________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे व्यञ्जनान्ताः पुंल्लिमाः । चकारान्ताः यां शिष्योद्भुतकीर्तिकीर्तिविजयश्रीवाचकाहर्मणे
राजश्रीतनयो व्यधत्त विनयः श्रीतेजपालात्मजः तस्यां शासितसाधुशब्दसरणौ स्वोपज्ञसत्प्रक्रिया
वृत्तौ रेजुरमी समाप्तिसुषमां क्लीबाः स्वरान्ता रवाः ॥ १ ॥
अथ व्यसनान्ता पुंल्लिङ्गाः
यथाक्रमं त्रिषु लिङ्गेषु स्वरक्रमेण स्वरान्ताः शब्दा अभिहिताः । अथ व्यञ्जनक्रमेण व्यञ्जनान्ताः शब्दास्त्रिषु लिङ्गेषु वक्तव्यास्तत्र व्यञ्जनानि च "कादिर्व्यञ्जनम्” इति वचनात् कादीनि हपर्यन्तानि, तेषु कवर्गान्ताः शब्दाः प्रायोऽप्रसिद्धा इति चकारादारभ्य व्यञ्जनान्ताः पुंल्लिङ्गाः शब्दा उच्यन्ते; एतत्सर्वं मनसिकृत्याह-अथ व्यञ्जनान्ताः पुंल्लिङ्गा इति । अथेति स्वरान्तशब्दकथनानन्तरं व्यञ्जनान्ताः पुंल्लिङ्गाः शब्दा उच्यन्ते इति शेषः ।
तत्र चकारान्तः सुवाच शब्दः।
तत्र चकारान्तः सुवाच् शब्द इति । 'वचं भाषणे' उच्यत इति वाक् “दिद्युद्दङ्जगजुहूवाक्प्राधीश्रीज्वायतस्तूकटप्रूपरिव्राद्माजादयः किप्" इति निपातनात् वाच् इति सिद्ध्यति । शोभना वाक् यस्य स सुवाक् , यद्यपि सुवाचशब्दो विशेष्यलिङ्गत्वात्रिष्वपि लिङ्गेषु सम्भवति तथापि प्राधान्यात पुंसि रूपाण्युच्यन्ते इति सुवाच् १-१ इति स्थिते सूत्रम्
चजः कगम् ॥ १॥ [ सि० २।१८६ ] धुटि प्रत्यये पदान्ते च चजोः कगौ स्याताम् । “धुटस्तृतीयः" इति, सुवाग , "विरामे वा" सुवाक् । सुवाची । सुवाग्भ्याम् । सुवाक् सु इति स्थिते, "नाम्यन्तस्था०" इति षत्वे । कषसंयोगे क्षः। सुवाक्षु । हे सुवाक् , हे सुवाग् ॥१॥ प्रत्यच स् इति स्थिते ।
चजः । चश्च जश्च चज् तस्य चञ् ६-१ "लोकात्” “सो रुः" "र: पदान्ते" कश्च गश्च कगं २० कग १-१ "अतःस्य०" समानाद०" । द्विपदमिदं० । अनेन चस्य कत्वे ततो "धुटस्तृतीयः" इति कस्य गत्वे सुवाग् इत्येकं रूपम् , ततो "विरामे वा" इति पक्षे गस्य कत्वे द्वितीयं रूपं सुवाक् इति । स्वरादिविभक्तौ तु "लोकात्" इति स्वरसंयोग एव सुवाचौ सुवाचः । व्यञ्जनादौ तु विभक्तौ "नामसिदय." इति पदसंज्ञायां "चजः कगम्” इति चस्य कत्वे "धुटस्तृतीयः” इति कस्य गत्वे सुवाग्भ्याम् , सुवाग्भिः। सुवाच् सु इति स्थिते "नामसिदयि"ति पदसंज्ञायां "चजः कगमि"ति चस्य कत्वे "धुटस्तृतीयः” इति २५ कस्य गत्वे "अघोषे प्रथमोऽशिटः" इति गस्य कत्वे "नाम्यन्तस्था०" इति सस्य षत्वे कषसंयोगे क्ष इति सुवाक्षु इत्यादि सर्व सङ्केपेणाह-सुवाक् सु इति स्थिते इत्यादि । सम्बोधनेऽपि प्राग्वत् कान्तं गान्तं वेति रूपद्वयम् । धुटादिप्रत्ययोदाहरणं च वक्ता इत्यादि । प्रत्यच् स इति स्थिते इति प्रतिपूर्वक 'अञ्चू गतौ च' अञ्च् प्रत्यञ्चतीति क्विप् "अप्रयोगीत्" विप्लोपः "अञ्चोऽनर्चायाम्” इति नलोपः ततश्च प्रत्यच् १-१ इति स्थिते ॥ १ ॥ सूत्रम्
अचः ॥ २॥[ सि० १।४।६९ ] अश्चतुर्धातो(डन्तस्य घुटि परे धुटः प्राग् नोऽन्तः स्यात् । “दीर्घड्याव०" इति सिलुकि ॥२॥३२
है. प्रका० पूर्वा० १६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org