः । हे प्रा। प्राचा। प्राग्भ्याम् ॥५॥ ___ अच्च० । अच् १-१ "दीर्घड्याब्०" च १-१ "अव्ययस्य" प्राग् १-१ "अनतो.” दीर्घ १-१ “सो रुः" च १-१ "अव्ययस्य" । पञ्चपदमिदं० । अनेन अघुटखरादौ अचश्चादेशे पूर्वस्वरस्य दीपें च २० प्रतीचः प्रतीचा प्रतीचे, प्रतीचः ५-१६-१, प्रतीचोः २ प्रतीचाम् प्रतीचि । व्यञ्जनादौ तु "नामसिदय्०" इति पदत्वे "चजः कगम्” इति चस्य कत्वे "धुटस्तृतीयः” इति कस्य गत्वे प्रत्यग्भ्याम् प्रत्यग्भिः प्रत्यक्षु इत्यादि प्राग्वत् । प्रत्यञ्चति पूजयतीति वाक्ये अर्चायां नलोपाभावे "अच्च प्राग्दीर्घश्च" इति लुप्तनकारस्य अचो निर्देशात् इदं सूत्रं न प्रवर्त्तते, “युजञ्चक्रुञ्चो नो ङः” इति सूत्रे सामान्यतोऽञ्चतिनिर्देशात् इदं सूत्रं प्रवर्त्तते ततश्च प्रथमवचनपञ्चके प्राग्वदेव रूपाणि, प्रत्यङ् प्रत्यञ्चौ प्रत्यञ्चः प्रत्यञ्चम् प्रत्यश्चौ । २५ अघुट्स्वरेऽपि प्रत्यञ्चः प्रत्यञ्चा प्रत्यश्चे प्रत्यश्चः २ प्रत्यञ्चोः २ प्रत्यच्चि । व्यञ्जनादौ "नामसिदय०" इति पदसंज्ञायां “युजश्चक्रुञ्चो०” प्रत्यङ्भ्याम् प्रत्यभिः प्रत्यक्षु । यकारादौ प्रत्ययेऽपि “शुप्रागपागुद प्रतीचो यः” (६।३१८) इति सूत्रेण भवाद्यर्थे यप्रत्यये अनेन सूत्रेण अचश्चादेशे प्राक्स्वरस्य दीपें प्रत्यग्भवः प्रतीच्यो वायुः "अदिक् स्त्रियां वाञ्चः” (७।१।१०७) इति स्वार्थिके ईनप्रत्यये प्रत्य गेव प्रतीचीनम् अनायाम् अच इति स्त्रियां ङीप्रत्यये प्रतीची दिक् । णिक्यघुड्वर्जनात् प्रत्यश्चम् ३० आचष्टे "णिज् बहुलं नाम्नः कृगादिषु” इति णिजि "अन्त्यस्वरादेरि"त्यन्त्यस्वरादिलुकि प्रत्ययति प्रत्यञ्चं इच्छति “अमाव्ययात् क्यन् च" प्रत्यच्यति अत्र अचश्च आदेशो न भवति । अर्चायां स्त्रियां च "अञ्च" इति ङीप्रत्यये प्रत्यञ्ची इति । एवं प्रपूर्वक अञ्ब्धातुः प्राश्चतीति प्राङ् प्राञ्चौ प्राञ्चः प्राञ्चम् प्राञ्चौ । प्राच् २-३ इति स्थिते "अच्च प्राग्०" इति अचश्चादेशे प्रशब्दसम्बन्धिनः स्वरस्य दीर्घ प्राचः प्राचा ३४ इत्यादि । व्यञ्जनादौ प्रारभ्याम् प्राग्भिः प्राक्षु इत्यादि । अर्चायां घुटवचनपञ्चके प्राग्वत् अघुट्स्वरे Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004040
Book TitleHaim Prakash Maha Vyakaranam Purvarddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1937
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy