________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे खरान्ताः नपुंसकलिङ्गाः । अकारान्ताः ११७ विरा० । विराम ७-१ "अवर्णस्ये.” वा १-१ "अव्ययस्य" । विरामस्थस्येति पर्यन्तस्थस्येत्यर्थः । अनेन दकारस्य तकारे अन्यत् इति । एवमितरद् २ इत्यादिष्वपि रूपद्वयं द्विकेनाङ्केन ज्ञेयमिति ॥ ७ ॥ आसनशब्दस्य प्रथमवचनपञ्चके कुलशब्दवद्रूपनयः शसादिषु तु “मासनिशासनस्य ०" इत्यन्त्यलुकि "नि दीर्घः" इति दीर्घ आसानि पक्षे आसनानि । आसन भ्याम् इति स्थिते अन्त्यलोपे "नामसिदयः” इति पदसंज्ञायां "नानो नोऽनह्नः" इति नलोपे प्राप्ते *"स्वरस्य परे प्राग्विधौ” स्वरस्यादेशः परनिमित्तकः ५ पूर्वस्य विधौ विधेये स्थानीव स्यात् इत्यकारस्य सत्त्वान्नलोपो न भवति आसनभ्याम् ३ पक्षे आसनाभ्याम् ३ । पाणिनीयानां तु आस्यशब्दस्यासन्नादेश इति पूर्वोक्तपरिभाषया अनुपस्थानात् नलोपो भवति आसभ्यामित्यादि । यत्तु सिद्धान्तकौमुद्यां आसनस्यासन्नादेश इति काशिकोक्तं प्रामादिकमित्युक्तम् तन्नातिपेशलम्-काशिकोक्तस्यानेकान्यव्याकरणसम्मतत्वात् 'आसन्यं प्राणमूचुरित्ययं प्रयोगस्त्वलौकिक एवान्यथा 'तुल्यास्यप्रयत्नं सवर्ण मिति सूत्रे स्थानविशेषप्रतिपत्त्यर्थमास्ये भवमास्यमिति भाष्ये यदुक्तं १० तत्राप्यासन्यमिति प्रयोगप्रसङ्गः । हृदयोदकयोः प्रथमवचनपञ्चके कुलशब्दवद्रूपपद्धतिः शसादौ तु "दन्तपाद०” इति सूत्रेण हृदुदन आदेशौ वा भवतः इति रूपद्वयं भवति । हृदय २-३ "नपुंसकस्य शिः" हृद् इ इति स्थिते सूत्रम्
धुटां प्राक् ॥ ८॥ [ सि० श६६ ] स्वरात्परा या धुड्जातिस्तदन्तस्य घुटि परे धुटः प्रानोऽन्तः स्यात् ॥ ८॥
धुटां० । धुद ६-३ “लोकात्" । प्राक् १-१ "अव्ययस्य" । द्विपद० । धुटामिति बहुवचनं जातिपरिग्रहार्थं तेन यत्र स्वरात्परं धुवयं भवति एको वा धुड्भवति तत्रानेन धुटि परे नोऽन्तो भवति यथा काष्ठत्वद्धि कुलानीति ततश्चानेन नोऽन्तागमे हन्द् इ इति स्थिते ॥ ८ ॥ सूत्रम्
नां धुड्वर्गेऽन्त्योऽपदान्ते ॥ ९॥ [सि० १॥३॥३९] अपदान्तस्थानां नां वर्गे धुटि परे पुरःस्थधुट्सम्बन्धी पञ्चमः स्यात् । हृन्दि । हृदा । हृद्-२० भ्याम् । उदानि उद्गा । उदभ्याम् । पक्षे त्वासनादयः कुलवत् ॥ ९॥
नां० । म् च न च म्नस्तेषां म् ६-३ धुट् चासौ वर्गश्च धुड्वर्गस्तस्मिन् धुडवर्ग ७-१ "अवर्णस्ये."। अन्य १-१ "सो रुः” । पदस्य अन्तः पदान्तः न पदान्तः अपदान्तः तस्मिन् अपदान्त ७-१ "अवर्णस्ये." । चतुष्पदमिदं सूत्रम् । अनेन नोऽन्तसम्बन्धिनो नस्य नत्वे हृन्दि इति सिद्धम् । ननु नस्य नत्वकरणं पिष्टपेषणवत्कथं युक्तमिति चेदुच्यते-कार्यान्तरबाधनार्थ ततश्चात्र नकारस्य नकार एव स्यात् २५ न तु कार्यान्तरम् । तथाहुः श्रीसूरयः-"नामिति बहुवचनं वर्णान्तरबाधनार्थम् ,” तेन कुर्वन्ति कृषन्ति विस्रम्भः संरम्भ इत्यत्र नकारस्य णत्वं बाधित्वानेन वर्गान्त्य एव भवति । क्रान्त्वा भ्रान्त्वा इत्यत्रापि नकारे कृते णत्वबाधनार्थं पुनर्नकारः । धुडिति किम् ? आहन्महे । धुड्वर्ग इति किम् ? हंस्यति । अपदान्त इति किम् ? भवान् करोति । अन्वित्यधिकारात् व्यक्ता व्यक्तुमित्योंर्गत्वे कत्वे च कृते पश्चात्कवर्गान्त्यः अन्यथा च वर्गान्त्यः स्यात् ॥९॥ अतिजरशब्दस्य "अतः स्यमोऽम्" इति स्यमोरमादेशे ३० सन्निपातन्यायस्यानित्यत्वाज्जरसादेशे "जरसो वा" [११४६०] जरसन्तस्य नपुंसकस्य सम्बन्धिनोः स्यमोलुंग्वा भवति । अतिजरः अतिजरसं कुलं तिष्ठति पश्य वा । अन्ये द्वितीयैकवचनस्यामो योऽमादेशस्तस्यैव लुब्विकल्पमिच्छन्ति न स्यादेशस्य । केचिजरसः स्यमोर्लोपमिच्छन्ति तन्मतेऽतिजरसं तिष्ठति पश्येत्येव भवति । एवं प्रथमाद्वितीययोर्द्विवचने अतिजरे, अतिजरसी । बहुवचने शौ परत्वा-३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org