________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे खरान्ताः नपुंसकलिङ्गाः । इकाराद्यन्ताः ११९ इति इ उ ऋ ल एतदन्ते गुणं विगन्ति वष्टिर्वाञ्छतीत्यर्थः । माध्यन्दिनिः किंविशिष्टः ? व्याघ्रपदी व्याघ्रपद्गोत्रजानां मध्ये वरिष्ठः, श्रेष्ठ इत्यर्थः ॥ १३ ॥ एवं मधुशब्दस्यापि रूपपद्धतिः । मधु २ मधुनी २ । मधूनि २।हे मधो, हे मधु इति । यस्तु चैत्रो मधुश्चैत्रिकश्चेति मधुशब्दः स तु पुंल्लिङ्गः साधुशब्दवत् । दध्यादीनां चतुर्णा टादौ विशेषमाह
दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान् ॥ १४ ॥ [सि० १।४।६३ ] एषां नपुंसकानां खेऽखे वा टादौ खरे अन् स्यात् । “अनोऽस्य" इत्यल्लुकि दध्ना प्रियदध्ना। "ईडौ वा" दध्नि दधनि । अस्था । अत्यस्था । सक्ला । अक्ष्णा ॥ १४ ॥ इह द्विधा लिङ्गव्यवस्था केचिद् दध्यादिवजातिशब्दाः स्वत एव लिङ्गमुपाददते, गुणक्रियाद्रव्यसम्बन्धनिमित्ताश्च केचित्पवादिवद्विशेष्यानुरूपं लिङ्गमिति ।
दध्यस्थि० । दधि च अस्थि च सक्थि च अक्षि च दध्यस्थिसक्थ्यक्षि तस्य दध्यस्थिसक्थ्यक्षि ६.११० अनेनैव इकारस्य अन् "अनोऽस्य” इत्यकारलुप् "रघुवर्णा०" "लोकात्" “सो रुः" । अन्त ६-१ 'टाङसो" । अन् १-१ "दीर्घड्याब्" । मध्ये "इवर्णादे." "अतोऽति." "अवर्णस्ये.” “एदोतः पदान्ते." "समानानां०"। त्रिपदमिदं । प्रथमाद्वितीययोर्व्यञ्जनादिषु च वारिशब्दवत् । दधि २ दधिनी २ दधीनि २ । दधि ३-१ इति स्थिते इकारस्य अनादेशे "अनोऽस्य” इत्यकारलोपे "लोकात्" दना । दधिभ्याम् ३ दधिभिः दध्ने दध्नः २ दध्नोः २ दनाम् "ईडौ वा” इति दन्नि दधनि दधिषु हे दधे हे १५ दधि । प्रियदन्नेति अन्यतोलिङ्गत्वात् पुंवद्भावे प्रियदधिना । सप्तम्यां रूपत्रयम्-प्रियदनि प्रियदधनि प्रियदधौ । एवं अस्थि २ अस्थिनी २ अस्थीनि २ अरभा अत्यरभा अत्यस्थिना, अस्थिभ्याम् ३ अस्थिभिः अस्त्रे अस्थः २ अस्थोः २ अस्थाम् अस्थि अस्थनि अस्थिषु हे अस्थे हे अस्थि । सक्थि २ सक्थिनी २ सक्थीनि २ सक्दा सक्ने सक्नः २ सक्योः २ सक्नाम् सक्नि सक्थनि सक्थिषु हे सक्थे हे सक्थि । अक्षि २ अक्षिणी २ अक्षीणि २ अक्ष्णा अक्षिभ्याम् ३ अक्षिभिः अक्ष्णे अक्ष्णः २ अक्ष्णोः २ अक्षणाम् २० अक्षिण अक्षणि अक्षिषु हे अक्षि हे अक्षे ।। दधि प्रतीतम्, अस्थि कीकसम् , सक्थि ऊरुः, अक्षि नेत्रमिति ॥ १४॥ इह द्विधा लिङ्गव्यवस्थेति इह शाने लिङ्गव्यवहारो द्विधा भवति यथा केचित् स्वतोलिङ्गाः केचिदन्यतोलिङ्गाश्च । तत्र स्वतोलिङ्गानाह-जातिशब्दा इति जातिः प्रवृत्तिनिमित्तं येषां ते जातिशब्दाः घटपटगोमहिषादयः । अन्यतोलिङ्गानाह-गुणक्रियाद्रव्यसम्बन्धनिमित्ताश्चेति-गुणः क्रिया द्रव्यसम्बन्धश्च प्रवृत्तिनिमित्तं येषां ते तथा । पट्टादिवदिति । तत्र गुणप्रवृत्तिनिमित्तकाः पटुर्मूढः शुक्लः कृष्ण २५ इत्यादयः । क्रियाप्रवृत्तिनिमित्तकाश्च पाचको याचक इत्यादयः । द्रव्यसम्बन्धप्रवृत्तिनिमित्तकाश्च दण्डी धनवानित्यादयः । एते च यादृशं विशेष्यं भवति तादृशं लिङ्गं बिभ्रति । 'गुणवृत्तेराश्रयाद्वचनलिङ्गे' इति लिङ्गानुशासनवचनात् । तत एते अन्यतोलिङ्गा उच्यन्ते । यथा पुरुषश्चेत् पटुः स्त्री चेत् पट्टी कुलं चेत् पटु । एवं पाचकः पाचिका पाचकम् , दण्डी दण्डिनी दण्डि । एवं लिङ्गव्यवस्थायां सत्यामन्यतो लिङ्गानां नपुंसकानां शब्दानां दादौ स्वरादौ विशेषमाह
वान्यतः पुमांष्टादौ खरे ॥ १५ ॥ [सि० १।४।६२ ] अन्यतो विशेष्यवशाभपुंसको नाम्यन्तष्टादौ खरे पुंवद्वा स्यात् । पटुना २ । पटुने, पटवे । पटुनः पटोः, २। पटूनाम् २ । पटुनि, पटौ ॥ १५॥ नी-ग्रामण्यादिशब्दानां हस्वत्वे नि-३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org