SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु नपुंसकस्य शिः ॥ ३॥ [ सि० १।४।५५ ] नपुंसकस्य जस्शसोः शिः स्यात् । स च घुट्रसंज्ञकः, शेषघुसंज्ञकश्च । शकारो विशेषार्थः॥३॥ नपुं० । नपुंसक ६-१ "टाङसो०" शि १-१ "सो रुः" "रः पदान्ते." । द्विपदमिदं० । स च घुसंज्ञक इति "स्यमौजसः स्युर्घटसंज्ञाः पुंस्त्रियोः शिर्नपुंसके” इति वचनात् । शेषघुट्संज्ञकश्चेति ५"विना सम्बोधनाथ सिं शेषघुट्संज्ञका अमी" इति वचनात् । अकारो विशेषार्थ इति "स्वराच्छौ" "सख्युरितोऽशावैत्" इत्यादौ विशेषार्थ इत्यर्थः । कुल इ इति जाते ॥ ३ ॥ सूत्रम् स्वराच्छौ ॥ ४ ॥ [ सि० १४१६५ ] शौ परे स्वरान्तानपुंसका नोऽन्तः स्यात् ॥ ४ ॥ स्वरा० । स्वर ५-१ "डेङस्योर्यातौ” “समानानां०”। शि ७-१ "खिन्डौ" "डित्यन्त्य.” "लोकात्"। १०मध्ये "प्रथमादधुटि शश्छः" इति शस्य छत्वे 'तवर्गस्य'ति तस्य चत्वे द्विपदमिदं० । अनेन नोऽन्तागमे कुल न इ इति जाते ॥ ४ ॥ सूत्रम् नि दीर्घः ॥ ५॥[सि० २४८५ ] शेषघुट्परे नकारे परे खरस्य दीर्घः स्यात् । कुलानि ॥ ५॥ द्वितीयायामप्येवम् । “अदेतः स्समो"रिति सिलुकि हे कुल । तृतीयादिषु देववत् । सर्वादिष्वन्यादीनां विशेषः। १५ नि० । न ७-१ "लोकात्" । दीर्घ १-१ "सो रुः" "र: पदान्ते.” । द्विपदमिदं० । अनेन दीर्घ कुलानि इति सिद्धम् ॥ ५ ॥ द्वितीयायामप्येवमिति द्वितीयैकवचने "अतः स्यमोऽम्" इत्यमोप्यमादेशे "समानादमोत." कुलम् । सम्बोधनेऽपि परत्वात्पूर्वम् "अतः स्थमोऽम्” इति सेरमादेशे तस्य च "अदेतः स्यमोलक” इति हे कुल । तृतीयादिषु देववदिति न कश्चिद्रूपे प्रक्रियायां वा विशेष इति भावः । सर्वादिष्वन्यादीनां विशेष इति सूत्रम्२० पञ्चतोऽन्यादेरनेकतरस्य दः ॥६॥ [सि० ११४।५८] अन्यादिपञ्चकस्यैकतरवर्जस्य स्यमोदः स्यात् । अन्यद् ॥६॥ पञ्च० । पञ्चेति सङ्ख्यामानमस्य वर्गस्य स पञ्चत् वर्गः *"पश्चद्दशद्वर्गे वा” एतौ तदस्य मानमिति विषये वर्गे अत्प्रत्ययान्तौ वा निपात्येते । पञ्चत् ६-१ "लोकात्” “सो रुः" । अन्य आदिर्यस्य स अन्यादिस्तस्य अन्यादि ६-१ "ङित्यदिति” “एदोग्यां०" । न विद्यते एकतरः शब्दो यस्मिन् स अनेक२५ तर ६-१ "टाङसो०" द् १-१ "सो रुः" "रः पदान्ते.” । मध्ये "अतोऽति." "अवर्णस्ये." "एदोतः पदान्ते.” 'लोकात्' । चतुष्पदमिदं सूत्रम् । अन्य १-१ अनेन सेर्दकारादेशे अन्यद् इति जाते ॥ ६ ॥ सूत्रम् विरामे वा ॥७॥ [सि० ११३५१ ] विरामस्थस्य शिवर्जस्य धुटः स्वप्रथमो वा स्यात् । अन्यत् । अन्यतरद् २ । इतरद् २ । कतरद् ३०२ । कतमद् २। एकतरवर्जनादेकतरम् ॥७॥ आसनस्य शसादौ स्यादौ परेऽन्त्यलुग्वा । आस्यशब्दस्य वासनादेश इति पाणिनीयाः । आसानि । आला । आसन्भ्याम् । हृदयोदकयो३२९दुदनादेशौ च शसादौ सादौ वा । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004040
Book TitleHaim Prakash Maha Vyakaranam Purvarddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1937
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy